संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
सरस्वतीपूजनः

धर्मसिंधु - सरस्वतीपूजनः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आश्विनशुक्लपक्षेमूलनक्षत्रेपुस्तकेषुसरस्वतीमावाह्यपूजयेत् मूलेषुस्थापनंदेव्याःपूर्वाषाढासुपूजनम् ।

उत्तरासुबलिंदद्याच्छ्रवणेनविसर्जयेत् १ इतिवचनात् अत्रपूजयेत्प्रत्यहमितिरुद्रयामलवचनात्

मूलेआवाहनंतदङ्गभूतंपूजनंचकरिष्ये इत्यादिसंकल्प्यावाहनपूजनेकार्ये

पूर्वाषाढासुपूजनंकरिष्यइतिसंकल्प्यावाहनरहितपूजैवकेवलम् उत्तराषाढासुबलिदानंतदङ्गभूतांपूजांचकरिष्येइत्येवंतेकार्ये

श्रवणेविसर्जनंकर्तुतदङ्गभूतांपूजांकरिष्य इति संकल्प्यंसंपूज्यविसर्जयेदितिक्रमः

तत्रमूलस्यप्रथमेपादेसूर्यास्तात्प्राक्‌त्रिमुहूर्तव्यापिनि सरस्वत्यावाहनम् त्रिमुहूर्त

न्यूनत्वेरात्रौवाप्रथमपादसत्वेतस्यविशेषवचनंविनाग्राह्यत्वाभावाद्दितीयादिपादेपरदिनएवावाहनम्

एवंपूर्वाषाढादिनक्षत्रंपूजादौदिनव्याप्येवग्राह्यम् विसर्जनं तुश्रवणप्रथमपादेरात्रिभागगतेऽपिकार्यम्

विशेषवचनात् तच्चरात्रेःप्रथमप्रहरपर्यन्तमेवेतिभाति ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP