संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथव्रतप्रयोगः

धर्मसिंधु - अथव्रतप्रयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

त्रयोदश्यांकृतैकभक्तश्चतुर्दश्यांनध्याह्नेतिलामकलैः स्नात्वा उपोष्येहंनारसिंहभुक्तिमुक्तिफलप्रद ।

शरणंत्वांप्रपन्नोऽस्मि भक्तिमेनृहरे दिश १ इति मन्त्रेणव्रतंसंकल्प्याचार्यंवृत्वासायंकालेधान्यस्थोदकुम्भेपूर्णपात्रे

सौवर्णप्रतिमायांषोडशोपचारैर्देवंसंपूज्यार्घ्यंदद्यात् तत्रमन्त्रः । परित्राणायसाधूनांजातोविष्णोनृकेसरी ।

गृहाणार्घ्यंमयादत्तंसलक्ष्मीर्नृहरिः स्वयम् १ रात्रौ जागरणं कृत्वा प्रातर्देवसंपूज्यविसृज्याचार्यायधेनुयुतांप्रतिमांदद्यात्तत्रमन्त्रः ।

नृसिंहाच्युत गोविन्द लक्ष्मीकान्तजगत्पते । अनेनार्चाप्रदानेन सफलाःस्युर्मनोरथाः१ अथप्रार्थना ।

मद्वंशेयेनराजातायेजनिष्यन्तिचापरे । तांस्त्वमुद्धरदेवेश दुःसहाद्भवसागरात् १ पातकार्णवमग्नस्यव्याधिदुःखाम्बुवारिधेः ।

नीचैश्चपरिभूतस्यमहादुःखागतस्यमे २. करावलम्बनंदेहिशेषशायिनजगत्पते । श्रीनृसिंहरमाकान्तभक्तानांभयनाशन ३.

क्षीराम्बुधिनिवासस्त्वंचक्रपाणेजनार्दन । व्रतेनानेनदेवेशभुक्तिमुक्तिप्रदोभव ४ इतिततोब्राह्मणैःसहतिथ्यन्तेपारणं कार्यम्

यामत्रयोर्ध्वगामिन्यांचतुर्दश्यात् पूर्वाह्णेएवपारणम्

पौर्णमास्यांशृतान्नसहितोदकुम्भदानेगोदानफलम् स्वर्णतिलयुक्तद्वादशोदकुम्भदानेब्रह्महत्यापापान्मुक्तिः

अत्रयथाविधिकृष्णाजिनदानेपृथ्वीदानपलम्

स्वर्णमधुतिलसर्पिर्युतकृष्णाजिनदानेसर्वपापनाशःअत्रतिलस्नानंतिलहोमस्तिलपात्रदानंतिलतैलेनदीपदानंतिलैः

पितृतर्पणंमधुयुक्ततिलदानंचमहाफलम् । तत्रतिलदानमन्त्रः । तिलावैसोमदैवत्याःसुरैःसृष्टास्तुगोसवे ।

स्वर्गप्रदाःस्वतन्त्राश्चतेमांरक्षन्तुनित्यशः १ वैशाखशुक्लद्वादश्यांपौर्णमास्यांवावैशाखस्नानोद्यापनम् एकादश्यांपौर्णमास्यां वोपोष्यकलशे

सुवर्णप्रतिमायांसलक्ष्मीकंविष्णुंसंपूज्यरात्रौजागरणंकृत्वाप्रातर्ग्रहपूजनपूर्वकंपायसेन तिलाज्यैर्वायवैर्वाअष्टोत्तरशतंहोमः

प्रतिद्विष्णुरितिवाइदंविष्णुरितिवा मन्त्रेणकार्यः सांगतार्थगोदानंपादुकोपानहछत्रव्यजनोदकुम्भदानं शय्यादिदानंचकार्यम्

अशक्तेनकृसराद्यनैर्दशब्राह्मणभोजनंकार्यम् एतत्पौर्णमासीमारभ्यज्येष्ठशुक्लैकादशीपर्यन्तंजलस्थविष्णुपूजोत्सवःकार्यः

वैशाखामाबास्याभावुकाख्यदिनंतत्परंकरिसंज्ञकदिनंचशुभेषुवर्ज्यम् ।

इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेवैशाखमासकृत्योद्देशः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP