संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
आग्रयणगौणप्रकारः

धर्मसिंधु - आग्रयणगौणप्रकारः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाग्रयणानुकल्पाः पृथगाग्रयण प्रयोगाशक्तौप्रकृतीष्टिसमानतन्त्राग्रयणप्रयोगः

तत्रपौर्णमासेष्ट्यासमानतन्त्रत्वे आदावाग्रयणप्रहानंपश्चात्प्राकृतप्रधानम् दर्शेष्ट्यैकतन्त्रत्वेपूर्वदर्शेष्टिप्रधानयागः

पश्चादाग्रयणप्रधानयागः अन्यत्पूर्वोत्तराङ्गजातमाग्रयणंविकृतिसंबन्ध्येवकार्यम् विरोधेवैकृतंतन्त्रमितिसिद्धान्तात्

एतदसंभवेनवश्यामाकव्रीहियवैःपुरोडाशंकृत्वादर्शपूर्णमासौकुर्यात् यद्वानवव्रीह्यादिभिरग्निहोत्रहोमंकुर्यात्

अथवानवान्नान्यग्निहोत्र्यागवाखादयित्वातस्याः पयसाग्निहोत्रंजुहुयात् यद्वानवान्नेनब्राह्मणान्भोजयेदितिसंक्षेपः

इदं मलमासेनकार्यम् गुर्वाद्यस्तेपिनकार्यमितिकेचित् जीर्णधान्यालाभेतुमलमासादौकार्यम् ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP