संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
ऋषिपञ्चमीव्रतम्

धर्मसिंधु - ऋषिपञ्चमीव्रतम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


भाद्रपदशुक्लपञ्चमीऋषिपञ्चमीसामध्याह्नव्यापिनीग्राह्या दिनद्वयेमध्याह्नव्याप्तौतदव्याप्तौचपूर्वैव

अत्रऋषीन्पूजयित्वाकर्षणरहितभूमिजन्यशाकाहारंकुर्यात् शुक्लेभाद्रपदेषष्ठयांस्नानंभास्करपूजनम् ।

प्राशनंपञ्चगव्यस्यअश्वमेधफलाधिकम् १ इयंसूर्यषष्ठीसप्तमीयुताग्राह्या अस्यामेवस्वामिकार्तिकेयदर्शनाद्ब्रह्महत्यादिपापनाशः

भाद्रपदशुक्लाष्टमीदूर्वाष्टमी सापूर्वाग्राह्या इयंज्येष्ठामूलर्क्षयुतात्याज्याअलाभेतद्युक्तापिग्राह्या

इदंदूर्वापूजनव्रतंकन्यार्केगस्त्योदयेचवर्ज्यम् इदंस्त्रीणांनित्यम् अत्रज्येष्ठादेवीपूजनव्रतंकेवलाष्टमीप्राधान्येनकेवलज्येष्ठानक्षत्रप्राधान्येन चोक्तम् ।

तत्रदाक्षिणात्याः केवलज्येष्ठानक्षत्रंएवकुर्वन्ति तच्चानुराधायामावाहनंज्येष्ठायांपूजनंमूलेविसर्जनमितित्रिदिनंज्ञेयम्

आवाहनविसर्जनदिनयोःपूजनदिनानुरोधेननिर्णयः तत्रयदापूर्वमध्याह्ममारभ्यप्रवृत्ता ज्येष्ठाद्वितीयदिनेमध्याह्नेमध्याह्नात्पूर्ववासमाप्यते

तदापूर्वदिनेएवपूजनम् यदा पूर्वदिनेमध्याह्नोत्तरंप्रवृत्तापरदिनेमध्याह्नेसमाप्तातदाष्टमीयोगवशेनपूर्वापरावा ग्राह्या उभयत्राष्टमीयोगेपूर्वैव

यदापूर्वत्रमध्याह्नमारभ्यमध्याह्नोत्तरंवाप्रवृत्तापरदिने मध्याह्नोत्तरमपराह्णंस्पृशति तदाष्टमीयोगाभावेपिपरैव ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP