संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथोपाकर्मकालः ।

धर्मसिंधु - अथोपाकर्मकालः ।

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रबहववृचानांश्रावणशुक्लपक्षेश्रवणनक्षत्रंपञ्चमीहस्तइति

कालत्रयम् तत्रश्रवणंमुख्यकालस्तदलाभेपञ्चम्यादिः तथाचकालतत्त्वविवेचने

संग्रहकारिकायाम् पर्वणिश्रवणेकार्यंग्रहसंक्रान्त्यदूषिते ।

अध्वर्युभिर्बह्‌वृचैश्वकथंचित्तदसंभवे १ तत्रैवहस्तपञ्चम्यांतयोःकेवलयोरपि ।

तत्रदिनद्वयेश्रवणसत्त्वे यदिपूर्वसूर्योदयमारभ्यप्रवृत्तंश्रवणंद्वितीयदिनेसूर्योदयोत्तरं

पूर्वदिनेएव संपूर्णव्याप्तेः यदिपूर्वदिनेसूर्योदयेनास्तिपरदिनेसूर्योदयोत्तरंमुहूर्तद्वयंवर्ततेतदोत्तरदिने

एव उत्तराषाढावेधनिषेधात् यदिपरदिनेमुहूर्तद्वयन्यूनंपूर्वदिनेचोत्तराषाढाविद्धंतदापञ्चाम्यादिकालोग्राह्यः

पञ्चमीहस्तइति कालद्वयंतुऔदयिकंमुहूर्तत्रयव्यापिमुख्यम् तदलाभेपूर्वविद्धमपि

एवंभाद्रपदशुक्लपक्षेपिश्रवणपञ्चमीहस्तकालत्रयनिर्णयोज्ञेयः एतद्वह्‌वृचैः पूर्वाह्णेकार्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP