संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १२७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १२७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२७ Translation - भाषांतर भरद्वाज उवाच ।इति वरमुनिनोक्तं ज्ञानसारं पुराणंसकलमनुनिशम्य श्रीरघूणां कुलाग्र्यः ।विमलमतिरपृच्छत्किंचिदन्यत्स्वयं वासमसुखपरिपूर्णः पूर्णबोधस्थितोऽसौ ॥१॥स खलु परमयोगी विश्ववन्द्यः सुरेशोजननमरणहीनः शुद्धबोधस्वभावः ।सकलगुणनिधानं संनिधानं रमाया-स्त्रिजगदुदयरक्षानुग्रहाणामधीशः ॥२॥श्रीवाल्मीकिरुवाच ।इति श्रुत्वा वसिष्ठस्य वाक्यं वेदान्तसंग्रहम् ।विदिताखिलविज्ञानो रामः कमललोचनः ॥३॥शक्तिपातवशोन्मेषप्रकटामलचिद्धनः ।मुहूर्तमासीदुद्बुद्धश्चैतन्यानन्दसागरः ॥४॥प्रश्नोत्तरविभागादिपरिपाटीविवर्जितः ।आनन्दामृतपूर्णासू रोमकण्टकिताङ्गकः ॥५॥महासामान्यरूपत्वाच्चिद्व्यापकतया स्थितः ।नित्यमष्टगुणैश्वर्यतृणप्रायमनोरथः ॥६॥न किंचिदूचे संपन्नः शिवे परिणतः पदे ।भरद्वाज उवाच ।अहो खलु ममाश्चर्यं रामः प्राप्तो महत्पदम् ॥७॥कथमेतादृशी प्राप्तिरस्माकं मुनिनायक ।मूर्खाः स्तब्धाश्च किंचिज्ज्ञा मादृशाः क्व च पापिनः ।क्व च ब्रह्मादिभिः प्रार्थ्या दुर्लभा रामसंस्थितिः ॥८॥अहो मुनीश्वरगुरो कथं विश्राम्यते मया ।दुष्पारस्य भवाम्भोधेस्तीर्यते तद्वदाशु मे ॥९॥श्रीवाल्मीकिरुवाच ।श्रीरामवृत्तान्तमशेषमादितोवसिष्ठवाक्यानुगतं निरूपितम् ।धिया विचार्यानु परामृश प्रभोमयापि तादृक्कथनीयमत्र ते ॥१०॥अविद्यायाः प्रपञ्चोऽयं नास्ति सत्यमिहाण्वपि ।विवेचयन्ति विबुधा विवदन्त्यविवेकिनः ॥११॥नास्ति भिन्नं चितः किंचित्किं प्रपञ्चेन रुध्यसे ।अभ्यासेन रहस्यानां वयस्य विशदो भव ॥१२॥प्रपञ्चविषया वृत्तिर्जाग्रन्निद्रेति कीर्तिता ।संप्रबुद्धस्तु यस्यान्तश्चित्प्रदीपो निरञ्जनः ॥१३॥शून्यमूलः प्रपञ्चोऽयं शून्यताशिखरः सखे ।सारशून्यतया मध्येऽप्यनास्था सन्मनीषिणाम् ॥१४॥अनादिवासनादोषादसन्नेवायमीक्ष्यते ।गन्धर्वनगराकारः संसारो बहुविभ्रमः ॥१५॥त्वमनभ्यस्य कल्याणीं चैतन्यामृतकन्दलीम् ।संमुह्यसि किमध्यास्य वासनाविषवीरुधः ॥१६॥जाग्रदेतन्न पतितं ज्ञानालम्बग्रहादधः ।न सन्त्युपरि सर्वेषां ये निरालम्बसंविदः ॥१७॥तावद्रूढा सुधाकाररसा संविन्महानदी ।न यावदात्मरूपेण निपुणैरवगाह्यते ॥१८॥प्राङ्नास्ति चरमे नास्ति वस्तु सर्वमिदं सखे ।विद्धि मध्येऽपि तन्नास्ति स्वप्नवृत्तमिदं जगत् ॥१९॥अविद्यायोनयो भेदाः सर्वेऽमी बुद्बुदा इव ।क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ॥२०॥सुशीतलोदकनदीं विदित्वाथ विगाह्य ताम् ।बहिर्भ्रान्तिनिदाघास्ते निर्यान्तु कलितासुखम् ॥२१॥एकश्चाज्ञानजलधिर्जगदाप्लाव्य तिष्ठति ।ज्येष्ठोऽयमहमित्यूर्मिरविद्यावातसंभवः ॥२२॥चित्तस्खलनभेदाली रागाद्याश्च प्रकल्पिताः ।ममतोत्कलितावर्तः स्वतः स्वैरं प्रवर्तते ॥२३॥रागद्वेषावतिग्राहौ गृहीतसमनन्तरः ।ततश्चानर्थपातालप्रवेशः केन वार्यते ॥२४॥प्रशान्तामृतकल्लोले केवलामृतवारिधौ ।मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ॥२५॥कस्तिष्ठति गतः को वा कस्य केन किमागतम् ।किं नु मज्जसि मायायां पत मा त्वमतन्द्रितः ॥२६॥तत्त्वमेकं यदात्मेति जगदेतत्प्रचक्षते ।ततोऽन्यः कस्तवातीतो यस्तात विषयः शुचाम् ॥२७॥बालान्प्रति विवर्तोऽयं ब्रह्मणः सकलं जगत् ।अविवर्तितमानन्दमास्थिताः कृतिनः सदा ॥२८॥अविविक्तो जनः शोचत्यकस्माच्च प्रहृष्यति ।तत्त्ववित्तु हसन्नास्ते तस्य मोहो विडम्बनम् ॥२९॥तच्च सूक्ष्ममिदं तत्त्वं तिरोहितमविद्यया ।यथा स्थलेषु लोकानां जलेष्वात्मसु संशयः ॥३०॥पृथिव्यादिमहाभूतपरमाणुमयं जगत् ।स्थितं यदा तदापीह को गतो योऽनुशोच्यते ॥३१॥असतः संभवो नास्ति नास्त्वभावः सतः सखे ।आविर्भावतिरोभावाः संस्थानानाममी परम् ॥३२॥किंत्वनेकपुरोत्साहाद्विषतामुपगच्छति ।भज संभरिताभोगं परमेशं जगद्गुरुम् ॥३३॥दुरितानि समस्तानि पच्यन्तेऽद्यापि न ध्रुवम् ।कृतमेवास्य देवस्य पाशा विश्रवतां गताः ॥३४॥साकारं भज तावत्त्वं यावत्सत्त्वं प्रसीदति ।निराकारे परे तत्त्वे ततः स्थितिरकृत्रिमा ॥३५॥इमामुद्दामतमसो जित्वा सत्त्वबलाद्ध्रुवम् ।यमस्यानुसराध्वानं विश्वस्तेनान्तरात्मना ॥३६॥समाधाय क्षणं पश्य प्रत्यगात्मानमात्मना ।इयं विभातु सा व्यक्तं प्राग्बुद्धिरजनी तव ॥३७॥कृतं पुरुषकारेण केवलेन च कर्मणा ।महेशानुग्रहादेव प्राप्तव्यं प्राप्यते नरैः ॥३८॥नाभिजात्यं न चारित्र्यं न नयो न च विक्रमः ।बलवन्ति पुराणानि सखे कर्माणि केवलम् ॥३९॥अप्रतर्क्यात्प्रतीकारात्किमेवमवसीदसि ।न लुम्पति ललाटस्थामीश्वरोऽप्यक्षरावलिम् ॥४०॥क्व चिद्वक्ता क्व वैदग्ध्यं क्व चेयं मोहवल्लरी ।अचिन्तनीया नियतिर्यदियं द्वन्द्वमाहिता ॥४१॥हे भरद्वाज मोहं त्वं विवेकेन जहि स्फुटम् ।असामान्यमिदानीं त्वं ज्ञानं प्राप्स्यस्यसंशयम् ॥४२॥दूरमुत्सहते राजा महासत्त्वो महापदि ।अल्पसत्त्वो जनः शोचत्यल्पेऽपि हि परिक्षते ॥४३॥बोधः पुण्यपराधीनः प्रथते बहुजन्मभिः ।अनुमीयेत धीरेषु जीवन्मुक्तेषु कार्यतः ॥४४॥द्विषद्भूतेन येनैव कर्मणा बन्ध ईदृशः ।सुहृद्भूतेन तेनैव मोक्षमाप्स्यसि पुत्रक ॥४५॥सतां सत्कर्मसंवेगः पुराणं प्रणुदन्नयम् ।वर्षौघ इव भूतानां दवानलमसेचयत् ॥४६॥सखे संन्यस्य कर्माणि ब्रह्मणः प्रणयी भव ।नेष्यसे यदि संसारचक्रावर्तभ्रमः शमम् ॥४७॥तावदेतद्विकल्पोत्थमिदं यावद्बहिर्ग्रहः ।प्रतिकूलोऽब्धिरुल्लोले केवलं निश्चले जले ॥४८॥अयं किमन्धकरणस्त्वया शोकोऽवलम्ब्यते ।निर्वाहयतु सैव त्वां प्रज्ञायष्टिरभङ्गुरा ॥४९॥न जातु ते विगण्यन्ते गणनासु गरीयसाम् ।ये तरङ्गैस्तृणानीव ह्रियन्ते हर्षशोकयोः ॥५०॥समारूढं दशादोलामहोरात्रमिदं जगत् ।क्रीड्यते षड्विधैः प्रेङ्खैः सखे किमिति खिद्यते ॥५१॥सूते संहरति क्षिप्रं पुनः सृजति हन्ति च ।जगन्ति बहुपर्यायैः काल एव कुतूहली ॥५२॥न विशेषग्रहः कश्चिन्न च कश्चिन्न कश्चन ।जन्तुष्वभ्यवहार्येषु प्राक्रम्य कालभोगिनः ॥५३॥का कथा मर्त्यपिण्डानां निमेषान्तरवासिनाम् ।अपि देवनिकाया ये तेऽपि दुष्कालगोचराः ॥५४॥स्वयं नृत्यसि किं प्रीतो विपत्तौ विकलेन्द्रियः ।क्षणं निश्चलमासीनः पश्य संसारनाटकम् ॥५५॥अस्यानेकतरङ्गस्य जगतः क्षणभङ्गिनः ।न विषीदति मनस्वी भरद्वाज मनागपि ॥५६॥त्यज शोकममङ्गल्यं मङ्गलानि विचिन्तय ।चिदानन्दघनं स्वच्छमात्मानं च विभावय ॥५७॥देवद्विजगुरुश्रद्धाभरबन्धुरचेतसाम् ।सदागमप्रमाणानां महेशानुग्रहो भवेत् ॥५८॥भरद्वाज उवाच ।ज्ञातं तव प्रसादेन सर्वमेतदशेषतः ।न वैराग्यात्परो बन्धुर्न संसारात्परो रिपुः ॥५९॥इदानीं श्रोतुमिच्छामि वसिष्ठेनोपपादितम् ।ज्ञानसारमशेषेण ग्रन्थेनोक्तं पदात्मना ॥६०॥श्रीवाल्मीकिरुवाच ।भरद्वाज श्रृणुष्वेदं महाज्ञानं विमुक्तिदम् ।यस्य श्रवणमात्रेण भवाब्धौ न निमज्जसि ॥६१॥संहृतिस्थितिसंभूतिभेदैर्योऽनेकधा स्थितः ।एकोऽपि सन्नमस्तस्मै सच्चिदानन्दमूर्तये ॥६२॥कृते प्रपञ्चविलये यथा तत्त्वं प्रकाशते ।तवोपायं प्रवक्ष्यामि संक्षेपाच्छ्रुतिशासनात् ॥६३॥पूर्वापरविचारार्हा कथं नष्टा तव स्मृतिः ।तयैव ज्ञायते सर्वं करामलकवत्स्वयम् ॥६४॥स्वयं विचार्यं स्वयमेव चेतसातत्प्राप्यते येन न शोचते पुनः ।सत्संगसच्छास्त्रविवेकतः पुन-र्वैराग्ययुक्तेन विभाव्यमेतत् ॥६५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० पू० भरद्वाजानुशासनं नाम सप्तविंशत्यधिकशततमः सर्गः ॥१२७॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP