संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ९२ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ९२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९२ Translation - भाषांतर चूडालोवाच ।यदुक्तं नयशालिन्या तया विदितवेद्यया ।तदा चूडालया ज्ञानं तत्कस्मान्नोररीकृतम् ॥१॥सा हि तत्त्वविदां मुख्या यद्यद्वक्ति करोति च ।तत्सर्वं सत्यमेवाङ्ग तदनुष्ठेयमादरात् ॥२॥अथ चेद्वचनं तस्यास्त्वया नानुष्ठितं नृप ।तत्सर्वसंपरित्यागः कस्मान्न निपुणीकृतः ॥३॥शिखिध्वज उवाच ।राज्यं त्यक्तं गृहं त्यक्तं देशस्त्यक्तस्तथाविधः ।दारास्त्यक्तास्तथाप्यङ्ग सर्वत्यागो न किं कृतः ॥४॥चूडालोवाच ।धनं दारा गृहं राज्यं भूमिश्छत्रं च बान्धवाः ।इति सर्वं न ते राजन्सर्वत्यागो हि कस्तव ॥५॥तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।तं परित्यज्य निःशेषमायास्यसि विशोकताम् ॥६॥शिखिध्वज उवाच ।राज्यं चेन्मम नो सर्वं तत्सर्वं वनमेव मे ।शैलवृक्षादिगुल्माढ्यं तदप्येतत्त्यजाम्यहम् ॥७॥श्रीवसिष्ठ उवाच ।इति राम वदन्नेव कुम्भवाक्यप्रणोदितः ।निमेषान्तरमात्रेण वशी वीरः शिखिध्वजः ॥८॥प्रममार्ज वनास्थां तां कृतः सुदृढनिश्चयः ।प्रावृडोघस्तटगतां रजोलेखामिवात्मना ॥९॥शिखिध्वज उवाच ।सवृक्षाद्रिवनश्वभ्राद्विपिनादपि वासना ।परित्यक्ता मया नूनं परित्यागः स्थितो मम ॥१०॥कुम्भ उवाच ।अद्रेस्तटं वनं श्वभ्रं सलिलं पादपस्थलम् ।इत्यादि तव नो सर्वं सर्वत्यागः कथं तव ॥११॥तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।तं परित्यज्य निःशेषं परामायास्यशोकताम् ॥१२॥शिखिध्वज उवाच ।एतच्चेन्मम नो सर्वं तत्सर्वं स्वाश्रमो मम ।वापीस्थलोटजयुतस्तमेवाशु त्यजाम्यहम् ॥१३॥श्रीवसिष्ठ उवाच ।इति राम वदन्नेव कुम्भवाक्यप्रबोधितः ।निमेषध्यानमात्रेण वशी वीरः शिखिध्वजः ॥१४॥प्रममार्जाश्रमास्थां तां संविदा शुद्धया हृदि ।स्फुरन्तीं स्फुरणेनैव रजोलेखामिवानिलः ॥१५॥शिखिध्वज उवाच ।स वृक्षोटजवीरुत्काद्वासना स्वाश्रमादपि ।परित्यक्ता मया नूनं सर्वत्यागः स्थितो मम ॥१६॥कुम्भ उवाच ।वृक्षो वापी स्थलं गुल्ममुटजं व्रततीवृतिः ।इति किंचिन्न ते सर्वं सर्वत्यागः कुतस्तव ॥१७॥तवास्त्यन्योऽपरित्यक्तः सर्वस्माद्भाग उत्तमः ।तं परित्यज्य निःशेषं परामायास्यशोकताम् ॥१८॥शिखिध्वज उवाच ।एतच्चेन्मम नो सर्वं तत्सर्वं भाजनादि मे ।चर्मकुड्यकुटीरादि तत्तावत्संत्यजाम्यहम् ॥१९॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा स समुत्तस्थावविक्षुब्धमतिः शमी ।विष्टरादवदातात्मा श्रृङ्गादिव शरद्धनः ॥२०॥कुम्भस्त्वालोकयन्नेव तत्क्रियाः सस्मितः स्वयम् ।आसने लोककार्येषु स्वस्यन्दन इवांशुमान् ॥२१॥यत्करोति करोत्वेतदस्यैतत्पावनं परम् ।इति तूष्णीं स्थितः कुम्भः शिखिध्वजमवैक्षत ॥२२॥शिखिध्वजस्तु तत्सर्वं भाण्डोपस्करमाश्रमात् ।एकत्रैवानयामास भुवो वार्यब्धिभूरिव ॥२३॥तत्संस्थाप्येन्धनैः शुष्कैर्ज्वालयामास पावकम् ।करैः संचारवानर्कः सूर्यकान्तपदं यथा ॥२४॥भाण्डोपस्करजालं तदग्नौ त्यक्त्वा विवेश सः ।ध्वंसिकायां जगद्धुत्वा मेरुश्रृङ्गे यथा रविः ॥२५॥एतावन्तं मया कालं वृत्ता यत्त्वं पतिप्रिये ।अजातबुद्धिभेदेन तेनैव कृतमस्तु ते ॥२६॥भ्रान्तौ तु विनिवर्तिन्यां नाधुनोपकरोषि माम् ।मन्त्राटव्यां चिरं भ्रान्तं विहृतं कार्यवर्त्मसु ॥२७॥दृष्टानि धर्मस्थानानि विश्राम्याम्यधुना सखि ।इत्यक्षमालां ज्वलने चिक्षेपोक्त्वा शिखिध्वजः ॥२८॥कल्पान्ताग्नाविव व्योम तारालीं पवनोऽमलाम् ।मया नरमृगेण त्वं चिरं वनमृगाच्च्युतम् ॥२९॥अबोधेन धृतं वृस्यामिदमेव मृगाजिनम् ।इदानीं गच्छ तुच्छाय पन्थानः सन्तु ते शिवाः ॥३०॥वह्निना व्योमतां गच्छ सतारं व्योम ते समम् ।तद्वृस्यङ्गात्कराभ्यां स धृत्वा चर्माजहाविति ॥३१॥नृपोऽग्नावम्बुधेर्वातो दववह्नाविवाचलात् ।महावृत्तेन भवता त्वया वारि धृतं मम ॥३२॥साधो कमण्डलो सम्यङ् न ते प्रतिकृतं कृतम् ।सौहृदस्य मनोज्ञस्य सौजन्यस्यस्थिरस्य च ॥३३॥साधुत्वस्य च सर्वस्य त्वमेव परमास्पदम् ।येनैव वह्निना देहं संशोध्याभ्यागतोऽसि माम् ॥३४॥तेनैव गच्छ हे मित्र पन्थानः सन्तु ते शिवाः ।इत्युक्त्वा श्रोत्रियायैव कमण्डलुमदात्तदा ॥३५॥अग्नये महते वापि दातव्यं साधु यद्भवेत् ।मूर्खस्येव मतिर्गुप्ते नित्यमेव पतस्यधः ॥३६॥उचिता ते गतिः सैव बृसिके भस्मतां व्रज ।इत्युक्त्वादाय बृसिकामग्नावेव स मृद्विकाम् ॥३७॥शुद्ध्यर्थमासनार्थं वै चिति तत्याज भासुरे ।यत्त्याज्यमचिरेणैव त्यक्तव्यं किल तत्सदा ॥३८॥विस्तरः क्रियते सद्भिरुपादेये इति स्थितिः ।शीघ्रमग्नाविदं सर्वं भाण्डजातं त्यजाम्यहम् ॥३९॥एकवारं दहत्यग्निर्दाह्यं भवति तुष्टये ।साधो क्रियोपकरणं निष्क्रियाय त्यजाम्यहम् ।न खेदस्तत्र कर्तव्यो नन्वयोग्यं बिभर्ति कः ॥४०॥इत्युक्तवान्झटिति भोजनभाजनाद्यंसर्वं जुहाव वनवासविलासयोग्यम् ।तद्भाण्डजालमनले सममेव राजाकल्पान्ततेजसि जगज्ज्वलतीव कालः ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० सर्वत्यागकरणं नाम द्विनवतितमः सर्गः ॥९२॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP