संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ८६ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ८६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८६ Translation - भाषांतर चूडालोवाच । आत्मस्वभाववशतो जातं जगदिदं महत् ।स्थितिं वासनयाभ्येत्य धर्माधर्मवशे स्थितम् ॥१॥वासनाह्रासमानीय धर्माधर्मैर्न गृह्यते ।ततो न जायते जन्तुरिति नो दर्शनं मुने ॥२॥शिखिध्वज उवाच ।अत्युदारं महार्थं च वक्षि त्वं वदतां वर ।अनुभूतिमुपारूढं गूढं च परमार्थवत् ॥३॥त्वद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर ।पीतेनेवामृतेनाहमन्तर्यातोऽस्मि शीतताम् ॥४॥तत्समासेन तां तावदात्मोत्पत्तिं वदाशु मे ।ततः श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव ॥५॥तेन पद्मजपुत्रेण मुनिना नारदेन तत् ।क्व कृतं वीर्यमार्येण कथयाद्य यथास्थितम् ॥६॥चूडालोवाच ।ततो निबध्नता तेन मनोमत्तमतङ्गजम् ।विवेकविपुलालाने शुद्धया धीवरत्रया ॥७॥तद्वीर्यं कल्पकालाग्निगलितेन्दुद्रवोपमम् ।रसानां पारदादीनां दिव्यानामनुरञ्जनम् ॥८॥मुनिना पार्श्वगे कुम्भे स्फाटिके विलसद्रुचौ ।अद्भुते विद्रुताकारं चन्द्रे चन्द्र इवार्पितम् ॥९॥तत्र शैले बृहत्कान्ते स्थूलः पार्श्वेषु चाभितः ।गम्भीरकुक्षिः सुदृढश्चोपलाहननक्षमः ॥१०॥संकल्पितेन क्षीरेण स कुम्भस्तेन पूरितः ।अमृतापूरभिन्नेन विधिनेवामृतार्णवः ॥११॥तत्र मासाद्गतो वृद्धिं मुनिमन्दाहुतिक्रमः ।अमृताब्धौ शुभो गर्भ इन्दोरिन्दुरिवानुजः ॥१२॥इन्दुं मास इवापूर्णं कालेन सुषुवे घटः ।गर्भं कमलपत्राक्षं प्रसूनमिव माधवः ॥१३॥परिपूर्णसमस्ताङ्गः कुम्भाद्गर्भो विनिर्ययौ ।इन्दुः सूक्ष्मादिवाम्भोधेरपरः क्षयवर्जितः ॥१४॥दिनैः कतिपयैरेव वृद्धिमभ्याजगाम सः ।अप्रमेयाङ्गसौन्दर्यः शुक्लपक्षे शशी यथा ॥१५॥सर्वसंस्कारसंपन्ने स तस्मिन्नारदो मुनिः ।भाण्डाद्भाण्ड इवाशेषं विद्याधनमयोऽजयत् ॥१६॥दिनैः कतिपयैरेव विज्ञाताशेषवाङ्मयम् ।चकारैनं मुनिवरः प्रतिबिम्बमिवात्मनः ॥१७॥तेनाराजत पुत्रेण मुनिना मुनिनायकः ।रत्नाद्रौ प्रतिबिम्बेन संध्योदित इवोडुराट् ॥१८॥अथैनं पुत्रमादाय ब्रह्मलोकं स नारदः ।जगामाथ स्वपितरं ब्रह्माणं चाभ्यवादयत् ॥१९॥कृताभिवन्दनं ब्रह्मा पौत्रमादाय तं तदा ।अभिवादितवेदादिं स्वयमङ्के न्यवेशयत् ॥२०॥अथाशीर्वादमात्रेण सर्वज्ञं ज्ञानपारगम् ।पौत्रं तं कुम्भनामानं चकार कमलोद्भवः ॥२१॥साधो सोऽहमयं कुम्भः पौत्रोऽहं पद्मजन्मनः ।पुत्रोऽहं नारदमुनेः कुम्भनामास्मि कुम्भजः ॥२२॥निवसाम्यब्जजपुरे पित्रा सह यथासुखम् ।चत्वारः सुहृदो वेदा मम लीलाविलासिनः ॥२३॥मातृष्वसा मे गायत्री मम माता सरस्वती ।ब्रह्मलोके मम गृहं पौत्रस्तत्रास्मि सुस्थितः ॥२४॥यथाकाममशेषेण जगन्ति विहराम्यहम् ।लीलया परिपूर्णत्वान्न तु कार्येण केनचित् ॥२५॥धरां पतति मे पादौ पततो न महीतले ।रजः स्पृशन्ति नाङ्गानि ग्लानिं नायाति मे वपुः ॥२६॥अद्याकाशपथा गच्छन्दृष्टवांस्त्वामहं पुरः ।इह तेनागतोऽस्म्यङ्ग सर्वं कथितवानिति ॥२७॥एषोऽहमित्यखिलमेव यथानुभूतंते वर्णितं ननु मया वनवासतज्ज्ञ ।सन्तो हि संकथनमार्यजनोत्तमेषुनिर्मान्त्यलं सुभगसंव्यवहारदक्षाः ॥२८॥श्रीवाल्मीकिरुवाच ।इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरैश्च सहाजगाम ॥२९॥इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० निर्वाणप्रकरणे पू० चूडालोपाख्याने कुम्भजननकथनं नाम षडशीतितमः सर्गः ॥८६॥ ॥अष्टादशो दिवसः॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP