संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथशनिव्रतम्

धर्मसिंधु - अथशनिव्रतम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथशनिव्रतम् लोहमयंशनितैलकुम्भेलोहैमृन्मयेवानिक्षिष्यकृष्णवस्त्राभ्यांकम्बलेनवायुतंकृष्णैः

सुगन्धपुष्पैश्चकृसरान्नैस्तिलोदनैःपूजयित्वा कृष्णायद्विजायतदभावेऽन्यस्मैसधनिर्देयः तत्रशन्नोदेवीरितीमन्त्रः

शूद्रादेस्तु यःपुनर्नष्टराज्यायनलायपरितोषितः ।

स्वप्नेददौनिजंराज्यंसमेसौरिःप्रसीदतु १ नमोर्कपुत्रायशनैश्चरायनीहारवर्णाञ्जनमेचकाय ।

श्रुत्वारहस्यंभवकामदस्त्वंफलप्रदोमेभवसूर्यपुत्र २ इत्यादयः

एवंव्रतंप्रतिशनिवारंसंवत्सरंकार्यम् कोणस्थः पिङ्गलोबभ्रुःकृष्णोरौद्रोन्तकोयमः ।

सौरिःशनैश्चरोमन्दःपिप्पलादेनसंस्तुतः । इतिदशनामानिवानित्यंपठनीयानि

अथशनिस्तोत्रम् पिप्पलादउवाच नमस्ते कोणसंस्थायपिङ्गलायनमोस्तुते ।

नमस्तेबभ्रुरूपायकृष्णायचनमोस्तुते १ नमस्तेरौद्रदेहायनमस्तेचान्तकायच ।

नमस्तेयमसंज्ञायनमस्तेसौरयेविभो २ नमस्तेमन्दसंज्ञायशनैश्चरनमोस्तुते ।

प्रसादंकुरुदेवेशदीनस्यप्रणतस्यच ३ अनेनस्तोत्रेणप्रत्यहं प्रातःशनिस्तवनेनसार्धसप्तवार्षिकशनिपीडानाशः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP