संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
सर्वशाखिसाधारणनिर्णयः

धर्मसिंधु - सर्वशाखिसाधारणनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसामवेदिनांभाद्रपदशुक्लेहस्तनक्षत्रंमुख्यकालःसंक्रान्त्यादिदोषेणतत्रासंभवेश्रावणमासेहस्तोग्राह्यइतिनिर्णयसिंधुः

अन्येतु भाद्रपदहस्तेदोषसंभवे श्रावणपौर्णिमास्यामुपाकर्म कृत्वाभाद्रपदस्यहस्तपर्यन्तंनपठनीयं ततःपरंपठनीयमित्याहुः

हस्तस्यखण्डत्वेदिनद्वयेऽपराह्णपूर्णव्याप्तौअपराह्णैकदेशस्पर्शेवापरदिनेएवोपाकर्म । पूर्वदिनएवापराह्णपूर्णव्याप्तौपूर्वत्रैव ॥

सर्वत्रसामगानामपराह्णस्यैवोपाकर्मकालत्वेनोक्तेः पूर्वदिनएवापराह्णैकदेशस्पर्शेदिनद्वयेप्यपराह्णस्यर्शाभावेवापरत्रैव

येषांसामवेदिनांप्रातः सङ्गवौकर्मकालत्वेनोक्तौतेषांपूर्वत्रापराह्णव्याप्तित्यक्त्वा परदिनेसङ्गवोर्ध्वंवर्तमानहस्तग्रहणम्

सिंहस्थेसूर्येउपाकर्मविधानंतुयदिश्रावणे हस्तः

पूर्णिमावासिंहस्थेसूर्येभवतितदातत्रोपाकर्मनकर्कस्थेइतिसामगानांश्रावणामासगतहस्तपर्वणोर्व्यवस्थापरम्

अन्यशाखिनांसिंहस्थरवेर्विधिर्निषेधोवानास्ति अथर्ववेदिनांतुश्रावण्यांभाद्रपदगतायांवापौर्णिमास्यामुपाकर्म

तिथिखण्डेऔदायिकसङ्गकालव्यापिनीतिथिर्ग्राह्येति सर्वशाखिनांश्रावणभाद्रपदमासगतस्वस्वगृह्योक्तकालेषु

ग्रहणसंक्रान्त्याशौचादिदोषसंभावनायांसर्वथाकर्मलोपप्राप्तौशाखान्तरोक्तकालानांग्राह्यत्वमावश्यकम्

तत्रापस्तम्बबौधायनसामगादीनां श्रावणभाद्रपदगतपञ्चमीपूर्णिमादेरप्यविशेषेण

ग्राह्यत्वप्राप्तौनर्मदोत्तरदेशेसिंहगतेसूर्येपञ्चमादेर्ग्रहणम्

नर्मदादक्षिनभागेकर्कटस्थेसूर्येश्रावणपञ्चम्यादेर्ग्रहणमितिव्यवस्थेतिकौस्तुभउक्तम् तेनऋग्वेदिनामपि

सर्वथाकर्मलोपप्रसक्तौपूर्णिमापिसिंहस्थकर्कटस्थादिव्यवस्थयाग्राह्येतिममभाति सर्वशाखिभिः

श्रावणमासेमुख्यकालेपर्जन्याभावेनव्रीह्याद्यौषधिप्रादुर्भावाभावे आशौचादौवाभाद्रपदश्रवणादौकार्यम्

औषधिप्रादुर्भावाभावेपि श्रावणमासे कार्यमितिकर्कादिमतम् सर्वशाखिनांगृह्योक्तमुख्यकालत्वेननैर्णीतेदिनेग्रहणस्य

संक्रान्तेर्वासत्वेसंक्रान्तिरहिताःपञ्चम्याद्‌योग्राह्याः

ग्रहणसंक्रान्तियोगश्चोपाकर्मसंबन्धिन्यहोरात्रेभविष्यन्मध्यरात्रात्पूर्वमतीतमध्यरात्रादूर्ध्वचेतियामाष्टके

विद्यमआनश्रवणनक्षत्रपूर्णिमादितिथ्यस्पृष्टोप्युपाकर्मदूषकः केचितूक्तयामाष्टकादन्यत्रापि

विद्यमानोग्राह्यश्रवणादिनक्शह्त्रपर्वादितिथिस्पर्शी चेत्सोपिदूषकइत्याहुः

नूतनोपनीतानांप्रथमोपाकर्मगुरुशुक्रास्तादौमलमासादौसिंहस्थेगुरौच न कार्यम् द्वीतीयाद्युपाकर्मतुअस्तादावपिकार्यम् मलमासेतु

द्वितीयाद्यपिनकार्यम् प्रथमोपाकर्मस्वस्तिवाचननादीश्राद्धादिकृत्वाकार्यम्

नूतनोपनीतानांश्रावणमासगतपञ्चमीहस्तश्रवणादिकालेषुगुरुशुक्रास्तादिप्रतिबन्धेनोपाकर्मारम्भाभावेभाद्रमासगतपञ्चमीश्रवणादयोग्राह्याः

मौञ्जीयज्ञोपवीतं चनवंदण्डंचधारयेत् । अजिनंकटिसूत्रंचनववंस्त्रंतथैवच १ इतिब्रह्मचारिणौ विशेषःप्रतिवर्षज्ञेयः

उपाकर्मोत्सर्जनेब्रह्मचारिसमावृतगृहस्थवानप्रस्थैःसर्वैःकर्तव्ये उत्सर्जनकालस्तुनेहप्रपञ्च्यते

उपाकर्मदिनेथवेतिवचनानुसारेणसर्वशिष्टानामिदानीमुपाकर्मदिनेएवोत्सर्जनकर्मानुष्ठानाचारेणैतन्निर्णयस्यानुपयोगात्

एतेउपाकर्मोत्सर्जनेयदिअन्यैःद्विजैःसहकरोतितदालौकिकाग्नौकुर्यात् यदैकःकरोतितदास्वगृह्याग्नौकुर्यात्

कात्यायनैस्तुऔपवसथ्याअग्नावेवहोतव्यंनलौकिकाग्नौ बह्‌वृचादिः

स्वयंचतुरवत्तीबहुभिश्चतुरवत्तिभिरुपाकर्मादिकंकुर्वन्नेकस्यापिजामदग्न्यादेःपञ्चावत्तिनःसत्वे तदनुरोधेनपञ्चावत्तमेवकुर्यात्

चतुर्रवत्तिनामपिपञ्चावत्तित्वस्यवैकल्पिकत्वोक्त्यातेषामपिकर्मवैगुण्याभावात् अकरणेदोषश्रवणेनप्रत्यब्दमेतेकर्तव्ये

क्वचित्पुस्तकेनिर्णयसिंन्धावेतदकरणेप्राजापत्यकृच्छ्‌मुपवासोवाप्रायश्चित्तंदृश्यतेनसर्वत्रउपाकर्मोत्सर्जनयोरुभयोरपिऋषिपूजनमुक्तम्

ऋष्यादितर्पणंतूत्सर्जनएव अत्रविवाहोत्तरंतिलतर्पणेनदोषः अत्रसंकल्पेअधीतानांछन्दसामाप्यायनद्वारा

श्रीपरमेश्वरप्रीत्यर्थमुपाकर्मदिनेअद्योत्सर्जनाख्यंकर्मकरिष्य इति उपाकर्मणितुअधीतानामध्येश्यमाणानां

चछन्दसांयातयामतानिरासेनाप्यायनद्वारा श्रीपरमेश्वरप्रीत्यर्थंइतिविशेषःअवशिष्टःसर्वोपिप्रयोगविशेषः

स्वस्वगृह्यानुसारेणज्ञेयः अत्रनदीनांरजोदोहोनब्रह्मादिदेवऋष्यादीनांजले सान्निध्यंतेनस्नानात्सर्वदोषक्षयः

ऋषिपूजनस्थानस्थितजलस्पर्शनपानाभ्यां सर्वकामावाप्तिः

इतिसर्वशाखिसाधारणनिर्णयः

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP