संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथश्रवणद्वादशीव्रतम्

धर्मसिंधु - अथश्रवणद्वादशीव्रतम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्रवणद्वादशीव्रतम् तत्रयत्रदिनेमुहूर्तमात्रादिःस्वल्पोपिद्वादश्याः श्रवणयोगस्तत्रोपोषणम्

उत्तराषाढाविद्धश्रवणनिषेधवाक्यानितुनिर्मूलानि यदा पूरदिने एकादशीविद्धाद्वादशी

परदिनेऽनुवर्ततेदिनद्वयेपिचश्रवणयोगस्तदापूर्वदिने एकादशीद्वादशीश्रवणेतित्रितययोगरूपविष्णुशृङ्खलयोगात्पूर्वैवोपोष्या तत्रोदाहरणं

एकादशी १८ उत्तराषाढा ६ द्वादशी २० श्रवणं १२ यथावा एकादशी १८ उत्तराषाढा २५ द्वादशी २० श्रवणं १८ अत्रद्वितीयोदाहरणे

एकादश्याःश्रवणयोगाभावेपिश्रवणयुक्तद्वादशीस्पर्शमात्रेण विष्णुशृङ्खल्योगःद्विविधोप्ययंयोगोदिवैवग्राह्योनरात्रौइतिपुरुषार्थचिन्तामणी

रात्रावपिनिशीथोत्तरमपियोगोग्राह्यइतिनिर्णयसिंधुः रात्रेःप्रथमप्रहरपर्ततंतिथ्योः श्रवणयोगोग्राह्योनद्वितीयप्रहरादावित्यपरे

अत्रचरमपक्षएवयुक्तोभाति अत्रविष्णुशृङ्खलयोगेव्रतद्वयोपोषणंतन्त्रेणैकादश्यामेवकृत्वाद्वदश्यां

वक्ष्यमाणपारणानिर्णयानुसारेणपारणंकार्यम् यदोक्तविष्णुशृङ्खलयोगोनास्तितदायदिशुद्धाधिकाद्वादशी

दिनद्वयेपिश्रवणयोगः पुर्वदिनेचोदयेश्रवणाभावस्तदोत्तरैवग्राह्या यदोभयदिने सूर्योदयेद्वादश्यांश्रवणयोगस्तदापूर्वैव

विद्धाधिकायामपिपरत्रैवोदयेउदयोत्तरंवाश्रवणयोगेपरैवेतिनिर्विवादम् उभयत्रश्रवणयोगेउक्तविधविष्णुशृङ्खलयोगे

पूर्वाअन्यथापरैवेतिविज्ञेयम् एवंयत्रैकादशीश्रवणद्वादश्योर्नैरन्तर्येणोपवासप्राप्तिस्तत्रशक्तेनोपवासद्वयंकार्यम्

व्रतद्वयस्यापिनित्यत्वात् व्रतद्वयस्यैकदैवतत्वान्नपारणलोपदोषः

यस्तूपवासद्वयासमर्थएकादशीव्रतसंकल्पात्पूर्वंचनिजासामर्थ्यंनिश्चिनोतितेनैकादश्यांफलाद्याहारंकृत्वाद्वादशयांनिरशनंकार्यम् नचैकादशीव्रतलोपः

उपोष्यद्वादशीपुण्यांविष्णुऋक्षेणसंयुताम् । एकादश्युद्भवं पुण्यंनरःप्राप्नोत्यसंशयम् १ इतिनारदोक्तेः श्रवणेनयुताचेत्स्याद्द्वादशीसाहिवैष्णवैः ।

स्मार्तैश्चोपोषनीयास्यात्त्यजेदेकादशींतदा १ इतिमाधवोक्तेश्च अत्रैकादशीत्यागपदेनफलाहारोबोध्यतेनतुभोजनम्

यस्तूपवासद्वयशक्तिभ्रमेणकृतैकादशीव्रतसंकल्पः

संकल्पोत्तरंचद्वितीयोपवासासामर्थ्यमनुभवतितदातेनैकादश्यामुपोष्यद्वादश्यांविष्णुपूजनंकृत्वापारणंकार्यम्

अत्रव्रताङ्गपूजनंकृत्वोपवासासमर्थ पवासप्रतिनिधिरूपंविष्णुपूजनंकरिष्यइतिसंकल्प्य पुनःपूजनंकुर्यात्

अत्रद्वादश्यांश्रवणयोगाभावेएकादश्यांश्रवणयोगेतत्रैवश्रवणद्वादशीव्रतंकार्यम्

विद्धैकदश्यांश्रवणयोगेतुयेषांतत्रैकादशीव्रतप्राप्तिस्तेषांतन्रेणोपवासद्वयसिद्धिः

अन्येषांगृहीतश्रवणद्वादशीव्रतानामुपवासद्वयम् तत्राशक्तानांतुपूर्वेह्निफलाहारःपरेह्नि निरशनमितिभाति ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP