संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथरक्षाबन्धनः

धर्मसिंधु - अथरक्षाबन्धनः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथरक्षाबन्धनमस्यामेवपूर्णिमायांभद्रारहितायां त्रिमुहूर्ताधिकोदयव्यापिन्यापराह्णेप्रदोषेवाकार्यम् उदयेत्रिमुहूर्तन्यूनत्वेपूर्वेद्युर्भद्रारहिते

प्रदोषादिकालेकार्यम् इदंग्रहणसंक्रान्तिदिनेपिकर्तव्यम् मन्त्रस्तु येनबद्धोबलीराजादानवेंद्रोमहाबलः ।

तेनत्वाभिबध्नामिरक्षेमाचलमचल १ इति अत्रैव पूर्णिमायां हयग्रीवोत्पत्तिः श्रावणपूर्णिमाकुलधर्मादौत्रिमुहूर्तसायाह्नव्याप्तापूर्वविद्धैवग्राह्या

त्रिमुहूर्तन्यूनत्वेपरा अस्यामेवपौर्णमास्यामाश्वलायनानांश्रवणाकर्मसर्पबलि श्चरात्रावुक्तः तैत्तिरीयाणांतुसर्पबलिरेवोक्तः

कात्यायनानांसामगानांचश्रवणा कर्मसर्पबली

द्वावप्युक्तौश्रवणाकर्मसर्पबल्याश्वयुजीप्रत्यवरोहणादिपाकसंस्थानांस्वस्वकालेष्वकरणेप्राजापत्यंप्रायश्चित्तं

कार्यंनतुकालान्तरेतदनुष्ठानम्

श्रवणाकर्मादिसंस्थाःपत्न्यामृतुमत्यामपिकार्याःप्रथमारम्भस्तुनभवतिअत्रपौर्णमासी-अस्तमयप्रभृतिप्रव्रुत्तकर्मपर्याप्तकालव्यापिनी

पूर्वैवचेत्पूर्वैवग्राह्या दिनद्वये तत्स्म्बन्धस्यसत्वेअसत्वेवापरैव प्रयोगस्तुस्वस्वमूत्रेषुज्ञेयः श्रावणकृष्णचतुर्थ्या

प्रारभ्यकृष्णचतुर्थीषुयावज्जीवमेकविंशतिवर्शानिवाएकवर्शंवासंकष्टचतुर्थीव्रतं कार्यम् अशक्तौप्रतिवर्षंश्रावणचतुर्थ्यामेवकार्यम्

अत्रचन्द्रोदयव्याप्त्यातिथि निर्णयःप्रथमपरिच्छेदेउक्तः सोद्यापनव्रतप्रयोगः कौस्तुभादौज्ञेयः।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP