संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथपूजानन्तरंकृत्यामग्निपुराणे ।

धर्मसिंधु - अथपूजानन्तरंकृत्यामग्निपुराणे ।

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

इत्येवं पूजयित्वातुपुरुषसूक्तैःसवैष्णवैः । स्तुत्वावादित्रनिर्घोषैर्गीतिवादित्रमङ्गलैः १ सुकथाभिर्विचित्राभिस्तथाप्रेक्षणकैरपि ।

पूर्वेतिहासैःपौराणैःक्षिपेत्तांशर्वरीनृप २ इति अत्रकथासुवैचित्र्यंदेश भाषाकाव्यकृतं सूक्तानांप्रागुक्तेः पुराणकथानामन्तेभिधानात्

प्रेक्षणकानि नृत्यादीनि

तथाचवैदिकसूक्तकरणकस्तुतिविशिष्टःपौराणेतिहासमिश्रितोगीतनृत्ययुतदेशभाषाकाव्यप्रमुखकथाकरणकोजागरोविप्रादिवर्णत्रयस्यविधीयते

शूद्रादीन्प्रतिएतादृशजागरस्य विधातुमयोग्यत्वात् वचनान्तरेणतुसूक्तादिरहितगीतादिविशिष्टोवर्णचतुष्ट्यसाधारणोविधीयते

गोकुलस्थजन्मलीलादि श्रवणोत्तरंवैष्णवैःपरस्परंदध्यादिभिःसेचनंकार्यम् । दधिक्षीरघृताम्बुभिः ।

आसिञ्चन्तोविलिम्पन्त इत्यादिभागवतवचनेनतथाविधिकल्पनात् अयमुत्सवोधुनामहाराष्ट्रदेशेगोपालकालेतिव्यवहियत

इतिमेभाति एतत्सर्वं कौस्तुभे श्रीमदनन्तदेवैःस्पष्टीकृतमस्तीति नमह्यमसूयाकार्या

एतादृशकथायुतोजागरोन्यत्ररामनवम्येकादश्याद्युत्सवेष्वप्यूह्यः

पूजाजागरादिविशिष्टव्रतोत्सवसाम्यात् महाराष्ट्रीयेषुतथाचाराच्च भगवत्प्रेमादिभाग्यशालिनस्तु

पर्वणिस्युरुतान्वहमितिन्यायेनप्रत्यहमेवोक्तविधिकथोत्सवंकुर्वन्तीतिभाति ।

ततोनव्यांब्राह्मणान् भोज्यदक्षिणादिदिभिःसन्तोष्योक्तपारणानिर्णीतेकालेभोजनंकुर्यात् अस्यैवजयन्तीव्रतस्यसंवत्सरसाध्यःप्रयोगः

श्रावणकृष्णाष्टमीमारभ्यप्रतिमांसकृष्णाष्टम्यामुक्तविधिनापूजादिरूपः पुराणान्तरेउक्तः अत्रोद्यापनविधिर्ग्रन्थान्तरेज्ञेयः

इतिजन्माष्टमीनिर्णयः ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP