संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथतिथिनिर्णयः

धर्मसिंधु - अथतिथिनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रचैत्रशुक्लप्रतिपदिवत्सरारम्भः तत्रौदयिकीप्रतिपत्ग्राह्यादिनद्वयेउदयव्याप्तौअव्याप्तौवापूर्वा चैत्रस्यमलमासत्वे वत्सरारम्भनिमित्तकं

तैलाभ्यङ्गंसंकल्पादौनूतनवत्सरनामकीर्तनाद्यारम्भंचमलमासप्रतिपद्येवकुर्यात् प्रतिगृहंध्वजारोपणंनिम्बपत्राशनंवत्सरादिफलश्रवणं

नवरात्रारम्भोनवरात्रौत्सवादिनिमित्ताभ्यङ्गादिश्चशुद्धमासप्रतिपदिकार्यः वत्सरारम्भनिमित्तकोपितैलाभ्यङ्गः

शुद्धप्रतिपद्येवेतिमयूखेउक्तम् अस्यांतैलाभ्यङ्‌गोनित्यः अकरणेप्रत्यवायोक्तेः अस्यामेवप्रतिपदिदेवीनवरात्रारम्भः

अत्रपरयुतामुहूर्तमात्रापिप्रतिपत्ग्राह्या अत्रमुहूर्तपरिमाणम् मुहूर्तमह्नोरात्रेश्वप्रोचुःपञ्चदशंलवमित्युक्तंसर्वत्रज्ञेयम्

पारणादिवेशेषनिर्णयः शारदनवरात्रवद्बोध्यः अत्रैवप्रपादानम् तत्रमन्त्रः प्रपेयंसर्वसामान्याभुतेभ्यः प्रतिपादिता ।

अस्याः प्रदानात्पितरस्तृप्यन्तुहि पितामहाः १ अनिर्वायंततोदेयंजलंमासचतुष्टयम् ।

प्रपांदातुमशक्तेनप्रत्यहमुदकुम्भोद्विजगृहेदेयः तत्रमन्त्रः एषधर्मघटोदत्तोब्रह्मविष्णुशिवात्मकः ।

अस्य प्रदानात्सकलाममसन्तुमनोरथः १ इयमेवप्रतिपत्कल्पादिरपि एवंवैशाखशुक्लतृतीया

फाल्गुनकृष्णतृतीयाशुक्लचैत्रपञ्चमीमाघेत्रयोदशीकार्तिकेसप्तमीमार्गशीर्षेनवमीइत्यपिकल्पादयोबोध्याः

आसुश्राद्धात्पितृतृप्तिः चैत्रशुक्लप्रतिपन्मत्स्यजपन्तीत्येके चैत्रेदधिक्षीरघृतमधुवर्जनदंपतीपूजनात्मकंगौरीव्रतंकार्यम्

चैत्रशुक्लद्वितीयायांनिशामुखेबालेन्दुपूजनात्मकं चंद्रव्रतम् अस्यामेवदमनकेन गौरीशिवपूजनम्

चैत्रशुक्लतृतीयायांगौरीशिवयुतांसंपूज्यान्दोलनव्रतंमासपर्यन्तंकार्यम् अत्रतृतीयामुहूर्तमात्रापिपराग्राह्या

द्वितीयायुक्तानकार्या चतुर्थीयुतायांवैधृत्यादियोगेपिसैवकार्या द्वितीयायोगनिषेधस्यबलवत्त्वात्

अस्यामेवतृतीयायांश्रीरामचन्द्रस्यदोलोत्सवमारभ्यमासपर्यन्तंपूजापूर्वकमान्दोलनंकार्यम् एवंदेवतान्तराणामपि

इयमेवतृतीयामन्वादिरपि अत्रैवसर्वमन्वादिनिर्णय उच्यते तत्रमन्वादयश्चैत्रेशुक्लतृतीयापौर्णिमासी च

ज्येष्ठेपौर्णिमा आषाढस्य शुक्लदशमीपौर्नमासीच श्रावणस्यकृष्णाष्टमी भाद्रपदस्यशुक्लतुतीया

आश्विनस्यशुक्लनवमी कार्तिकस्यशुक्लद्वादशीपौर्णमासीच पौषेशुक्लेकादशी माघेशुक्लसप्तमी

फाल्गुनस्यपौर्णमास्यमावास्याचेतिचतुर्दशज्ञेयाः एतास्तुमन्वादयः शुक्लपक्षस्थाः दैवेपित्र्येकर्मणिपूर्वाह्णव्यापिन्योग्राह्यः

पूर्वाह्णोत्रद्वेधाविभक्तदिनपूर्वोभागस्तत्रैवश्राद्धादिविधानात् दैवान्मानुषाद्वापराधात्पूर्वाह्णेश्राद्धाद्यनुष्ठानासंभवेऽपराह्णव्यापिन्योग्राह्याः

दिनपूर्वार्धेऽपराह्णेवा श्राद्धाद्यनुष्ठेयम् नतुदिनोत्तरार्धगतमध्याह्नभागेइतितात्पर्यम्

कृष्णपक्षस्थास्तुदैवेपित्र्येर्चकमणिपञ्चधाविभक्तदिनचतुर्थभागाख्यापराह्णव्यापिन्योग्राह्याः

मन्वादिषुपिण्डरहितं श्राद्धंकार्यम् अत्रश्राद्धेर्दिव्सहस्त्रवर्षपितृणांतृप्तिः मन्वादिश्राद्धंचनित्यम् एतदकरणे त्वंभुवःप्रतिमानमिति

ऋङ्वन्त्रस्यशतवारंजलेजपःप्रायश्चित्तंकार्यम् एवंषण्णवतिश्राद्धान्यपिनित्यानि तानिच ।

अमा १२ युग ४ मनु १४ क्रान्ति १२ धृति १२ पात १२ महालयाः १५ । अष्टका ५ अन्वष्टका ५ पूर्वेद्युः ५ श्राद्धैर्नवतिश्चषट्‌ ।

इतिज्ञेयानि ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP