संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
ज्येष्ठशुक्लदशम्यांगङ्गावतारः

धर्मसिंधु - ज्येष्ठशुक्लदशम्यांगङ्गावतारः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

इयंदशहरासंज्ञिका अत्रदशयोगा उक्ताः ज्येष्ठमासि १ सितेपक्षे २ दशम्यां ३ बुध ४ हस्तयोः ५ ।

व्यतीपाते ६ गरानन्दे ७।८ कन्याचन्द्रे ९ वृषेरवौ १० इति गंराख्यं करणं ।

बुधवारहस्तयोगे आनन्दाख्योयोगः अत्रदशमीव्यतीपातयोर्मुख्यत्वम्

तेनयस्मिन्दिनेकतिपययोगवतीदशमीपूर्वाह्णेलभ्यतेतत्रदशहराव्रतंकार्यम् दिनद्वयेपूर्वाह्णेतत्सत्वेयत्रबहूनांयोगः

साग्राह्या ज्येष्ठेमलमासे सति तत्रैवदशहराकार्यानतुशुद्धेदशहरासुनोत्कर्षश्चतुर्ष्वपियुगादिष्वितिहेमाद्रौऋष्यशृङ्गोक्तेः

अत्रकाशीवासिभिर्दशाश्वमेधतीर्थेस्नात्वागङ्गापूजनंकार्यम् इतरदेशस्थैःस्वसंनिहितनद्यां स्नात्वा गङ्गापूजनादिकं कार्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP