संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ६३ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ६३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।स कदाचिद्ददर्शाथ रुद्रं रुद्रपुरे खगः ।वैरिञ्चनलिनीनाललीलालाभेन लीलया ॥१॥तत्र बुद्धिरभूत्तस्य रुद्रोऽहमिति निश्चिता ।प्रतिबिम्बवदादर्शे द्रागित्येव हि बिम्बिता ॥२॥रुद्रभूतवपुस्तत्र तनुं तत्याज तामसौ ।गन्धः पवनतां गच्छन्कुसुमस्तबकं यथा ॥३॥स रुद्रो रुद्रभवने विजहार यथेच्छया ।तैस्तैः शिवपुराचारैर्गणकोटिगरिष्ठया ॥४॥रुद्रस्त्वनुत्तमज्ञानविलासैकतया तया ।स्वप्नशेषं च वृत्तान्तमपश्यत्प्राक्तनं धिया ॥५॥निरावरणविज्ञानवपुः स भगवांस्तदा ।उवाच स्वयमेकान्ते स्वस्वप्नशतविस्मितः ॥६॥अहो तु चित्रा मायेयं तता विश्वविमोहिनी ।असत्यैवापि सद्रूपा मरुभूमिषु वारिवत् ॥७॥इति प्रथममाज्ञातं चिद्योऽहं चित्ततां गतः ।सर्वसंपन्नसर्वज्ञगगनादिविभावनात् ॥८॥यदृच्छया स्थितो जीवो भूततन्मात्ररञ्जितः ।कस्मिंश्चिदभवत्सर्गे भिक्षुरक्षुभितोऽभितः ॥९॥तेनावयवबन्धेन बहिः स्वैरविहारिणी ।लीलाऽविलुलिताकारा यदा रम्येति भावतः ॥१०॥सर्वभावोपमर्देन तदभ्यासवशात्तदा ।तामेव सोऽन्वभूद्भिक्षुस्त्यक्त्वान्यं मननोदयम् ॥११॥चमत्कृतिश्चेतसि या रूढा सैव विजृम्भते ।वल्ली त्यजति नैदाघी पीतमप्यम्बु माधवम् ॥१२॥स भिक्षुर्जीवटो भूत्वा जन्तुर्जरठवासनः ।तेषु देहेषु बभ्राम रन्ध्रेष्विव पिपीलिका ॥१३॥आत्मनि द्विजभक्तत्वात्सोऽपश्यद्द्विजतामथ ।भावाभावविपर्यासे बलवानेव वर्धते ॥१४॥सामन्ततामवापासौ विप्रः संततचिन्तिताम् ।सातत्येन रसः पतिः फलतामेति पादपे ॥१५॥राज्यार्थं धर्मकार्याणां कर्तृत्वात्सोऽभवन्नृपः ।सकामुकतया राजा सुरस्त्रीत्वमवाप ह ॥१६॥लोला लोचनलोभेन सा मृगी रसशालिनी ।बभूव वासनामोहश्चाहो दुःखाय जन्तुषु ॥१७॥मृगी सा बत चित्तस्था बभूव विपिने लता ।अवश्यंभावि लवनं लतिकाऽनुबभूव ह ॥१८॥अन्तःसंज्ञाचिराभ्यस्तं भ्रमरत्वमथात्मनि ।साऽपश्यत्सावमर्देन तदा तद्भावभाविता ॥१९॥सवारणखुरक्षोदमनुभूयाथ भावितम् ।भूयोभूयः प्रबभ्राम महासंसृतिसंभ्रमान् ॥२०॥संसारशतपर्यन्ते रुद्रः सोऽहमहं स्थितः ।अस्मिन्संसारसंरम्भे स्वमनोमात्रसंभ्रमे ॥२१॥एवमत्यन्तचित्रासु संसारारण्यभूमिषु ।बह्वीष्वहमतिभ्रान्तस्त्वशून्यास्विव भूरिशः ॥२२॥कस्मिंश्चिदभवं सर्गे त्वहं जीवटनामकः ।कस्मिंश्चिद्ब्राह्मणश्रेष्ठः कस्मिंश्चिद्वसुधाधिपः ॥२३॥हंसः पद्मवने भूत्वा विन्ध्यकच्छे च वारणः ।हरिणो देहयन्त्रादौ दशामहमिमां गतः ॥२४॥अत्र वर्षसहस्राणि चतुर्युगशतानि च ।समतीतान्यनन्तानि दिनर्तुचरितानि च ॥२५॥मम प्रथममेव प्राक्चलितस्य परात्पदात् ।तत्त्वज्ञानितया रूढो भिक्षुत्वे योग्यताक्रमः ॥२६॥भूयोभूयोऽप्यतिक्रम्य गतश्च ब्रह्महंसताम् ।स एव प्राक्तनोऽभ्यासः फलितः संगमोदयात् ॥२७॥दृढाभ्यासो य एवास्य जीवस्योदेत्यविघ्नतः ।सोऽत्यन्तमरसेनापि तमेवाश्वनुधावति ॥२८॥काकतालीययोगेन कदाचित्साधुसंगमात् ।अशुभो भावनाभ्यासो जीवस्य विनिवर्तते ॥२९॥संगत्यधिगतं चैष केवलं स्वोदयं प्रति ।प्राक्तनो वासनाभ्यासो हातुरुद्यममीक्षते ॥३०॥यच्चेहाभ्यस्यतेऽजस्रं यच्च देहान्तरेऽपि च ।जाग्रत्स्वप्नेष्वसदपि तत्सदित्यनुभूयते ॥३१॥तत्तदर्थक्रियाकारि दुःखाय च सुखाय च ।उदेति भावनं तस्माद्भावनाभावनं जयः ॥३२॥भावनैव स्वमात्मानं देहोऽयमिति पश्यति ।असत्तामात्रविस्तारं गुल्मकत्वमिवाङ्कुरः ॥३३॥भावना प्रेक्ष्यमाणैषा न किंचिदिह शिष्यते ।न च विद्यत एवेति तद्भ्रमेणालमस्तु नः ॥३४॥भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।असंवेदनमात्रैकं मार्जनायालमस्तु नः ॥३५॥असन्मयीस्वरूपैषा परं सत्तैव लालनी ।वर्तते चेद्विनोदाय किंचित्सा न करिष्यति ॥३६॥तत्तान्सर्वान्स्वसंसारानुत्थायालोकयाम्यहम् ।सम्यगालोकदानेन तेभ्य एकीकरोम्यहम् ॥३७॥इति संचिन्त्य रुद्रोऽसौ तं सर्गं प्रजगाम ह ।यत्र भिक्षुर्विहारस्थः सुप्तः शव इव स्थितः ॥३८॥बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च ।योजयामास सस्मार भिक्षुरप्यात्मनो भ्रमम् ॥३९॥रुद्रमात्मानमालोक्य जीवटादिमयं तथा ।बोधादविस्मयार्होऽपि स भिक्षुर्विस्मयं ययौ ॥४०॥अथ रुद्रस्तथा भिक्षुर्द्वावेवोत्थाय जग्मतुः ।क्वापि जीवटसंसारं चिदाकाशैककोणगम् ॥४१॥तत्र तद्भवनं गत्वा तद्द्वीपं तच्च मण्डलम् ।विषयं तत्पुरं तच्च तं च पाणावसिग्रहम् ॥४२॥सुप्तं ददृशतुर्नष्टसंज्ञं जीवटकं शवम् ।स्थापयित्वा वपुर्भावं प्रभान्तं भवभूमिषु ॥४३॥तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।एकरूपास्त्रिरूपास्ते रुद्रजीवटभिक्षुकाः ॥४४॥बोधवन्तोऽप्यबुद्धाभा विस्मिता अप्यविस्मिताः ।बभुस्तूष्णींस्थिताश्चित्रकृताकारा इव क्षणम् ॥४५॥अथ जग्मुश्च ते सर्वे क्वचिद्व्योमनि संस्थितम् ।विप्रसंसारमारब्धं परिभूतसघुंघुमम् ॥४६॥ते तत्र भुवनं गत्वा तद्वीपं तच्च मण्डलम् ।विषयं तच्च तं ग्रामं प्रापुस्तं ब्राह्मणालयम् ॥४७॥विप्रं ते ददृशुः सुप्तं कलत्रवलितं गृहे ।कण्ठे गृहीतं ब्राह्मण्या बहिर्जीवमिव स्थितम् ॥४८॥तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।तत्स्थास्ते बहवोऽप्यन्ये सविस्मयविविस्मयाः ॥४९॥अथ जग्मुश्चिदाकाशकचितं चेतितं चितेः ।सामन्तं नृपसंसारं भ्रमणाभोगसुन्दरम् ॥५०॥ततस्ते भुवनं प्राप्तास्तद्द्वीपं तच्च मण्डलम् ।सामन्तं ददृशुर्मत्तं सुप्तं पर्यङ्कपङ्कजे ॥५१॥हेमावदातं हेमांग्या निहितं कुचकोटरे ।भ्रमर्येवान्वितं पद्मकोशसुप्तं मधुव्रतम् ॥५२॥कान्ताभिरभ्यावलितं मञ्जरीभिरिव द्रुमम् ।दीपजालकमध्यस्थं रत्नौघ इव काञ्चनम् ॥५३॥तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।तत्स्थास्ते बहवोऽप्येके सविस्मयविविस्मयाः ॥५४॥अथ ते राजसंसारं जग्मुस्तत्र विबोध्य तम् ।चेतसैवमथान्यासु भ्रेमुः संसारभूमिषु ॥५५॥प्राप्य तां ब्रह्महंसेहां रुद्रतां सर्व एव ते ।समाजग्मुर्विरेजुश्च रुद्राणामुत्तमं शतम् ॥५६॥एकसंविद्भिन्नतनु चित्रचेष्टितवेष्टितम् ।एकरूपमनेकाभं रूपं तत्पारमेश्वरम् ॥५७॥रुद्राणां तच्छतमथ निरावरणचिन्मयम् ।सर्वसंसारसंबन्धि स्थितं सर्वजगत्स्थितम् ॥५८॥शतरुद्रशतानीह सन्ति राम महान्ति हि ।एतदेकादशं विद्धि संसारं प्रतिसंस्थितम् ॥५९॥यो योऽभितः स जीवस्य संसारः समुदेति हि ।तत्राप्रबुद्धा जीवौघाः पश्यन्ति न परस्परम् ॥६०॥मिलन्ति हि मनोबुद्धास्तरङ्गा इव वारिधौ ।अप्रबुद्धास्तु तन्मात्रनिष्ठा लोष्टवदास्थिताः ॥६१॥यथा द्रवत्वाद्वीच्यम्बु त्वन्योन्यं संमिलत्यलम् ।तथा प्रबुद्धा जीवौघा मिथश्चित्त्वान्मिलन्त्यलम् ॥६२॥प्रत्येकमुदिते चैते संसारे जीवराशयः ।चिद्धातोः सर्वगत्वेन त्वसत्याः सत्यवत्स्थिताः ॥६३॥यद्यदाखन्यते भूमेस्तत्तन्नाम यथा नभः ।सर्वगायाश्चितेर्यद्यदुह्यते तत्तथैव चित् ॥६४॥सर्वप्रपञ्चभूतानि यथानुभवसीह हि ।तथेह सर्वभूतात्म चित्त्वं सर्वत्र विद्यते ॥६५॥यच्छालभञ्जिका वृक्षे शैले श्वभ्रे गतेऽन्तकम् ।प्रेक्ष्यते तद्वदेकात्मा तथा चिति जगत्स्थितम् ॥६६॥अवेदने परे शुद्धे वेदनं यज्जगत्स्थितम् ।अकारणमचैतन्यं शून्यत्वेन यथा नभः ॥६७॥विद्यते वेदनं दृश्यबन्धो मोक्षस्त्ववेदनम् ।यदेव रुचिरं ते स्यात्तदेवाशु दृढीकुरु ॥६८॥सर्गासर्गौ बन्धमोक्षौ वेदनावेदनात्मकौ ।अभिन्नौ बोधनाच्चोभौ यथेच्छसि तथा कुरु ॥६९॥असंवित्तेस्तु यन्नास्ति तन्नाशे का कदर्थना ।तूष्णींभावेन यत्प्राप्यं प्राप्तमेवाशु विद्धि तत् ॥७०॥यद्वै वेदनमात्रात्म तदंगावेदनक्षयम् ।तद्वेदनं वेदनाया यदिष्टं तत्समाचरेत् ॥७१॥वीचिर्यथाम्भसः स्पन्दो जगच्चैव तथा चितौ ।एतावन्मात्र एवात्र भेदो यद्रघुनन्दन ॥७२॥देशकालस्वरूपेषु सत्सु वीच्यादिताम्भसि ।जगदादौ तु देशाद्या असन्तो जगतीक्षिताः ॥७३॥आभास्वरं त्रिजगदित्यतिभाति भास्व-त्स्वं वेदनं विदनमेव चितेः स्वरूपम् ।वाचि स्थितं भवति चैतदुपोह भेद-क्लिष्टं प्रशान्तवचनस्तु शिवः परात्मा ॥७४॥संवेदनं सर्वं इतीह शब्दा-दर्थादभिन्नौ न कदाचिदेतौ ।वीच्यम्भसी द्वे इति नोचितोक्ति-यस्याज्ञतायां त्विदमेव युक्तम् ॥७५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० जीवटोपाख्याने स्वप्नशतरुद्रीयकथनं नाम त्रिषष्टितमः सर्गः ॥६३॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP