संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथव्रतविधिः

धर्मसिंधु - अथव्रतविधिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

देशकालौसंकीर्त्यममैतज्जन्मजन्मान्तरसमुद्‌भूतत्रिविधकायिक

चतुर्विधवाचिकत्रिविधमानसेतिस्कान्दोक्तदशविधपापनिरासत्रयस्त्रिंशच्छतपित्रुद्धार

ब्रह्मलोकावाप्त्यादिफलप्राप्त्यर्थंज्येष्ठमाससितपक्षदशमी बुधवारहस्ततारका

गरकरणव्यतीपातानन्दयोगकन्यास्थचन्द्रवृषस्थसूर्येतिदशयोगपर्वण्यस्यांमहानद्यां

स्नानंतीर्थपूजनंप्रतिमायांजाह्नवीपूजांतिलादिदानंमूलमन्त्रजपमाज्यहोमं चयथाशक्तिकरिष्ये

यथाविधिस्नानं दशवारंकृत्वाजलेस्थितोदशवारं सकृद्वावक्ष्यमाणं स्तोत्रं पठित्वा

वासःपरिधानादिपितृतर्पणान्तंनित्यंविधायतीर्थेपूजां

विधायसर्षिर्मिश्रान्‌दशप्रसृतिकृष्णतिलान्‌तीर्थेऽञ्जलिनाप्रक्षिप्यगुडमिश्रान्सक्तुपिण्डान्दशप्रक्षिपेत्

ततोगङ्गातटेताम्रेमृन्मयेवास्थापितेकलशेसौवर्णादिप्रतिमायांगङ्गामावाहयेत्

तत्रमन्त्रःनमोभगवत्यैदशपापहरायैगङ्गायैनारायण्यै रेवत्यैशिवायै दक्षायै

अमृतायैविश्वरूपिण्यैनन्दिन्यैतेनमोनमःअयंस्त्र्यादिसाधारणः द्विजमात्रविषयोविंशत्यक्षरोयथाॐनमः

शिवायैनारायण्यैदशहरायैगङ्गायैस्वाहेतिएबंगङ्गामावाह्य

नारायणंरुदंब्रह्माणंसूर्यंभगीरथंहिमाचलंचनाममन्त्रेणतत्रैवावाह्यौक्तमूलमन्त्रामुच्चार्य

श्रीगङ्गायैनारायणरुदरब्रह्मसूर्यभगीरथहिमवत्सहितायैआसनसमपयामीत्येवमासनाद्युपचारैः

पूजयेत् दशविधैः पुष्पैः संपूज्यदशाङ्गधूपंदत्वादशविधनैवेद्यान्तेताम्बूलंदक्षिणांदत्वादशफलान्यर्पयेत्

दशदीपान्‌दत्वापूंजासमापयेत्दशविप्रेभ्यः प्रत्येकं षोडशषोडशमुष्टितिलान्‍सदक्षिणानदद्यात् एवंयवानपि

ततोदशगाएकावागांदद्य तू मत्स्यकच्छपमण्डूकान्सौवर्णान्‌राजतान्‌पिष्टमयान्वासंपूज्यतीर्थेक्षिपेत्

एवंदीपान्प्रवाहयेत् जपहोमचिकीर्षायां पूर्वोक्तमूलमन्त्रस्यपञ्चसहस्त्रसंख्योजपोदशांशेनहोमः यथाशक्ति वाजपहोमौ

तत्रदशहराव्रताङ्गत्वेनहोमंकरिष्येइतिसंकल्प्यस्थण्डिलेंग्निप्रतिष्ठाप्यान्वाधानेचक्षुषीआज्येनेत्यन्ते

श्रीगङ्गाममुकसंख्ययाज्येननारायणादिषड्‌देवताएकैकयाज्याहुत्याशेषेणस्विष्टकृतमित्यादि

प्रोक्षण्यादिषट्‌पात्रआण्यासाद्याज्यंसंस्कृत्ययथान्वाधानंजुहुयात्

दशब्राह्मणानूसुवासिनीश्चभोजयेत् प्रतिपद्दिनमारभ्यस्नानादिपूजान्तोविधिः

कार्यतिकेचित् स्तोत्रंयथास्कान्हेब्रह्मोवाच नमःशिवायगङ्गायैशिवदायैनमोनमः ।

नमस्तेरुद्ररूपिण्यैशाङ्कर्यैतेनमोनमः १ नमस्तेविश्वरूपिण्यैंब्रह्ममूर्त्यैनमोनमः ।

सर्वदेवस्वरूपिण्यैनमोभेषजमूर्तये २ सर्वस्यसर्वव्याधीनांभिषक्‌श्रेष्ठ्यैनमोस्तुते ।

स्थाणुजङ्गमसंभूतविषहन्त्र्यैनमोनमः ३ भोगोपभोगदायिन्यैभोगवत्यैनमोनमः ।

मन्दाकिन्यैनमस्तेस्तुस्वर्गदायैनमःसदा ४ नमस्त्रैलोक्यभूषायैजगत्धात्र्यैनमोनमः ।

नमस्त्रिशुक्लसंस्थायै तेजोवत्यैनमोनमः ५ नन्दायैलिङ्गधारिण्यैनारायण्यैनमोनमः ।

नमस्ते विश्वमुख्यायैरवत्यैतेनमोनमः ६ बृहत्यैतेनमस्तेस्तुलोकधात्र्यैनमोनमः ।

विश्वामित्रायैनन्दिन्यैतेनमोनमः ७ पृथ्व्यैशिवामृतायैचसुवृषायैनमोनमः ।

शान्तायैचवरिष्ठायै वरदायैनमोनमः ८ उस्त्रायैसुखदोग्ध्र्‍यैचसंजीविन्यैनमो नमः ।

ब्रह्मिष्ठायैब्रह्मदायैदुरितघ्न्यैनमोनमः ९ प्रणतार्तिप्रभञ्जिन्यैजगन्मात्रे नमोस्तुते ।

सर्वापत्प्रतिपक्षायैमङ्गलायैनमोनमः १० शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरेदेविनारायणिनमोस्तुते ११ निर्लेपायैदुर्गहन्त्र्यैदक्षायैतेनमोनमः ।

परात्परतरेतुभ्यंनमस्तेमोक्षदेसदा १२ गङ्गेममाऽग्रतोभूयागङ्गेमेदेविपृष्ठतः ।

गङ्गेमेपार्श्वयोरेहित्वयिगङ्गेस्तुमेस्थितिः १३ आदौत्वमन्ते मध्येचसर्वंत्वंगांगतेशिवे ।

त्वमेवमूलप्रकृतिस्त्वंहिनारायणःपरः १४ गङ्गेत्वं पामात्माचशिवस्तुभ्यंनमःशिवे ।

यइदंपठतिस्तोत्रंभक्त्यानित्यंनरोपियः १५ शृणुयाच्छ्रद्धयायुक्तःकायवाक्‌चित्तसंभवैः ।

दशधासंस्थितैर्दोषैःसर्वैरेवप्रमुच्यते १६ सर्वान्कामानवाप्नोतिप्रेत्यब्रह्मणिलीयते ।

ज्येष्ठेमासिसितेपक्षेदशमीहस्तसंयुता १७ तस्यांदशम्यामेतच्चस्तोत्रंगङ्गाजलेस्थितः ।

यःपठेद्दशकृत्वस्तुदरिद्रोवापिचाक्षमः १८ सोपितत्फलमाप्नोतिगङ्गांसंपूज्ययत्नतः ।

अदत्तानामुपादानंहिंसाचैवाविधानतः १९ परदारोपसेवाचकायिकंत्रिविधंस्मृतम् ।

पारुष्यमनृतंचैवपैशून्यंचापिसर्वशः २० असंबद्धप्रलापश्चवाङ्मयंस्याच्चतुर्विधम् ।

परद्रव्येष्वभिध्यानंमनसानिष्टचिन्तनम् २१ वितथाभिनिवेशश्चमानसंत्रिविधंस्मृतम् ।

एतानिदशपापानिहरत्वंममजाह्नवि २२ दशपापहरास्यस्मात्तस्माद्दशहरास्मृता ।

तयस्त्रिंशच्छतंपूर्वान्पितृनथपितामहान् २३ उद्धरत्यवसंसारान्मन्त्रेणानेनपूजिता ।

नमोभगवत्यैदशपापहरायैगङ्गायैनारायण्यैरेवत्यै शिवायैदक्षायैअमृतायैविश्वरूपिण्यैनन्दिन्यैतेनमोनमः

सितमकरनिषण्णांशुभ्रवर्णांत्रिनेत्रांकरधृतकलशोद्यत्सोत्पलाम्यभीष्टाम् ।

विधिहरिहररूपांसेन्दुकोटीरजुष्टांकलितसितदुकूलांजान्हवीतांनमामि १

आदावादिपितामहस्यनिगमव्यापारपात्रेजलंपश्चात्पन्नगशायिनोभगवतःपादोदकंपावनम् ।

भूयःशंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियंदेवीकल्मषनाशिनीभगवतीभागीरथीदृश्यते २ गङ्गागङ्गेतियोब्रूयाद्योजनानांशतैरपि ।

मुच्यतेसर्वपापेभ्योविष्णुलोकंसगच्छति ३

इतिस्तोत्रेणस्तुत्वाहोमान्तेप्रतिमोत्तरषूजांकृत्वाविसृज्याचार्यायमूलमन्त्रेणदद्यात् इतिदशहराविधिः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP