संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथनवमीव्रतप्रयोगः

धर्मसिंधु - अथनवमीव्रतप्रयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91

अष्टभ्यामाचार्यसंपूज्य श्रीरामप्रतिमादानंकरिष्येहंद्विजोत्तम ।

तत्राचार्योभवप्रीतः श्रीरामोसित्वमेवमे १ इतिप्रार्थ्य नवम्याअङ्गभुतेन एकभक्तेनराघव इक्ष्वाकुवंशतिलकप्रीतोभवभवप्रिय १

इत्येकभक्तं संकल्प्यसाचार्योहविष्यं रञ्जीत पूजामण्डपंतत्रवेदिंचकृत्वा नवम्यांप्राथ उपोष्यनवमी त्वद्ययामेष्वष्टसुराघव ।

तेनप्रीतोभवत्व्म्मेस्म्सारातत्राहिमांहरे १ इत्युपोषणं संकल्प्य इमांस्वर्णमयींरामप्रतिमांस्वांप्रयतनतः

श्रीरामप्रीतये दास्येरामभक्ताय धीमते १ इतिप्रतिमादानंसंकल्पयेत् श्रीरामनवमीव्रताङ्गभूतांषोडशोपचारै

श्रीरामपूजांकरिष्येइतिसंकल्प्य वेदिकायांसर्वतोभद्रेकलशंसंस्थाप्यतत्रपूर्णपात्रे सवस्त्रेऽग्न्युत्तारणादिविधिनाप्रतिमायां

श्रीरामंप्रतिष्ठाप्यपुरुषसूक्तेनषोडशोपचारैः संपूज्यपूजान्ते रामस्यजननीचासिरामात्मकमिदंजगत् ।

अतस्त्वांपूजयिष्यामिलोकमातर्नमोस्तुते १ इतिकौसल्यांसंपूज्य ॐ नमोदशरथाय इतिदशरथं

संपूज्यसर्वपूजांसमाप्यमध्याह्नेफलपुष्पजलादिपूर्णेनशङ्खेनार्घ्यदद्यात् तत्रमन्त्रः दशाननवधार्थायधर्मसंस्थापनायच ।

दानवानांविनाशायदैत्यानांनिधनायच १ परित्राणायसाधूनांजातोरामःस्वयंहरिः । गृहाणार्घ्यंमयादत्तंभ्रातृभिः सहितोऽनघ २ इति ।

रात्रौजागरणं कृत्वाप्रातर्नित्यपूजांविधाय मूलमन्त्रेणपायसाष्टोत्तरशताहुतीर्हुत्वा पूजांविसृज्याचार्यायप्रतिमांदद्यात् ।

इमांस्वर्णमयीरामप्रतिमांसमलंकृताम् । शुचिवस्त्रयुगच्छन्नांरामोहंराघवायते १ श्रीरामप्रीतयेदास्येतुष्टोभवतुराघवः ।

इतिमन्त्रः तवप्रसादंस्वीकृत्यक्रियतेपारणामया । व्रतेनानेनसंतुष्टःस्वामिनभक्ति प्रयच्छमे १ इतिप्रार्थ्य नवम्यन्तेपारणांकुर्यात

इदंव्रतंमलमासेनकार्यम् एवंजन्माष्टम्यादिव्रतमपिनकार्यम् अस्यामेवनवम्यां देवीनवरात्रसमाप्तिःकार्या

एवन्निर्णयआश्विननवरात्रनवमीवत् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP