संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अत्रत्रयोदश्यां

धर्मसिंधु - अत्रत्रयोदश्यां

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अत्रत्रयोदश्यां मघायुतायांकेवलायांवाश्राद्धंनित्यम् केवलमघायामपिश्राद्धं कार्यम्

अत्र श्राद्धविधौबहुग्रन्थेषुबहवः पक्षाः अपुत्रेणपुत्रिणावागृहिणा

सपत्नीकपितृपार्वनमातामहपार्वणाभ्यांपितृव्यभ्रातृमातुलपितृष्वसृमातृष्वसृभगिनीश्वशुरादिपार्वणैश्चसहितंअपिण्डकंसांकल्पविधिनाश्राद्धंकार्यम्
अथवापित्रादिपार्वणद्वयंमहालयवत्पितृव्याद्येकोद्दिष्टगणांश्चेद्दिश्यसांकल्पविधिनाश्राद्धं कार्यम् यद्वादशवत्षड्‌दैवतंश्राद्धमपिंडकंकार्यम्

वा निष्कामेणपुत्रिणा श्राद्धविधिनाश्राद्धंनानुष्ठेयंकिंतुपित्रादिपार्वणद्वयंकेवलं पितृव्यादिसहितंवोद्दिश्यैतेषांतृप्त्यर्थंब्राह्मणभोजनं करिष्य

इतिसंकल्पपितृरूपिणेब्राह्मणायगन्धंसमर्पयामीत्येवंपञ्चोपचारान्समर्प्य

ब्रह्मार्पणमित्यादिपठित्वानेनब्राह्मणभोजनेनपित्रादिरूपीश्वरःप्रीयतामित्यन्नमुत्सृज्यपायसादिमधुरान्नेनविप्रान्

भोजयित्वादक्षिणाभःसंतोष्यस्वयंभुञ्जीतेत्येतावदेवकर्त्यव्यम् अपुत्रिणःसकामस्य चपिण्डदानरहितश्राद्धविधिनाश्राद्धंनदोषाय

क्वचिदपुत्रिणःपिण्डदानमप्युक्तम् एवमुक्तपक्षेष्वन्यतमपक्षेणमघात्रयोदशीश्राद्धमवश्यानुष्ठेयम् अकरणेदोषोक्तेर्नित्यत्वात्

हस्तनक्षत्रस्थेसूर्यमघायुतात्रयोदशीगजच्छायासंज्ञिता अस्यांश्राद्धेनफलभूयस्त्वम् अत्रमहालयस्ययुगादेश्चप्राप्तौ

मघात्रयोदशिमहालययुगादिश्राद्धानितन्त्रेणकरिष्यइतिसंकल्प्यतन्त्रेणकुर्यात् नतुदर्शेननित्यश्राद्धस्येवकस्यचित्प्रसङ्गसिद्धिः

अत्रैवंभाति अङ्गानामैक्यंप्रधानमात्रभेदस्तन्त्रम् तेनविश्वेदेवपाकाद्यङ्गानामैक्यंविप्रार्घ्यपिण्डादेर्भेदएव

प्रसङ्गसिद्धिस्थलेतुप्रधानमपिनभिद्यत

इति त्रयोदशीश्राद्धेऽपरपक्शत्वाध्दूरिलोचनाविश्वेदेवाःश्राद्धसागरेउक्ताः

अविभक्तेरपिभ्रातृभिर्मघात्रयोदशीश्राद्धंपृथक्कार्यमितिसिन्धुकौस्तुभादौ विभक्तेरपि सहैवेतिश्राद्धसागरे ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP