संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५२ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।यो जीवस्यादितः स्वप्नो नानाकलनकोमलः ।तमिमं विद्धि संसारं न सत्यं नाप्यसन्मयम् ॥१॥न पुंस इव जीवस्य स्वप्नः संभवति क्वचित् ।तेनैते जाग्रतो भावा जाग्रत्स्वप्नकृतोऽत्र हि ॥२॥जीवस्वप्नमिमं दीर्घं क्षिप्रताप्रतिभासतः ।असत्यमप्यवस्तुत्वाद्विद्धि वेद्यविदां वर ॥३॥स्वप्नात्स्वप्नान्तरमिव गच्छन्तो जीवजीवकाः ।असत्यमेव पश्यन्ति घनसत्यतयानघ ॥४॥अजडे जडता तात जडे चाजडतोदिता ।असत्ये सत्यता जीवजीवानुभवमोहतः ॥५॥भानोरप्यन्तरखिलं पश्यन्तस्त्रिजगद्भ्रमम् ।भ्रमन्ति स्वप्नसंभ्रान्ता इव जीवा भिदालिभिः ॥६॥सर्वगत्वादनन्तत्वात्स्वस्य जीवस्य जीवतः ।यद्भावयन्ति चेतन्ति तदेवाश्विति सत्यवत् ॥७॥पुण्डरीकाक्षनिर्दिष्टामसंसक्तिगतिं शुभाम् ।यामालिङ्ग्य महाबाहो जीवन्मुक्तो महामुनिः ॥८॥पाण्डोः पुत्रोऽर्जुनो नाम सुखं जीवितमात्मनः ।क्षिपयिष्यति निर्दुःखं तथा क्षेपय जीवितम् ॥९॥श्रीराम उवाच ।भविष्यति कदा ब्रह्मन्सोऽर्जुनः पाण्डुनन्दनः ।कीदृशीं च हरिस्तस्य कथयिष्यत्यसक्तताम् ॥१०॥श्रीवसिष्ठ उवाच ।अस्ति सन्मात्रमात्मेति परिकल्पितनामकम् ।स्थितमात्मन्यनाद्यन्ते नभसीव महानभः ॥११॥दृश्यते विमले तस्मिन्नयं संसारविभ्रमः ।कटकादि यथा हेम्नि तरङ्गादि यथाम्भसि ॥१२॥चतुर्दशविधा भूतजातयः प्रस्फुरन्त्यलम् ।तस्मिन्संसारजालेऽस्मिञ्जाले शकुनयो यथा ॥१३॥तत्रैते यमचन्द्रार्कशक्राद्याः शंसितक्रमाः ।भूतपञ्चकसंसारलोकपालत्वमागताः ॥१४॥इदं पुण्यमुपादेयं हेयं पापमिदं त्विति ।तैः स्वसंकल्पघटिताद्वेदनात्स्थापिता स्थितिः ॥१५॥तस्याद्य यावदनघ प्रवाहपतिते निजे ।कर्मण्यचलसंकाशस्थिरं चित्तमवस्थितम् ॥१६॥भगवान्स यमः किंचिद्गते प्रतिचतुर्युगे ।तपः प्रकुरुते भूतदलनात्पापशङ्कया ॥१७॥कदाचिदष्टौ वर्षाणि दश द्वादश वापि च ।कदाचित्पञ्चसप्तादि कदाचित्षोडशापि च ॥१८॥उदासीनवदासीने तस्मिन्नियमसंस्थितौ ।न हिनस्ति जगज्जाले मृत्युर्भूतानि कानिचित् ॥१९॥तेन नीरन्ध्रभूतौघनिःसंचारं महीतलम् ।भवति प्रावृषि स्वेदी कुञ्जरो मशकैरिव ॥२०॥अथैतानि विचित्राणि भूतानि बहुयुक्तिभिः ।क्षिपयन्ति सुरा राम भुवो भारनिवृत्तये ॥२१॥एवं युगसहस्राणि व्यवहारशतानि च ।समतीतान्यनन्तानि भूतानि च जगन्ति च ॥२२॥वैवस्वतोऽद्य तु यमो य एष पितृनायकः ।अनेन त्वधुना साधो परिक्षीणेषु केषुचित् ॥२३॥युगेष्वघविघाताय वर्षाणि द्वादशात्मना ।व्रतचर्येह कर्तव्या दूरास्तजनकर्षणा ॥२४॥तेनेयमुर्वी नीरन्ध्रा भूतैर्मर्त्यैरमृत्युभिः ।दीना प्रपन्ना गुल्मेव भारभूतैर्भविष्यति ॥२५॥भूभारपरिभूताङ्गी हरिं शरणमेष्यति ।कान्ता दस्युपराभूता दीना पतिमिव प्रिया ॥२६॥हरिर्देहद्वयेनाथ महीमवतरिष्यति ।देवांशैरखिलैः सार्धं नरनारायणं गतैः ॥२७॥वसुदेवसुतस्त्वेको वासुदेव इति श्रुतः ।देहो भविष्यति हरेर्द्वितीयः पाण्डवोऽर्जुनः ॥२८॥युधिष्ठिर इति ख्यातो धर्मपुत्रो भविष्यति ।अम्भोधिमेखलाभूपःपाण्डोः पुत्रः स धर्मवित् ॥२९॥दुर्योधन इति ख्यातस्तस्य भ्राता पितृव्यजः ।भविष्यति दृढद्वन्द्वो भीमो बभ्रुरहेरिव ॥३०॥अन्योन्यं हरतोरुर्वौ तयोः संग्रामलोलयोः ।अष्टादशात्राक्षौहिण्यो घटिष्यन्त्यत्र भीषणाः ॥३१॥तत्क्षयेण विभारत्वं भुवो विष्णुः करिष्यति ।राघवाऽर्जुनदेहेन वृहद्गाण्डीवधन्वना ॥३२॥विष्णोरर्जुननामादौ प्राकृतं भावमास्थितः ।हर्षामर्षान्वितो देहो नरधर्मा भविष्यति ॥३३॥सेनाद्वयगतान्दृष्ट्वा स्वजनान्मरणोन्मुखान् ।विषादमेष्यत्युद्योगं युद्धाय न करिष्यति ॥३४॥तमर्जुनाभिधं देहं प्राप्तकार्यैकसिद्धये ।हरिर्बुद्धेन देहेन बोधयिष्यति राघव ॥३५॥न जायते म्रियते वा कदाचि-न्नायं भूत्वा भविता वा न भूयः ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥३६॥य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥३७॥अनन्तस्यैकरूपस्य सतः सूक्ष्मस्य खादपि ।आत्मनः परमेशस्य किं कथं केन नश्यति ॥३८॥अनन्तमव्यक्तमनादिमध्य-मात्मानमालोकय संविदात्मन् ।संविद्वपुः स्फारमलब्धदोष-मजोऽसि नित्योऽसि निरामयोऽसि ॥३९॥इत्यार्षे श्रीवासिष्ठमहारामा० वा ० दे० मोक्षो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने नरनारायणावतारकथनं नाम द्विपञ्चाशः सर्गः ॥५२॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP