संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथसंक्षेपतःप्रयोगः

धर्मसिंधु - अथसंक्षेपतःप्रयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

कार्पाससूत्रस्यनवसूत्रीविधायअष्टोत्तरशतनवसूत्र्यादेवजानुपर्यन्तंचतुर्विशतिग्रन्थिकमुतमपवित्रं चतुः

पञ्चाशन्नवसूत्र्याऊरुलम्बिद्वादशग्रन्थिकंमध्यमं सप्तविशन्तिनवसूत्र्या अष्टग्रन्थिकंनाभिपर्यन्तंकनिष्ठंपवित्रंचकृत्वा

विंशत्युत्तरशतेनसप्तत्यावानवसूत्र्यापादलम्बिनीवनमालामष्टोत्तरशतचतुर्विंशत्यन्यतरग्रन्थिकां

कृत्वाद्वादशनवसूत्र्याद्वादशग्रन्थिकंगन्धपवित्रंसप्तविंशतिनवसूत्र्यागुरूपवित्रंत्रिसूत्र्याङ्गदेवतापवित्राणिकुर्यात्

शिवपवित्राणिलिङ्गविस्तारानुसारेणकुर्यात्

सर्वाणिपवित्राणिपञ्चगव्येनप्रोक्ष्यप्रणवेनप्रक्षाल्यमूलेनाष्टोत्तरशतमभिमन्त्र्य

ग्रन्थीन्कुङ्कुमेनरञ्जयित्वासर्वपवित्राणिवंशपात्रेसंस्थाप्यवस्त्रेणपिधायदेवपुरतोन्यस्य ।

क्रियालोपविधानार्थंयत्त्वयाविहितंप्रभो ॥ मयैतत्क्रियतेदेवतवतुष्ट्यैपवित्रकम् । नमेविघ्नोभवेद्देवकुरुनाथदयांमयि ।

सर्वथासर्वदाविष्णोममत्वंपरमागतिः २ इतिप्रार्थ्याधिवासनंकुर्यात् तत्रदेशकालौ

संकीर्त्यंसंवत्सरकृतपूजाफलावाप्त्यर्थंअमुकदेवताप्रीत्यर्थंअधिवासनविधिपूर्वकंपवित्रारोपणंकरिष्यइतिसंकल्प्यदेवपुरतः

सर्वतोभद्रेजलपूर्णकुम्भंसंस्थाप्य कुम्भेवंशपात्रंतत्रतानिपवित्राणिनिधायतेषु संवत्सरस्ययागस्यपवित्रीकरणायभोः ।

विष्णुलोकात्पवित्राद्य आगच्छेहनमोस्तुते १ इतिमन्त्रेणमूलमन्त्रेणचावाह्यत्रिसूत्र्यांब्रह्मविष्णुरुद्रावन्नवसूत्र्यां

ॐकारसोमवह्निब्रह्मनागेशसूर्यशिवविश्वेदेवानु

उत्तममध्यमकनिष्ठपवित्रेषुब्रह्मविष्णुरुद्रान्सत्वरजस्तमांस्यावाह्यवनमालायांप्रकृतिचावाह्यमूलमन्त्रेणश्रीपवित्राद्यावाहितदेवताभ्योनम

इत्यन्तेनगन्धाद्युपचारैःपूजयेत् ततः

पूर्वसंपादितंवितस्तिमात्रंद्वादशग्रंथिकंगन्धपवित्रमादायविष्णुतेजोद्भवंरम्यंसर्वपातकनाशनम् ।

सर्वकामप्रदंदेवतवाङ्गेधारयाम्यहम १ इतिमन्त्रेणमूलसंपुटितेनदेवपादयोःसमर्पयेत

देवस्यकरेबध्नीयादित्यन्ते ततो देवंपञ्चोपचारैःसंपूज्यप्रार्थयेत् आमन्त्रितोसिदेवेशपुराणपुरुषोत्तम ।

प्रातस्त्वा पूजयिष्यामिसान्निध्यंकुरुकेशव १ क्षीरोदधिमहानागशय्यावस्थितविग्रह ।

प्रातस्त्वांपूजयिष्यामिसन्निधौभवतेनमः २ ततःसाष्टांङ्गप्रणम्यपुष्पाञ्जलिंदद्यात् इत्यधिवासनम्

अत्रसर्वत्रमूलमन्त्रोगुरूपदिष्टस्तान्त्रिकोवैदिकोवादेवगायत्रीरूपोवाग्राह्यः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP