संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १२६ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १२६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२६ Translation - भाषांतर श्रीराम उवाच ।सप्तानां योगभूमीनामभ्यासः क्रियते कथम् ।कीदृशानि च चिह्नानि भूमिकां प्रति योगिनः ॥१॥श्रीवसिष्ठ उवाच ।प्रवृत्तश्च निवृत्तश्च भवति द्विविधः पुमान् ।स्वर्गापवर्गोन्मुखयोः शृणु लक्षणमेतयोः ॥२॥ कियत्तन्नाम निर्वाणं वरं संसृतिरेव मे ।इतिकर्तव्यकर्ता यः स प्रवृत्त इति स्मृतः ॥३॥चलार्णवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत् ।अनेकजन्मनामन्ते विवेकी जायते पुमान् ॥४॥असारा बत संसारव्यवस्थालं ममैतया ।किं कर्मभिः पर्युषितैर्दिनं तैरेव नीयते ॥५॥क्रियातिशयनिर्मुक्तं किं स्याद्विश्रमणं परम् ।इति निश्चयवान्योऽन्तः स निवृत्त इति स्मृतः ॥६॥कथं विरागवान्भूत्वा संसाराब्धिं तराम्यहम् ।एवंविचारणपरो यदा भवति सन्मतिः ॥७॥विरागमुपयात्यन्तर्भावनास्वनुवासरम् ।क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥८॥ग्राम्यासु जडचेष्टासु सततं विचिकित्सति ।नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥९॥मनोनुद्वेगकारीणि मृदुकर्माणि सेवते ।पापाद्बिभेति सततं न च भोगमपेक्षते ॥१०॥स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।देशकालोपपन्नानि वचनान्यभिभाषते ॥११॥तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।मनसा कर्मणा वाचा सज्जनानुपसेवते ॥१२॥यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते ।एवंविचारवान्यः स्यात्संसारोत्तारणं प्रति ॥१३॥स भूमिकावानित्युक्तः शेषः स्वार्थ इति स्मृतः ।विचारनाम्नीमितरामागतो योगभूमिकाम् ॥१४॥श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणाम् ।मुख्यया व्याख्यया ख्याताञ्श्रयते श्रेष्ठपण्डितान् ॥१५॥पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।जानात्यधिगतश्रव्यो गृहं गृहपतिर्यथा ॥१६॥मदाभिमानमात्सर्यमोहलोभातिशायिताम् ।बहिरप्याश्रितामीषत्त्यजत्यहिरिव त्वचम् ॥१७॥इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवनात् ।सरहस्यमशेषेण यथावदधिगच्छति ॥१८॥असंसङ्गाभिधामन्यां तृतीयां योगभूमिकाम् ।ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥१९॥यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलम् ।तापसाश्रमविश्रामैरध्यात्मकथनक्रमैः ॥२०॥संसारनिन्दकैस्तद्वद्वैराग्यकरणक्रमैः ।शिलाशय्यासमासीनो जरयत्यायुराततम् ॥२१॥वनवासविहारेण चित्तोपशमशोभिना ।असङ्गसुखसौम्येन कालं नयति नीतिमान् ॥२२॥अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ।जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥२३॥तृतीयां भूमिकां प्राप्य बुधोऽनुभवति स्वयम् ।द्विःप्रकारमसंसङ्गं तस्य भेदमिमं शृणु ॥२४॥द्विविधोऽयमसंसङ्गः सामान्यः श्रेष्ठ एव च ।नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः ॥२५॥इत्यसञ्जनमर्थेषु सामान्यासङ्गनामकम् ।प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव च ॥२६॥सुखं वा यदि वा दुःख कैवात्र मम कर्तृता ।भोगाभोगा महारोगाः संपदः परमापदः ॥२७॥वियोगायैव संयोगा आधयो व्याधयो धियः ।कालः कवलनोद्युक्तः सर्वभावाननारतम् ॥२८॥अनास्थयेति भावानां यदभावनमान्तरम् ।वाक्यार्थलग्नमनसः सामान्योऽसावसंगमः ॥२९॥अनेकक्रमयोगेन संयोगेन महात्मनाम् ।वियोगेनासतामन्तः प्रयोगेणात्मसंविदाम् ॥३०॥पौरुषेण प्रयत्नेन संतताभ्यासयोगतः ।करामलकवद्वस्तुन्यागते स्फुटतां दृढम् ॥३१॥संसाराम्बुनिधेः पारे सारे परमकारणे ।नाहं कर्तेश्वरः कर्ता कर्म वा प्राकृतं मम ॥३२॥कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥३३॥यन्नान्तर्न बहिर्नाधो नोर्ध्वं नाशासु नाम्बरे ।न पदार्थे नापदार्थे न जडे न च चेतने ॥३४॥आसितं भासनं शान्तमभासं नभसा समम् ।अनाद्यन्तमजं कान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥३५॥संतोषामोदमधुरः सत्कार्यामलपल्लवः ।चित्तनालाग्रसंलीनो विघ्नकण्टकसंकटः ॥३६॥विवेकपद्मो रूढोऽन्तर्विचारार्कविलासितः ।फलं फलत्यसंसङ्गां तृतीयां भूमिकामिमाम् ॥३७॥समवायाद्विशुद्धानां संचयात्पुण्यकर्मणाम् ।काकतालीययोगेन प्रथमोदेति भूमिका ॥३८॥भूमिः प्रोदितमात्रा तैरमृताङ्कुरिकेव सा ।विवेकेनाम्बुसेकेन रक्ष्या पाल्या प्रयत्नतः ॥३९॥येनांशेनोल्लसत्येषा विचारेणोदयं नयेत् ।तमेवानुदिनं यत्नात्कृषीवल इवाङ्कुरम् ॥४०॥एषा हि परिमृष्टान्तरन्यासां प्रसवैकभूः ।द्वितीयां भूमिकां यत्नात्तृतीयां प्राप्नुयात्ततः ॥४१॥श्रेष्ठा संसङ्गता ह्येषा तृतीया भूमिकात्र हि ।भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥४२॥श्रीराम उवाच ।मूढस्यासत्कुलोत्थस्य प्रवृत्तस्याधमस्य च ।अप्राप्तयोगिसङ्गस्य कथमुत्तरणं भवेत् ॥४३॥एकामथ द्वितीयां वा तृतीयां चेतरा च वा ।आरूढस्य मृतस्याथ कीदृशी भगवन्गतिः ॥४४॥श्रीवसिष्ठ उवाच ।मूढस्यारूढदोषस्य तावत्संसृतिरातता ।यावज्जन्मान्तरशतैः काकतालीययोगतः ॥४५॥अथवा साधुसंगत्या वैराग्यं नाभ्युदेति हि ।वैराग्येऽभ्युदिते जन्तोरवश्यं भूमिकोदयः ॥४६॥ततो नश्यति संसार इति शास्त्रार्थसंग्रहः ।योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः ॥४७॥भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ।ततः सुरविमानेषु लोकपालपुरेषु च ॥४८॥मेरूपवनकुञ्जेषु रमते रमणीसखः ।ततः सुकृतसंभारे दुष्कृते च पुरा कृते ॥४९॥भोगजाले परिक्षीणे जायन्ते योगिनो भुवि ।शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् ॥५०॥जनित्वा योगमेवैते सेवन्ते योगवासिताः ।तत्र प्राग्भावनाभ्यस्तयोगभूमिक्रमं बुधाः ।स्मृत्वा परिपतन्त्युच्चैरुत्तरं भूमिकाक्रमम् ॥५१॥भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्मृतम् ।यथावद्भेदबुद्ध्येदं तज्जाग्रदिति दृश्यते ॥५२॥उदेति योगयुक्तानामत्र केवलमार्यता ।यां दृष्ट्वा मूढबुद्धीनामभ्युदेति मुमुक्षुता ॥५३॥कर्तव्यमाचरन्काममकर्तव्यमनाचरन् ।तिष्ठति प्राकृताचारो यः स आर्य इति स्मृतः ॥५४॥यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम् ।व्यवहारमुपादत्ते यः स आर्य इति स्मृतः ॥५५॥प्रथमायामङ्कुरितं द्वितीयायां विकासितम् ।फलीभूतं तृतीयायामार्यत्वं योगिनो भवेत् ॥५६॥आर्यतायां मृतो योगी शुभसंकल्पसंभृतान् ।भोगान्भुक्त्वा चिरं कालं योगवाञ्जायते पुनः ॥५७॥भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे ॥५८॥निर्विभागमनाद्यन्तं योगिनो युक्तचेतसः ।समं सर्वं प्रपश्यन्ति चतुर्थी भूमिकामिताः ॥५९॥अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।पश्यन्ति स्वप्नवल्लोकांश्चतुर्थीं भूमिकामिताः ॥६०॥भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ।विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ॥६१॥सत्तावशेष एवास्ते पञ्चमीं भूमिकां गतः ।पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् ॥६२॥शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ।गलितद्वैतनिर्भासमुदितोऽन्तः प्रबुद्धवान् ॥६३॥सुषुप्तघन एवास्ते पञ्चमीं भूमिकामितः ।अन्तर्मुखतया तिष्ठन्बहिर्वृत्तिपरोऽपि सन् ॥६४॥परिशान्ततया नित्यं निद्रालुरिव लक्ष्यते ।कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ॥६५॥षष्ठीं तुर्याभिधामन्यां क्रमात्क्रमति भूमिकाम् ।यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः ॥६६॥केवलं क्षीणमननमास्ते द्वैतैक्यनिर्गतः ।निर्ग्रन्थिः शान्तसंदेहो जीवन्मुक्तो विभावनः ॥६७॥अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ।अन्तःशून्यो बहिःशून्य- शून्यः कुम्भ इवाम्बरे ॥६८॥अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।किंचिदेवैष संपन्नस्त्वथ वैष न किंचन ॥६९॥षष्ठ्यां भूम्यामसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ।विदेहमुक्तता तूक्ता सप्तमी योगभूमिका ॥७०॥अगम्या वचसां शान्ता सा सीमा भवभूमिषु ।कैश्चित्सा शिवमित्युक्ता कैश्चिद्ब्रह्मेत्युदाहृता ॥७१॥कैश्चित्प्रकृतिपुंभावविवेक इति भाविता ।अन्यैरप्यन्यथा नानाभेदैरात्मविकल्पितैः ॥७२॥नित्यमव्यपदेश्यापि कथंचिदुपदिश्यते ।सप्तैता भूमिकाः प्रोक्ता मया तव रघूद्वह ॥७३॥आसामभ्यासयोगेन न दुःखमनुभूयते ।अस्त्यत्यन्तमदोन्मत्ता मृदुमन्थरचारिणी ॥७४॥करिणी विग्रहव्यग्रा महादशनशंसिनी ।सा चेन्निहन्यते नूनमनन्तानर्थकारिणी ॥७५॥तदेतासु समग्रासु भूमिकासु नरो जयी ।करिणी मदमत्ता सा यावन्न विजितौजसा ॥७६॥को नाम सुभटस्तावत्संपत्समरभूमिषु ।श्रीराम उवाच ।कासौ प्रमत्ता करिणी काश्च ता रणभूमयः ॥७७॥कथं निहन्यते चैषा क्व चैषा रमते चिरम् ।श्रीवसिष्ठ उवाच ।रामेच्छा नाम करिणी इदं मेऽस्त्वितिरूपिणी ॥७८॥शरीरकानने मत्ता विविधोल्लासकारिणी ।मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी ॥७९॥मनोगहनसंलीना कर्मदन्तद्वयान्विता ।मदोऽस्या वासनाव्यूहः सर्वतः प्रसरद्वपुः ॥८०॥संसारदृष्टयो राम तस्याः समरभूमयः ।भूयो यत्रानुभवति नरो जयपराजयौ ॥८१॥इच्छानागी निहन्त्येषा कृपणाञ्जीवसंचयान् ।वासनेहा मनश्चित्तं संकल्पो भावनं स्पृहा ॥८२॥इत्यादिनिवहो नाम्नामस्यास्त्वाशयकोशगः ।धैर्यनाम्ना वरास्त्रेण प्रसृतामवहेलया ॥८३॥नागीं सर्वात्मिकामेतामिच्छां सर्वात्मना जयेत् ।यावद्वस्त्विदमित्येवमियमन्तर्विजृम्भते ॥८४॥तावदुग्रा कुसंसारमहाविषविषूचिका ।एतावानेव संसार इदमस्त्विति यन्मनः ॥८५॥अस्य तूपशमो मोक्ष इत्येवं ज्ञानसंग्रहः ।प्रसादकारिणी स्वच्छा निरिच्छे विमलाकृतौ ॥८६॥तैलबिन्दुरिवादर्शे विश्राम्यत्युपदेशवाक् ।असंवेदनमात्रेण नोदेतीच्छाभवाङ्कुरः ॥८७॥मनागभ्युदितैवेच्छा छेत्तव्यानर्थकारिणी ।असंवेदनशस्त्रेण विषस्येवाङ्कुरावली ॥८८॥इच्छाविच्छुरितो जीवो विजहाति न दीनताम् ।स्वसंवेदनयत्नस्तु तूष्णीमेवान्तरासनम् ॥८९॥अवधानविनिर्मुक्तं सुप्तं शवशतं यथा ।तां प्रत्याहारबडिशेनेच्छामत्सीं नियच्छत ॥९०॥इदं मेऽस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।अर्थस्याभावनं यत्तत्कल्पनात्याग उच्यते ॥९१॥स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः ।तत्र प्रागनुभूतं च नानुभूतं च भाव्यते ॥९२॥अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् १सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामतिः ॥९३॥ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति तत् ।असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥९४॥किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।परमं यत्र साम्राज्यमपि राम तृणायते ॥९५॥गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।स्पन्दो विगतसंकल्पस्तथा स्पन्दः स्वकर्मसु ॥९६॥बहुनात्र किमुक्तेन संक्षेपादिदमुच्यते ।संकल्पनं परो बन्धस्तदभावो विमुक्तता ॥९७॥सर्वमेवमजं शान्तमनन्तं ध्रुवमव्ययम् ।पश्यन्भूतार्थचिद्रूपं शान्तमास्व यथासुखम् ॥९८॥अवेदनं विदुर्योगं शान्तमासितमक्षयम् ।योगस्थः कुरु कर्माणि निर्वासनोऽथ मा कुरु ॥९९॥अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भो ॥१००॥शिवं सर्वगतं शान्तं बोधात्मकमजं शुभम् ।तदेकभावनं राम सर्वत्याग इति स्मृतः ।भावयञ्छश्वदन्तः स्वं कार्यं कर्म समाचर ॥१०१॥अहंममेति संविदन्न दुःखतो विमुच्यते ।असंविदन्विमुच्यते यदीप्सितं समाचर ॥१०२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० परमार्थस्वरूपवर्णनं नाम षड्विंशत्युत्तरशततमः सर्गः ॥१२६॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP