संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथपारणाविसर्जनयोःकालः

धर्मसिंधु - अथपारणाविसर्जनयोःकालः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपारणाविसर्जनयोःकालःतत्रविसर्जनंदशम्यांकार्यम् दिनद्वयेदशमीसत्वेपूर्वदशम्यांश्रवणान्त्यपादयोगेतत्रैव

विसर्जनम् तत्रतद्योगाभावेतुपरदशम्यामेव परत्रदशम्यभावेपूर्वदशम्यांनक्षत्रयोगेसत्यसतिवाकार्यम्

नक्षत्रयोगानुरोधेन क्रियमाणंविसर्जनमपराह्नेऽभवति अन्यथाप्रातरेव तत्रमृदादिप्रातमायी

विसर्जनपूर्वकंजलादौत्यागः परंपरयापूजिताया धातुप्रतिमायास्तु घटादिस्थानादुत्तिष्ठेत्यादिमन्त्रैरुत्थापनमात्रंकार्यम्

नतुविसर्जनम् यद्दिनेविसर्जनंतत्रैवनियमत्यागस्यौचित्यात् विसर्जनोत्तरंतद्दिनेएवपारणंकार्यम्

अन्येतुसत्यपिदशम्यांविसर्जनविधौनवम्यामेवपारणंकार्यम् नवम्यांपारणंकुर्यात् दशम्यामभिषेकंच

कृत्वामूर्तिंविसर्जयेदित्यादिवचनादित्याहुः अत्रैवंव्यवस्था प्रथमदिनेष्वल्पाष्टम्यायुक्तानवमी

द्वितीयादिनेपारणपर्याप्तनवम्यायुक्तादशमी तत्परदिनेश्रवणयुक्ताविसर्जनार्हादशमी

तत्राष्टमीनवम्युपवासयोःप्रथमदिनेसिद्धत्वाद्वशिष्ट नवम्यांपारणमवशिष्टदशम्यांविसर्जनम्

यदातुअवशिष्टनवमीदिनेएवदशमी श्रवणयुक्ताविसर्जनार्हातुदा विसर्जनोत्तरंपारणम्

यदापूर्वदिनेषष्टिद्ण्डाष्टमीत्वरदिनेऽष्टमीशेषयुतानवमी तत्परदिने नवमीशेषयुतादशमी

तदानवम्यायुक्तदशम्यामेवविसर्जनोत्तरंपारणाअथनवमीषष्टिदण्डा द्वितीयदिने

नवमीशेषयुक्तादशमीतत्रपिनवम्यायुक्तदशम्यामेवविसर्जनपारणे

यदातुअष्टमीनवमीदशम्यस्तिस्त्रोऽपितिथयःसूर्योदयमारभ्यास्तमयपर्यन्तमखण्डास्तत्तत्कृत्यपर्याप्तास्तदा

दाक्षिणात्यानांनवम्यामेवपारणाचारान्नवम्यामेवपारणविसर्जनए येषादशम्यामेवाचारस्तेषांदुभयंदशम्यामेव ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP