संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ७८ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ७८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं बहूनि वर्षाणि मिथुनं निर्भरस्पृहम् ।रेमे यौवनलीलाभिरमन्दाभिर्दिने दिने ॥१॥अथ यातेषु बहुषु वर्षेष्वावृत्तिशालिषु ।शनैर्गलिततारुण्ये भिन्नकुम्भादिवाम्भसि ॥२॥तरङ्गनिकराकारभङ्गुरव्यवहारिणि ।पातः पक्वफलस्येव मरणं दुर्निवारणम् ॥३॥हिमाशनिरिवाम्भोजे जरा निपतनोन्मुखी ।आयुर्गलत्यविरतं जलं करतलादिव ॥४॥प्रावृषीव लतातुम्बी तृष्णैका दीर्घतां गता ।शैलनद्या रय इव संप्रयात्येव यौवनम् ॥५॥इन्द्रजालमिवासत्यं जीवनं जीर्णसंस्थिति ।सुखानि प्रपलायन्ते शरा इव धनुश्च्युताः ॥६॥पतन्ति चेतो दुःखानि तृष्णा गृध्र इवामिषम् ।बुद्बुदः प्रावृषीवाप्सु शरीरं क्षणभङ्गुरम् ॥७॥रम्भागर्भ इवासारो व्यवहारो विचारगः ।सत्वरं युवता याति कान्तेवाप्रियकामिनः ॥८॥बलादरतिरायाता वैरस्यमिव पादपम् ।तदिह स्याच्छुभाकारं स्थिरं किमतिशोभनम् ॥९॥यदासाद्य पुनश्चेतो दशासु न विदूयते ।इति निर्णीय युग्मं तत्संसारव्याधिभेषजम् ॥१०॥चिरं विचारयामास शास्त्रमध्यात्मसंमतम् ।आत्मज्ञानैकमात्रेण संसृत्याख्या विषूचिका ॥११॥संशाम्यतीति निश्चित्य तावास्तां तत्परायणौ ।तच्चित्तौ तद्गतप्राणौ तन्निष्ठौ तद्विदाश्रयौ ॥१२॥तदा तदर्चनपरौ तदीहौ तौ विरेजतुः ।तत्रैवातिघनाभ्यासौ बोधयन्तौ परस्परम् ॥१३॥तत्प्रीतौ तत्समारम्भावन्योन्यं तौ बभूवतुः ।अथ साविरतं राम रमणीयपदक्रमान् ॥१४॥श्रुत्वाध्यात्मविदां वक्राच्छास्त्रार्थांस्तारणक्षमान् ।इत्थं विचारयामास स्वमात्मानमहर्निशम् ॥१५॥अव्यापृता व्यापृता वा धिया धवलयेद्धया ।प्रेक्षे तावत्स्वमात्मानं किमहं स्यामिति स्वयम् ॥१६॥कस्यायमागतो मोहः कथमभ्युत्थितः क्व वा ।देहस्तावज्जडो मूढो नाहमित्येव निश्चयः ॥१७॥आबालमेतत्संसिद्धं मतौ चैवानुभूयते ।कर्मेन्द्रियगणश्चास्मादभिन्नावयवात्मकः ॥१८॥अवयवावयविनोर्न भेदो जड एव च ।बुद्धीन्द्रियगणोऽप्येवं जड एवेति दृश्यते ॥१९॥प्रेर्यते मनसा यस्माद्यष्ट्येव भुवि लोष्टकः ।मनश्चैव जडं मन्ये संकल्पात्मकशक्ति यत् ॥२०॥क्षेपणैरिव पाषाणः प्रेर्यते बुद्धिनिश्चयैः ।बुद्धिर्निश्चयरूपैवं जडा सत्तैव निश्चयः ॥२१॥खातेनेव सरिन्नूनं साऽहंकारेण वाह्यते ।अहंकारोऽपि निःसारो जड एव शवात्मकः ॥२२॥जीवेन जन्यते यक्षो बालेनेव भ्रमात्मकः ।जीवश्च चेतनाकाशो वातात्मा हृदये स्थितः ॥२३॥सुकुमारोऽन्तरन्येन केनापि परिजीवति ।अहो नु ज्ञातमेतेन चेत्योल्लेखकलङ्किना ॥२४॥जीवो जीवति जीर्णेन चिद्रूपेणात्मरूपिणा ।चेत्यभ्रमवता जीवश्चिद्रूपेणैव जीवति ॥२५॥आमोदः पवनेनेव खातेनेव सरिद्रयः ।असत्यजडचेत्यांशचयनाच्चिद्वपुर्जडम् ॥२६॥महाजलगतो ह्यग्निरिव रूपं स्वमुज्झति ।सद्वासद्वा यदाभाति चित्समाधौ सति स्वतः ॥२७॥स्वरूपमलमुत्सृज्य तदेव भवति क्षणात् ।एवं चिद्रूपमप्येतच्चेत्योन्मुखतया स्वयम् ॥२८॥जडं शून्यमसत्कल्पं चैतन्येन प्रबोध्यते ।इति संचिन्त्य चूडाला केनैषा चित्प्रचेतनी ॥२९॥इति संचिन्तयामास चिरायेत्थं व्यबुध्यत ।अहो नु चिरकालेन ज्ञातं ज्ञेयमनामयम् ॥३०॥यद्वै विज्ञेयतां कृत्वा न कश्चिद्धीयते पुनः ।एते हि चिद्विलासान्ता मनोबुद्धीन्द्रियादयः ॥३१॥असन्तः सर्व एवाहो द्वितीयेन्दुपदस्थिताः ।महाचिदेकैवास्तीह महासत्तेति योच्यते ॥३२॥निष्कलङ्का समा शुद्धा निरहंकाररूपिणी ।शुद्धसंवेदनाकारा शिवं सन्मात्रमच्युतम् ॥३३॥सकृद्विभाता विमला नित्योदयवती सदा ।सा ब्रह्मपरमात्मादिनामभिः परिगीयते ॥३४॥चेत्यचेतनचित्तादि नास्या भिन्नं न मानतः ।तयैषा चैत्यते चिच्छ्रीः सैषाद्या चिदिति स्मृता ॥३५॥अचेत्यं यदिदं चित्त्वं तत्तस्या रूपमक्षतम् ।मनोबुद्धीन्द्रियाद्यर्थरूपैः सैव विजृम्भते ॥३६॥तरङ्गकणकल्लोलकलनेयं चिदात्मनि ।जगद्रूपपदार्थानां सत्ता स्फुरति मातरि ॥३७॥यदिदं तत्परं रूपं तस्याः खलु महाचितेः ।शुद्धचिन्मणिवत्सा हि सेयं समसमोदिता ॥३८॥अनन्ययैव या शत्तया जगज्जृम्भिकया स्थिता ।सत्ता मायातिरेकेण नान्या संभवतीह हि ॥३९॥विचित्रतेव भाण्डानां ननु हेमतया यथा ।सा तथोदेति तद्रूपमात्मानं चेतति स्वयम् ॥४०॥स्वचित्तेन द्रवत्वेन तरङ्गादित्वमम्बुषु ।महाचितौ जगच्चित्तादुदेतीवानुदेत्यपि ॥४१॥तदात्मैव यथा यातो रूपवान् जलधौ द्रवात् ।एवं चिन्मात्रमेवाहमनहंभावमाततम् ॥४२॥न तस्य जन्ममरणे न तस्य सदसद्गती ।न नाशः संभवत्यस्य चिन्मात्रनभसः क्वचित् ॥४३॥अच्छेद्योऽयमदाह्योऽयं चिदादित्योऽतिनिर्मलः ।आहो नु चिरकालेन शान्तास्मि परिनिर्वृता ॥४४॥निर्वामि भ्रमनिर्मुक्तमासे निर्मन्दराब्धिवत् ।असदाभासमत्यच्छमनन्तमजमच्युतम् ॥४५॥आत्माकाशमनाबाधममलं परमं चिरम् ।अनन्तमिदमाकाशं फलौघाश्चाफलादिकाः ॥४६॥सुरासुरयुतं विश्वमेतन्मयमकृत्रिमम् ।पुंस्त्वकर्ममयी सेना सर्वं मृन्मात्रकं यथा ॥४७॥द्रष्टृदृश्यमयी सत्ता चिन्मात्रैक्यमयी तथा ।इदमैक्यमिदं द्वित्वमहं नाहमितीति च ॥४८॥क इव भ्रमसंमोहः कथं कस्य कुतः क्व वा ।स्वमनन्तमनायासमुपशान्तास्मि संस्थिता ॥४९॥निर्वाणपरिनिर्वाणा गतमासे गतज्वरम् ।अचेतनं चेतन वा योऽयमाभाति चेतति ॥५०॥भासमानात्म तद्रूपं खं महाचिति संस्थितम् ।नेदं नाहं न चान्यच्च न भावाभावसंभवः ।शान्तं सर्वं निरालम्बं केवलं संस्थितं परम् ॥५१॥इत्थंविचारणपरा परमप्रबोधा-द्बुद्ध्वा यथास्थितमिदं परमात्मतत्त्वम् ।संशान्तरागभयमोहतमोविलासाशान्ता बभूव शरदम्बरलेखिकेव ॥५२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पूर्वार्धे चूडालाप्रबोधो नामाष्टसप्ततितमः सर्गः ॥७८॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP