संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ३५ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ३५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ततो मुहूर्तेन हरो गौरीकमलिनीसरः ।मद्विकासोन्मुखः स्वैरं विकासं बहिराददे ॥१॥दृक्चयो द्योतयामास मुखाकाशतलोदितः ।बोधं समुद्गकादर्क अंशुराशिरिवोद्गतः ॥२॥ईश्वर उवाच ।मुने मननमाहूय स्वसत्तैवाशु मीयताम् ।त्वमर्थं माहरानर्थं पवनः स्पन्दतामिव ॥३॥द्रष्टव्यमिह यत्किंचित्तद्दृष्टं किं समं भ्रमैः ।न हि हेयमुपादेयं चेह पश्यामि तद्विदः ॥४॥शान्त्यशान्तिमयानेतान्विकल्पान्दलयन्नसिः ।धीरोसिनान्यथाऽऽस्थित्वा त्वमेव भव चात्मदृक् ॥५॥इमां दृश्यदशामाशु बाह्यबोधाय वा पुनः ।समाश्रित्य मदुक्तं त्वं श्रृणु तूष्णीं स्थितेन किम् ॥६॥इत्युक्त्वा बाह्यबोधस्त्वं मा भवेति त्रिशूलधृक् ।प्राणेनेदं देहगेहं परिस्फुरति यन्त्रवत् ॥७॥प्राणहीनं परिस्पन्दं त्यक्त्वा तिष्ठति मूकवत् ।चालनी पावनी शक्तिः शक्तिः संवेदनी चितिः ॥८॥सा मूर्ता खादपि स्वच्छा सत्सत्तैवात्र कारणम् ।विनश्यतः प्राणदेहौ वियोगान्मरुदेव च ॥९॥चिदात्मा खादपि स्वच्छो न विनश्यति किं भ्रमैः ।मनःप्राणमये देहे चित्तत्त्वं परिजायते ॥१०॥मुकुरे ह्यमलाभासे प्रतिबिम्बं प्रवर्तते ।सदप्यग्रगतं वस्तु प्रतिबिम्बक्रिया विना ॥११॥यथा नास्ति मलोपेते मुकुरे मुनिनायक ।तथा नास्ति गतप्राणे विद्यमानेऽपि देहके ॥१२॥सर्वगापि चिदुच्छूनबोधात्स्पन्दादिकं प्रति ।बोधात्कलङ्कविमला चिदेव परमं शिवम् ॥१३॥विदुर्देवं तदाभासं सर्वसत्तार्थदं तथा ।स हरिः स शिवः सोऽजः स ब्रह्मा स सुरेश्वरः ॥१४॥अनिलानलचन्द्रार्कवपुः स परमेश्वरः ।स एष सर्वगो ह्यात्मा चित्खनिश्चेतनः स्मृतः ॥१५॥देवेशो देवभृद्धाता देवदेवो दिवः पतिः ।महाचितः समुल्लासं मुह्यन्तीव न केचन ॥१६॥ये नाम ते जगत्येते ब्रह्मविष्णुहरादयः ।परस्मात्परिनिर्याता ब्रह्मविष्णुहरादयः ॥१७॥कणास्तप्तायस इव वारिधेरिव बिन्दवः ।तेष्विव भ्रमभूतेषु जातेष्विव परात्पदात् ॥१८॥स्थितेषु भ्रमबीजेषु कल्पनाजालकर्तृषु ।सहस्रशतशाखेयमविद्योदेति पीवरी ॥१९॥वेदवेदार्थवेदादिजीवजालजटावली ।ततस्तस्या अनन्तायाः प्रसृतायाः पुनःपुनः ॥२०॥संपन्नदेशकालायाः क्रमः स्याद्वर्णनासु कः ।ब्रह्मविष्णुहरादीनामतोऽयं परमः पिता ॥२१॥मूलबीजं महादेवः पल्लवानामिव द्रुमः ।सर्वसत्त्वाभिधः सर्वः सर्वसंवेदनैककृत् ॥२२॥सर्वसत्ताप्रदो भास्वान्वन्द्योऽभ्यर्च्यश्च तद्विदः ।प्रत्यक्षवस्तुविषयः सर्वत्रैव सदोदितः ॥२३॥संवेदनात्मकतया गतया सर्वगोचरम् ।न तस्याह्वानमन्त्रादि किंचिदेवोपयुज्यते ॥२४॥नित्याहूतः स सर्वस्थो लभ्यते सर्वतः स्वचित् ।यां यां वस्तुदशां याति तत एव मुने शिवम् ॥२५॥स्वरूपं समवाप्नोति रूपालोकमनोदृशाम् ।आद्यं पूज्यं नमस्कार्यं स्तुत्यमर्घ्यं सुरेश्वरम् ॥२६॥एनं तं विद्धि वेद्यानां सीमान्तं महतामपि ।एतमात्मानमालोक्य जराशोकभयापहम् ।संभृष्टबीजवज्जन्तुर्न भूयः परिरोहति ॥२७॥सकलजन्तुषु यत्त्वभयप्रदंविदितमाद्यमुपास्यमयत्नतः ।त्वमजमात्मगतं परमं पदंभवसि किं परिमुह्यसि दृष्टिषु ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० महादेवस्य पूज्यसीमान्तत्वकथनं नाम पञ्चत्रिंशः सर्गः ॥३५॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP