संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १० निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १० Translation - भाषांतर श्रीवसिष्ठ उवाच ।तस्मान्नकिंचिदेवेदं जगत्स्थावरजंगमम् ।नकिंचिद्भूततां प्राप्तं यत्किंचिदिति विद्धि हे ॥१॥यत्र काचिन्न कलना भावाभावमयात्मिका ।तदिदं राम जीवादि सर्वं व्यर्थं किमीहसे ॥२॥संबन्धोऽयमसावन्तर्ह्रदि यो व्यपदिश्यते ।न तं लभामहे सर्पं रज्जुसर्पभ्रमादिव ॥३॥अपरिज्ञात आत्मैव भ्रमतां समुपागतः ।ज्ञात आत्मत्वमायाति सीमान्तः सर्वसंविदाम् ॥४॥अविद्येत्युच्यते लोके चिच्चेत्यमलमाश्रिता ।चेत्यातीतात्मतामेति सर्वोपाधिविवर्जिता ॥५॥चित्तमात्रं हि पुरुषस्तस्मिन्नष्टे च नश्यति ।स्थिते तिष्ठति चात्मायं घटे सति घटाम्बरम् ॥६॥गच्छन्पश्यति गच्छन्तं स्थितं तिष्ठञ्छिशुर्यथा ।भ्रान्तमेवमिदं चेतः पश्यत्यात्मानमाकुलम् ॥७॥कोशकारवदात्मानं वासनातनुतन्तुभिः ।वेष्टयच्चैव चेतोऽन्तर्बालत्वान्नावबुध्यते ॥८॥श्रीराम उवाच ।मौर्ख्यमत्यन्तघनतामागतं समवस्थितम् ।स्थावरादि तनु प्राप्तं कीदृशं भवति प्रभो ॥९॥श्रीवसिष्ठ उवाच ।अमनस्त्वमसंप्राप्तं मनस्त्वादपि च च्युतम् ।तटस्थं रूपमाश्रित्य स्थितैषा स्थावरेषु चित् ॥१०॥तत्र दूरस्थिता मुक्तिर्मन्ये वेद्यविदां वर ।सुप्तपुर्यष्टका यत्र चित्स्थिता दुःखदायिनी ।मूकान्धजडवत्तत्र सत्तामात्रेण तिष्ठति ॥११॥श्रीराम उवाच ।सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित् ।तत्रादूरस्थिता मुक्तिर्मन्ये वेद्यविदां वर ॥१२॥श्रीवसिष्ठ उवाच ।बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात् ।सत्तासामान्यबोधो यः स मोक्षश्चेदनन्तकः ॥१३॥परिज्ञाय परित्यागो वासनानां य उत्तमः ।सत्तासामान्यरूपत्वं तत्कैवल्यपदं विदुः ॥१४॥विचार्यार्यैः सहालोक्य शास्त्राण्यध्यात्मभावनात् ।सत्तासामान्यनिष्ठत्वं यत्तद्ब्रह्म परं विदुः ॥१५॥अन्तः सुप्ता स्थिता मन्दा यत्र बीज इवाङ्कुरः ।वासना तत्सुषुप्तत्वं विद्धि जन्मप्रदं पुनः ॥१६॥अन्तः संलीनमननं परितः सुप्तवासनम् ।सुषुप्तं जडधर्मापि जन्म दुःखशतप्रदम् ॥१७॥स्थावरादय एते हि समस्ता जडधर्मिणः ।सुषुप्तपदमारूढा जन्मयोग्याः पुनःपुनः ॥१८॥यथा बीजेषु पुष्पादि मृदो राशौ घटो यथा ।तथान्तः संस्थिता साधो स्थावरेषु स्ववासना ॥१९॥यत्रास्ति वासनाबीजं तत्सुषुप्तं न सिद्धये ।निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् ॥२०॥वासनायास्तथा वह्नेर्ऋणव्याधिद्विषामपि ।स्नेहवैरविषाणां यः शेषः स्वल्पोऽपि बाधते ॥२१॥निर्दग्धवासनाबीजसत्तासामान्यरूपवान् ।सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥२२॥चिच्छक्तिर्वासनाबीजरूपिणी स्वापधर्मिणी ।स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु ॥२३॥बीजेषूल्लासरूपेण जाड्येन जडरूपिषु ।द्रव्येषु द्रव्यभावेन काठिन्येनेतरेषु च ॥२४॥भस्मन्यथानित्यरूपा पांसुष्वप्यणुरूपिणी ।असितेष्वसितस्थित्या सितधारतयासिषु ॥२५॥आत्मा शक्तिः पदार्थेषु तथा घटपटादिषु ।सर्वत्र सत्तासामान्यरूपमाश्रित्य तिष्ठति ॥२६॥इतीयमखिला दृश्यदशामापूर्य संस्थिता ।यथा घटापटा प्रावृडम्बरालम्बिनी तथा ॥२७॥स्वरूपमस्याश्चैवैतत्कथितं प्रविचारितम् ।असर्वं सर्वतो व्यापि सदिवासन्मयात्मकम् ॥२८॥आत्मदृष्टिरदृष्टैषा संसारभ्रमदायिनी ।दृष्टा सती समग्राणां दुःखानां क्षयकारिणी ॥२९॥अस्यास्त्वदर्शनं यत्तदविद्येत्युच्यते बुधैः ।अविद्या हि जगद्धेतुस्ततः सर्वं प्रवर्तते ॥३०॥अविद्या रूपरहिता यावदेवावलोक्यते ।तावदेव गलत्याशु तुहिनाणुर्यथातपे ॥३१॥यथा नरो गलन्निद्रो यावत्कलनया मनाक् ।विमृशत्याशयं तावन्निद्रा तस्य विलीयते ॥३२॥यथा कीदृगवस्त्वेतदिति यावद्विकल्प्यते ।अविद्या क्षीयते तावदालोकेनान्धता यथा ॥३३॥दीपहस्तो यथाभ्येति तमोरूपदिदृक्षया ।तथा विलीयते सर्वं तमस्तापैर्घृतं यथा ॥३४॥नच संलक्ष्यते दीपे तमसो रूपनिश्चयः ।उदेति केवलं ध्वान्तध्वंसो विमलमूर्तिमान् ॥३५॥एवमालोक्यमानैषा क्वापि याति पलायते ।असद्रूपा ह्यवस्तुत्वाद्दृश्यते ह्यविचारणात् ॥३६॥आलोक आगते यादृक्तमस्तद्दृश्यते तथा ।याऽवस्तुत्वे त्वविद्यायास्त्ववस्तुत्वं प्रतीयते ॥३७॥यावन्नालोक्यते तावन्न किंचिदपि दृश्यते ।आलोकिते यथाऽविद्या तत्तथा प्रतिपद्यते ॥३८॥रक्तमांसास्थियन्त्रेऽस्मिन्कः स्यामहमिति स्वयम् ।यावद्विचार्यते तावत्सर्वमाशु विलीयते ॥३९॥आद्यन्तयोरसद्रूपे नूनं परिहृते हृदा ।सर्वस्मिन्नेव यः शेषस्तमविद्याक्षयं विदुः ॥४०॥तन्न किंचिच्च किंचिद्वा तत्सद्ब्रह्मैव शाश्वतम् ।तद्वस्तु तदुपादेयं यदविद्या निवर्तते ॥४१॥रूपं स्वनाम्न एवास्या ज्ञायते निःस्वभावकम् ।नहि जिह्वागतस्वाद्यस्वादोऽन्यस्मात्प्रतीयते ॥४२॥नाविद्या क्वचिदप्यस्ति ब्रह्मैवेदमखण्डितम् ।सदसत्कलनास्फारमशेषं येन मण्डितम् ॥४३॥एतावदेवाविद्याया नेदं ब्रह्मेति निश्चयः ।एतदेव क्षयो यस्या ब्रह्मेदमिति निश्चयः ॥४४॥घटपटशकटावभासजालंन विभुरितीत्युदितेह सा त्वविद्या ।घटपटशकटावभासजालंविभुरिति चेद्गलितैव सा त्वविद्या ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० अविद्याचिकित्सा नाम दशमः सर्गः ॥१०॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP