संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ९३ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ९३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथोत्थाय ददाहासौ शुष्कं तत्तृणमन्दिरम् ।अज्ञेन स्वेन मनसा वृथा संकल्पकल्पितम् ॥१॥शिष्टं यत्किंचिदभवत्तत्सर्वं स शिखिध्वजः ।असंरब्धमना मौनी क्रमेण समया धिया ॥२॥ददाह च स चिक्षेप तत्याज च बभञ्ज वा ।भाण्डजातं स्ववसनं भोजनाद्यपि तुष्टवत् ॥३॥स बभूवाश्रमस्तस्य दृष्टनष्टजनस्थितिः ।वीरभद्रबलध्वस्तदक्षयज्ञाश्रमोपमः ॥४॥आश्रमात्ते मृगगणास्त्यक्तरोमन्थमुद्ययुः ।साग्निदाहात्पुरवराद्भीतभीतजना इव ॥५॥भाण्डजातं दहत्यग्नौ सहशुष्केन्धनेन तत् ।केवलाकृतिरस्नेहस्तुष्टिमानाह भूपतिः ॥६॥शिखिध्वज उवाच ।वासनां तत्र संत्यज्य सर्वत्यागी स्थितो ह्यहम् ।अहो नु चिरकालेन देवपुत्र प्रबोधितः ॥७॥संपन्नः केवलः शुद्धः सुखेनोद्बोधवानहम् ।किं नाम किल वस्त्वेतद्भवेत्सांकल्पिकक्रमम् ॥८॥यावद्यावत्प्रहीयन्ते विविधा बन्धहेतवः ।तावत्तावत्समायाति परमां निर्वृतिं मनः ॥९॥शाम्यामि परिनिर्वामि सुखितोऽस्मि जयाम्यहम् ।विबन्धाः प्रक्षयं याताः सर्वत्यागो मया कृतः ॥१०॥दिगम्बरो दिक्सदनो दिक्समोऽयमहं स्थितः ।देवपुत्र महात्यागात्किमन्यदवशिष्यते ॥११॥कुम्भ उवाच ।सर्वमेव न संत्यक्तं त्वया राजन् शिखिध्वज ।सर्वत्यागपरानन्दे मा मुधाभिनयं कुरु ॥१२॥तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।यं परित्यज्य निःशेषं परामायास्यशोकताम् ॥१३॥श्रीवसिष्ठ उवाच ।इति श्रुतवता तेन किंचित्संचिन्त्य भूभृता ।इदमुक्तं महाबाहो राम राजीवलोचन ॥१४॥शिखिध्वज उवाच ।इन्द्रियव्यालसंघातो रक्तमांसमयाकृतिः ।शिष्यते सर्वसंत्यागे देहो मे देवतात्मज ॥१५॥तदुत्थाय पुनर्देहं भृगुपातादविघ्नतः ।विनाशात्मकतां नीत्वा सर्वत्यागी भवाम्यहम् ॥१६॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा देहमग्रस्थे श्वभ्रे त्यक्तुमसौ जवात् ।करोति यावदुत्थानं तावत्कुम्भोऽप्युवाच ह ॥१७॥कुम्भ उवाच ।राजन्किमिति देहं त्वं निरागस्कं महावटे ।त्यजस्यज्ञो हि वृषभः कुपितो हन्ति तर्णकम् ॥१८॥जडो वराको मूकात्मा तपस्वी देहको ह्ययम् ।न कश्चन तवैतस्मिन्मा मुधैव तनुं त्यज ॥१९॥आत्मन्येवैष मूकात्मा ध्यानवानवतिष्ठते ।संचाल्यते परेणैव तरङ्गेणैव काष्ठकम् ॥२०॥क्षोभयत्यन्य एवैनं निग्रहार्हो मुहुर्बलात् ।तपस्विनं यथैकान्तं संस्थितं मत्ततस्करः ॥२१॥सुखदुःखादिभूत्या हि नापराधि शरीरकम् ।नात्मनः फलवानात्मस्पन्दे वृक्षोऽपराधवान् ॥२२॥वातः फलशिरःपुष्पपातनं कुरुते स्फुरन् ।तरुणा साधुना धीरापराद्धं किमात्मनः ॥२३॥त्यक्तेनापि शरीरेण किल तामरसेक्षण ।सर्वत्यागो न ते याति निष्पत्तिं विषमो हि सः ॥२४॥भृगौ केवलमेतत्त्वं निरागस्कं शरीरकम् ।मुधा क्षिपसि नो देहत्यागे तत्त्यागिता भवेत् ॥२५॥येनायं क्षोभ्यते देहो मत्तेभेनेव पादपः ।तत्संत्यजसि चेत्पापं तन्महात्यागवान्भवान् ॥२६॥तस्मिंस्त्यक्ते भवेत्त्यक्तं सर्वं देहादि भूपते ।नो चेन्निमग्नमप्येतद्भूयोभूयः प्ररोहति ॥२७॥शिखिध्वज उवाच ।केनायं चाल्यते देहः किं बीजं जन्मकर्मणाम् ।कस्मिंस्त्यक्ते परित्यक्तं सर्वं भवति सुन्दर ॥२८॥कुम्भ उवाच ।साधो न देहत्यागेन न राज्यत्यजनेन च ।न चोटजादिशोषेण सर्वत्यागो भवेन्नृप ॥२९॥यत्सर्वं सर्वतो यच्च तस्मिन्सर्वैककारणे ।सर्वस्मिन्संपरित्यक्ते सर्वत्यागः कृतो भवेत् ॥३०॥शिखिध्वज उवाच ।सर्वं सर्वगतं सर्वहेयं त्याज्यं च सर्वदा ।सर्वं किमुच्यते ब्रूहि सर्वतत्त्वविदां वर ॥३१॥कुम्भ उवाच ।साधो सर्वगताकारं जीवप्राणादिनामकम् ।न जडं नाजडं भ्रान्तं चित्तं सर्वमिति स्मृतम् ॥३२॥चित्तमेव भ्रमं विद्धि विद्धि चेतो नरं नृप ।चित्तं विद्धि जगज्जालं चित्तं सर्वमिति स्मृतम् ॥३३॥राज्यादेरथ देहादेराश्रमादेर्महीपते ।सर्वस्यैव मनो बीजं तरुबीजं तरोरिव ॥३४॥सर्वस्य बीजे संत्यक्ते सर्वं त्यक्तं भवत्यलम् ।संभवासंभवाद्भूप सर्वत्यागो भवेदिति ॥३५॥सर्वधर्माद्यधर्मा वा राज्यादि विपिनादि वा ।सचित्तस्य परं दुःखं निश्चित्तस्य परं सुखम् ॥३६॥इदं विवर्तते सर्वं चित्तमेव जगत्तया ।देहाद्याकारजालेन बीजं वृक्षतया यथा ॥३७॥पादपः पवनेनेव भूकम्पेनेव पर्वतः ।भस्त्रा भस्त्राभरेणायं देहश्चित्तेन चाल्यते ॥३८॥सर्वभूतोपभोगानां जरामरणजन्मनाम् ।महामुनीनां सुदृढं चित्तं विद्धि समुद्गकम् ॥३९॥इदं प्रवर्तते सर्वं चित्तमेव जगत्तया ।देहाद्याकारजालेन चित्तं जीवो मनोमयम् ॥४०॥बुद्धिर्महदहंकारः प्राणश्चेत्यादिभिर्मुने ।क्रियानुरूपैरभिधाव्यापारैः शान्तमुच्यते ॥४१॥चित्तं सर्वमिति प्राहुस्तस्मिंस्त्यक्ते महीपते ।सर्वाधिव्याधिसीमान्तः सर्वत्यागः कृतो भवेत् ॥४२॥चित्तत्यागं विदुः सर्वत्यागं त्यागविदां वर ।तस्मिन्सिद्धे महाबाहो सत्यं किं नानुभूयते ॥४३॥चित्ते त्यक्ते लयं याति द्वैतमैक्यं च सर्वतः ।शिष्यते परमं शान्तमच्छमेकमनामयम् ॥४४॥अस्याश्चित्तं विदुः क्षेत्रं संसृतेः सस्यसंततेः ।क्षेत्रे त्वक्षेत्रतां याते शालेः क इव संभवः ॥४५॥चित्तमेव विचित्रेहं भावाभावविलासिना ।विवर्ततेऽर्थभावेन जलमूर्मितया यथा ॥४६॥चित्तोत्सादनरूपेण सर्वत्यागेन भूपते ।सर्वमासाद्यते सम्यक् साम्राज्येनेव सर्वदा ॥४७॥सर्वत्यागस्य विषयो यथैवान्योऽस्ति ते तथा ।त्वमप्यन्यस्य भवसि त्यागिन्गृह्णासि वै नृप ॥४८॥सूत्रं मुक्ताफलेनेव जगज्जालं त्रिकालकम् ।सर्वमन्तः कृतं तेन येन सर्वं समुज्झितम् ॥४९॥येन सर्वं परित्यक्तं तस्मिञ्छून्येऽपि संस्थितम् ।जगत्सर्वं त्रिकालस्थं तन्तौ मुक्तावली यथा ॥५०॥अस्नेहेनेव दीपेन येन सर्वं समुज्झितम् ।सस्नेहेनेव दीपेन तेन सर्वं प्रकाशितम् ॥५१॥स्थितं सर्वं परित्यज्य यः शेतेऽस्नेहदीपवत् ।स राजते प्रकाशात्मा समः सस्नेहदीपवत् ॥५२॥समस्तवस्तुनिष्कासे यथा त्वमवशिष्यसे ।सर्वत्यागे कृते तादृग्विज्ञानमवशिष्यते ॥५३॥समस्तवस्तुदाहेऽपि यथा त्वं नेतरो नृप ।सर्वत्यागत एवाङ्ग तथा निर्वाणमुच्यते ॥५४॥सर्वत्यागो हि शून्यात्मा आश्रयः सर्वसंविदाम् ।अनन्तानामुदाराणां खमिवेदं दिवौकसाम् ॥५५॥सर्वत्यागरसापाने जरामरणभीतयः ।न काश्चन प्रबाधन्ते खस्येव व्योमलेखिकाः ॥५६॥सर्वत्यागो महत्त्वस्य कारणं निर्मलद्युतेः ।सर्वं त्यजसि चेद्यस्माद्बुद्धिस्थैर्यं बृहत्तमम् ॥५७॥सर्वत्यागः परानन्दो दुःखमन्यत्सुदारुणम् ।इत्योमित्युररीकृत्य यदिच्छसि तदाचर ॥५८॥सर्वं त्यजति यस्तस्य सर्वमेवोपतिष्ठते ।यथैवाम्बु विशत्यग्नौ तथैवायाति वारिधौ ॥५९॥सर्वत्यागान्तरेवास्ति ज्ञानमात्मप्रसादकम् ।यच्छून्यं किल भाण्डस्य तत्र रत्नादि तिष्ठति ॥६०॥सर्वत्यागवशादेव हृतकाले कलावपि ।शाक्येन विगताशङ्कं मुनिना मेरुवत्स्थितम् ॥६१॥सर्वत्यागो महाराज सर्वसंपत्समाश्रयः ।न गृह्णाति हि यत्किंचित्सर्वं तस्मै प्रदीयते ॥६२॥कृत्वा सर्वपरित्यागं शान्तः स्वस्थो वियत्समः ।सौम्यो भवसि यद्रूपस्तद्रूपो भव भूपते ॥६३॥सर्वं परित्यज्य महास्वभावत्यजस्यथो येन च तद्विहाय ।त्यागाभिमानं च मलं विमुच्यविमुक्तरूपो भव भूमिपाल ॥६४॥इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० शिखिध्वजावबोधनं नाम त्रिनवतितमः सर्गः ॥९३॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP