संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ७७

निर्वाणप्रकरणं - सर्गः ७७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
एतामवष्टभ्य दृशं भगीरथधिया धृताम् ।
समः स्वस्थो यथाप्राप्तं कार्यमाहर शान्तधीः ॥१॥
इदं पूर्वं परित्यज्य क्रोडीकृत्य मनःखगम् ।
शान्तमात्मनि तिष्ठ त्वं शिखिध्वज इवाचलः ॥२॥
श्रीराम उवाच ।
कोऽसौ शिखिध्वजो नाम कथं वा लब्धवान्पदम् ।
एतन्मे कथय ब्रह्मन्भूयो बोधविवृद्धये ॥३॥
श्रीवसिष्ठ उवाच ।
द्वापरे भवतां पूर्वमिदानीं च भविष्यतः ।
तेनैव संनिवेशेन दंपती स्निग्धतां गतौ ॥४॥
श्रीराम उवाच ।
यत्पूर्वमासीद्भगवंस्तदिदानीं तथैव हि ।
भविष्यति किमर्थं वै वद मे वदतां वर ॥५॥
श्रीवसिष्ठ उवाच ।
जगन्निर्माणनियतेरस्या ब्रह्मादिसंविदः ।
ईदृश्यवस्थितिर्नित्यमनिवार्यस्वभावजा ॥६॥
यदन्यद्बहुशो भूत्वा पुनर्भवति भूरिशः ।
अभूत्वैव भवत्यन्यः पुनश्च न भवत्यलम् ॥७॥
अन्यत्प्राक्संनिवेशाढ्यं सादृश्येन विवल्गति ।
सदृशा विषमाश्चैव यथा सरसि वीचयः ॥८॥
ता एवान्याश्च दृश्यन्ते व्यवस्थाः संसृतौ तथा ।
तस्माद्राजेव भूयोऽपि वक्ष्यमाणकथेश्वरः ॥९॥
भविष्यति महातेजास्तद्वृत्तान्तमिमं श्रृणु ।
द्वापरे पूर्वमभवदतीते सप्तमे मनौ ॥१०॥
चतुर्युगे चतुर्थे तु सर्गेऽस्मिन्कुरुणां कुले ।
जम्बूद्वीपे प्रसिद्धस्य विन्ध्यस्यादूरसंस्थिते ॥११॥
मालवानां पुरे श्रीमाञ्छिखिध्वज इतीश्वरः ।
धैर्यौदार्यदशायुक्तः क्षमाशमदमान्वितः ॥१२॥
शूरः शुभसमाचारो मौनी गुणगणाकरः ।
आहर्ता सर्वयज्ञानां जेता सर्वधनुष्मताम् ॥१३॥
कर्ता सकलकार्याणां भर्ता पूर्ववपुर्भुवः ।
पेशलस्निग्धमधुरो विदग्धः प्रीतिसागरः ॥१४॥
सुन्दरः शान्तसुभगः प्रतापी धर्मवत्सलः ।
वदिता विनयार्थानां दाता सकलसंपदाम् ॥१५॥
भोक्ता सत्सङ्गसहितः सुश्रोता सकलश्रुतेः ।
वेदासौ माननाशून्यः स्त्रैणं तृणवदस्पृशन् ॥१६॥
पितरि स्वर्गमापन्ने बाल एवोत्तमौजसा ।
कृत्वा षोडशवर्षाणि स्वयं दिग्विजयं वशी ॥१७॥
नूनं साम्राज्यसंपत्त्या भूमण्डलमयोजयत् ।
अतिष्ठद्विगताशङ्कं पालयन्धर्मतः प्रजाः ॥१८॥
स धीमान्मन्त्रिभिः सार्धं यशसा शुक्लयन्दिशः ।
अथ गच्छत्सु वर्षेषु वसन्ते प्रोल्लसत्यलम् ॥१९॥
पुष्पेषु जृम्भमाणेषु स्फुरत्सु शशिरश्मिषु ।
मञ्जरीजालदोलासु विटपान्तःपुरान्तरे ॥२०॥
रजःकर्पूरधवले वलद्दलकपाटके ।
आमोदविलसत्पुष्पगुलुच्छकवितानके ॥२१॥
गायत्सु गहनेषूच्चैर्मिथुनेष्वलिनां मिथः ।
आवाति मधुरे वायौ शशिशीकरशीतले ॥२२॥
कदलीकन्दलीकच्छतलपल्लवलासिनि ।
कान्तां प्रति बभूवास्य वसच्चेतः समुऽत्सुकम् ॥२३॥
क्षीबं कुसुमसंभारसौगन्ध्यमधुरासवैः ।
मनो नान्यास्पदं चक्रे सवसन्तमिवोदितम् ॥२४॥
उद्यानवनदोलासु लीलाकमलिनीषु च ।
कदा प्रणयिनीं मुग्धां हेमाब्जमुकुलस्तनीम् ॥२५॥
करिष्ये कामिनीमङ्के पर्यङ्के कुङ्कुमाङ्किताम् ।
कदा कमलवल्लीनां दोलास्वलिरिवालिनीम् ॥२६॥
आलोला तां निवेक्ष्यामि बालां भुजलतानुगाम् ।
मृणालहारकुन्देन्दुवृन्दवल्लयभिलाषिणी ॥२७॥
मत्कृते मदनातप्ता कदा स्यादिन्दुसुन्दरी ।
इति चिन्तापरो भूत्वा कुसुमावचयोन्मुखः ॥२८॥
विजहार वनान्तेषु कुसुमोपवनेषु च ।
वनोपवनलेखासु लीलाकमलिनीषु च ॥२९॥
वल्लीवलयगेहेषु विविधोद्यानभूमिषु ।
वनोपवनविन्यासवर्णनावलितासु च ॥३०॥
श्रृङ्गाररसगर्भासु कथास्वरमतोन्मनाः ।
हृदि हारलसत्कायविलोलालकवल्लरीः ॥३१॥
कुमारीः पूजयामास सुवर्णकलशस्तनीः ।
एतन्मन्ये विदुर्भव्या मन्त्रिणो नृपनिश्चयम् ॥३२॥
इङ्गिताकारवेदित्वमेव मन्त्रिपदं परम् ।
अथ तस्य विवाहाय मन्त्रिवर्गो विचारयन् ॥३३॥
सुराष्ट्राधिपतेः कन्यां ययाचे यौवतान्विताम् ।
नवयौवनसंपन्नां भार्यात्वे विधिनोत्तमाम् ॥३४॥
उपयेमे स तामात्मसदृशीं प्रतिमामिव ।
चूडालेति भुवि ख्याता नाम्ना नृपतिसुन्दरी ॥३५॥
सा तं भर्तारमासाद्य रेजे फुल्लेव पद्मिनी ।
नीलनीरजनेत्रां तां चूडालां स शिखिध्वजः ॥३६॥
स्नेहाद्विकासयामास सूर्यो देवो यथाब्जिनीम् ।
अवर्धत तयोः प्रीतिरन्योन्यार्पितचेतसोः ॥३७॥
हावभावविलासाढ्यैरङ्गैर्नवलतेव सा ।
सुमन्त्र्यर्पितसर्वार्थः स सुखी सुस्थितप्रजाः ॥३८॥
राजहंस इवाब्जिन्या रेमे दयितया तया ।
अन्तःपुरेषु दोलासु लीलाकमलिनीषु च ॥३९॥
उद्यानेषु विहारेषु लतापुष्पग्रहेषु च ।
कदम्बवनलेखासु चन्दनागुरुवीथिषु ॥४०॥
मन्दारदामलोलासु कदलीकन्दलीषु च ।
पुरान्तेषु वनान्तेषु दिगन्तेषु सरस्सु च ॥४१॥
जंगलेषु जनान्तेषु जम्बूजम्बीरजातिषु ।
बभूवाह्लादकं सर्वं तयोरन्योन्यचेष्टितम् ॥४२॥
सद्वर्षयोर्धुरवरैर्द्युभूम्योरिव कान्तयोः ।
नित्यमेव वियुक्तत्वात्प्रियत्वाच्चेष्टितस्य च ॥४३॥
मिथः कलाकलापस्य कोविदौ तौ बभूवतुः ।
स्वरूपमेकमेवैतौ दधतुर्मित्रतां गतौ ॥४४॥
अन्योन्यहृदयस्थत्वादिव संक्रान्तमक्षतम् ।
सर्वशास्त्रार्थवैदग्ध्यं चित्राद्यपि मुखात्प्रभोः ॥४५॥
बालः कालादिवागृह्य साऽसीत्सर्वार्थपण्डिता ।
नृत्यवाद्यादि यावच्च चूडालावदनादसौ ॥४६॥
अशिक्षत बभूवाथ कलानामतिकोविदः ।
अमावास्यामिवेन्द्वर्कावन्योन्यविलसत्कलौ ॥४७॥
मिथो हृदयसंस्थौ तौ द्वावप्यैक्यमुपागतौ ।
तौ संस्थितावेकरसावन्योन्यं दयितावुभौ ॥४८॥
पुष्पामोदाविवाभिन्नौ भूतलस्थौ शिवाविव ।
वैदग्ध्यसुन्दरमती सर्वशास्त्रार्थपण्डितौ ॥४९॥
कार्यार्थं च भुवं प्राप्तौ कमलाकमलाधवौ ।
स्नेहात्प्रसन्नमधुरौ समविज्ञातवादिनौ ॥५०॥
अनुवृत्तिपरावास्तां लोकवृत्तान्ततद्विदौ ।
कलाकलापसंपन्नौ लसद्रसरसायनौ ।
शीतलस्निग्धमुग्धाङ्गौ शशाङ्कौ द्वाविवोदितौ ॥५१॥
रेजे लसच्च रतिभोगविलासकान्त-
मन्तःपुरेषु मिथुनं तदनुत्तमश्रि ।
ब्रह्माण्डखण्डकुहरेष्विव राजहंस-
युग्मं विकासिमदमन्मथमन्दचारि ॥५२॥

इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० निर्वाण० पू० चूडालोपाख्याने शिखिध्वजविलासकथनं नाम सप्तसप्ततितमः सर्गः ॥७७॥

N/A

References : N/A
Last Updated : September 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP