संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ३३ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ३३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।चन्द्रार्धशेखरधर चित्तत्त्वस्य महात्मनः ।अनन्तस्यैकरूपस्य द्वित्वं कथमुपागतम् ॥१॥कथं च तन्महादेव रूढं पर्यायसंकुलम् ।भवेद्दुःखोपघाताय प्रज्ञया विनिवारितम् ॥२॥ईश्वर उवाच ।सर्वशक्ति हि तद्ब्रह्म सदेकं विद्यते यदा ।तदा निर्मूल एवायं द्वित्वैकत्वकलोदयः ॥३॥सति द्वित्वे किलैकं स्यात्सत्येकत्वे द्विरूपता ।कले द्वे अपि चिद्रूपे चिद्रूपत्वात्तदप्यसत् ॥४॥एकाभावादभावोऽत्र एकत्वद्वित्वयोर्द्वयोः ।एकं विना न द्वितीयं न द्वितीयं विनैकता ॥५॥कार्यकारणयोरेकसारत्वादेकरूपता ।फलान्तस्यापि बीजादेर्विकारादिह कल्पना ॥६॥चित्त्वं चेत्यविकल्पेन स्वयं स्फुरति तन्मयम् ।विकारादि तदेवान्तस्तत्सारत्वान्न भिद्यते ॥७॥विकारादिविकल्पोऽयं तत उत्थाय वस्तुषु ।याति सार्थकतां नानाकार्यकारणतादिभिः ॥८॥तरङ्गाः सलिले येऽपि तोये शैलस्य ते समाः ।शशश्रृङ्गसमः सोऽपि यस्य सत्यः शशाङ्कुरः ॥९॥वस्तुबोधोऽत्र संधत्ते तत्रालं वाग्विकल्पनैः ।व्यवच्छेदादि दुश्छेद्यं वचोवाच्यात्किल द्विज ॥१०॥ब्रह्मणः सर्वशक्तित्वं तत्त्वतो न विभिद्यते ।तरङ्गकणकल्लोलजलौघ इव वारिणः ॥११॥पुष्पपल्लवपत्रादि लताया नेतरद्यथा ।द्वित्वैकत्वजगत्त्वादि त्वन्त्वाहन्त्वं तथा चितेः ॥१२॥देशकालविकारादिः कृतो भेदश्चितस्तु यः ।तच्चिदेतदसत्प्रोक्तं न प्रश्नोऽत्र तवोचितः ॥१३॥देशकालक्रियासत्तानियत्याद्याश्च शक्तयः ।चिदात्मिका एव चितः सत्त्वात्संपतिताः स्वतः ॥१४॥चित्तत्त्वं चित्तचेत्येहं चिद्ब्रह्माद्यभिधा स्मृता ।यथा वीच्याद्यभिधार्हं स्थितमम्बुतरङ्गकम् ॥१५॥असंभवत्तरङ्गस्य चिद्विलासमहाम्बुधेः ।तरङ्गितत्वमिव यत्तत्तावच्चेत्यसङ्गिता ॥१६॥तदेतत्परमं ब्रह्म सत्येश्वरशिवादिभिः ।शून्यैकपरमात्मादिनामभिः परिगीयते ॥१७॥एवं रूपपदातीतं यद्रूपं परमात्मनः ।यत्तु नामाहममलं विषयो न गिरां च तत् ॥१८॥यदिदं दृश्यते तस्यास्तल्लताया महाचितेः ।फलपल्लवपुष्पादि न भिन्नं तन्मयं यतः ॥१९॥महाविद्योपनयना चिद्भवत्यभिधा सती ।सा जीवत्वेन बाह्यत्वं तदा द्वीन्द्विव पश्यति ॥२०॥स्वयमन्यैवमस्मीति भावयित्वा स्वभावतः ।अन्यतामिव संयाति स्वविकल्पात्मिकां स्वतः ॥२१॥अकलङ्केन रूपेण रूपं यत्सकलङ्कवत् ।संसारसरितं प्राप्य चेतनेनैव चेतति ॥२२॥चिद्वपुः स्वयमेतेन ह्येकतामेति जीवताम् ।चित्तत्त्वस्यावभासेन जीवो जीवति तन्मयः ॥२३॥आतिवाहिकदेहोऽपि जीवतां समुपागतः ।भावनापञ्चकं भूत्वा द्रव्यमस्मीति वेत्त्यलम् ॥२४॥तद्द्रव्यं प्राणिना भुक्तमाशु गच्छति वीर्यताम् ।ततोऽहं प्राणवाञ्जातो वेत्तीत्यनुभवात्मकम् ॥२५॥अहंतादिक्रमेणाशु पञ्चकानुभवभ्रमात् ।स्थावरं जंगमं सर्वं वेत्ति तत्तद्भवत्यलम् ॥२६॥काकतालीययोगेन दृढाभ्यासक्षयेण च ।वासनान्तरसंश्लेषात्सूक्ष्ममाकारमुज्झति ॥२७॥द्वित्वस्वसंविदा द्वित्वमेकस्यैव प्रवर्तते ।पुंसो वेतालसंकल्पाद्वेताल इव भासुरः ॥२८॥अद्वित्ववेदनाद्वित्वमात्मनोऽपि निवर्तते ।न करोमीति संकल्पात्पुरुषस्येव कर्तृता ॥२९॥द्वित्वसंकल्पतो द्वित्वमेकस्यैव प्रवर्तते ।अद्वित्वसंविदा द्वित्वमनेकस्यापि नश्यति ॥३०॥परमात्मतया द्वित्वं न किलात्मनि विद्यते ।अविकारादिमत्त्वेन सर्वगत्वेन सर्वदा ॥३१॥यत्स्वसंकल्परचितमसंकल्पक्षयं हि तत् ।यथा मुने मनोराज्यं गन्धर्वनगरं यथा ॥३२॥तथा संकल्पने क्लेशो न संकल्पविनाशने ।संकल्पयक्षो गन्धर्वपुर्याः सृष्टौ न तु क्षये ॥३३॥पुष्टसंकल्पमात्रेण यदिदं दुःखमागतम् ।तदसंकल्पमात्रेण क्षयि कात्र कदर्थना ॥३४॥यत्किंचिदपि संकल्प्य नरो दुःखे निमज्जति ।न किंचिदपि संकल्प्य सुखमव्ययमश्नुते ॥३५॥संकल्पव्यालनिर्मुक्ता न यदा तव चेतना ।न तदा नन्दनोद्याने त्वमुच्चैः परिराजसे ॥३६॥स्वविवेकानिलैः कृत्वा संकल्पजलदक्षयम् ।परां निर्मलतामेहि शरदीव नभोन्तरम् ॥३७॥संकल्पसरितं मत्तां मणिमन्त्रेण शोषय ।तत्रोह्यमानमात्मानं समाश्वास्य भवामनाः ॥३८॥संकल्पानिलनिर्धूतं भ्रान्तं पर्णतृणांशवत् ।भूताकाशे चिदात्मानमवलम्ब्य विलोकय ॥३९॥स्वसंकल्पनकालुष्यं विनिवार्यात्मनात्मनः ।परं प्रसादमासाद्य परमानन्दवान्भव ॥४०॥सर्वशक्तिमयो ह्यात्मा यद्यथा भावयत्यलम् ।तत्तथा पश्यति तदा स्वसंकल्पविजृम्भितम् ॥४१॥संकल्पमात्रमेवेदं जगन्मिथ्यात्वमुत्थितम् ।असंकल्पनमात्रेण ब्रह्मन्क्वापि विलीयते ॥४२॥संकल्पवातवलितं जन्मजालकदम्बकम् ।असंकल्पानिलस्पर्शाद्विश्राम्यति परे पदे ॥४३॥तृष्णाकरञ्जलतिकामिमां रूढिमुपागताम् ।संकल्पमूलोद्धरणात्परिशोषवतीं कुरु ॥४४॥प्रतिभाससमुत्थानं प्रतिभासपरिक्षयम् ।यथा गन्धर्वनगरं तथा संसृतिविभ्रमः ॥४५॥प्रभुरस्मीति विस्मृत्य तावच्छोचति भूमिपः ।भूमिपोऽस्मीति संजाता यावन्नास्य हृदि स्मृतिः ॥४६॥नास्य तज्जातया ब्रह्मन्प्राक्स्मृतिर्वर्तमानया ।शरदेवोपगतया प्रावृड् जाड्यापवारिणी ॥४७॥घनप्रवाहयाऽकस्माच्चित्तेहा सैव वर्धते ।य एवोच्चैःस्वरस्तन्त्र्याः स एवाक्रामति श्रुतिम् ॥४८॥अहमेकोऽहमात्मास्मीत्येकां भावय भावनाम् ।तया भावनया युक्तः स एव त्वं भवस्यलम् ॥४९॥एवं ह्यसंभवदिदं त्वविरागभास्य-त्तत्सत्त्वमुत्तमपदं परमेकदेवः ।पूजासु पूजकसुपूजनपूज्यरूपंकिंचिन्नकिंचिदिव चित्तपदैकमूर्तिः ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० द्वैतैक्यप्रतिपादनं नाम त्रयस्त्रिंशः सर्गः ॥३३॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP