संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ८७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ८७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८७ Translation - भाषांतर शिखिध्वज उवाच ।सर्गे स्फुरद्भिर्मत्पुण्यैर्मन्ये संप्रेषितो भवान् ।अलक्ष्यैः संभृतैरद्रौ बृहद्वातैरिवाम्बुदः ॥१॥अद्य तिष्ठाम्यहं साधो धन्यानां धुरि धर्मतः ।अमृतस्यन्दिवचसा यत्त्वयास्मि समागतः ॥२॥न केचन तथा भावाश्चेतः शीतलयन्ति मे ।राज्यलाभादयोऽप्येते यथा साधुसमागमः ॥३॥निरर्गलरसो यत्र सामान्येन विजृम्भते ।मुक्तरागादिमननं तत्कल्पनसुखावहम् ॥४॥श्रीवसिष्ठ उवाच ।एवंवादिनि सैवास्य वाक्यमाक्षिप्य भूपतेः ।भूयः प्रोवाच चूडाला मुनिदारकरूपिणी ॥५॥चूडालोवाच ।आस्तामेषा कथा तावत्सर्वं ते वर्णितं मया ।त्वं मे कथय हे साधो कस्त्वमद्रौ करोषि किम् ॥६॥कियत्पर्यवसानेयं भवतो वनवासिता ।सत्यं कार्यं च नोऽसत्यं वक्तुं जानन्ति तापसाः ॥७॥शिखिध्वज उवाच ।देवपुत्रोऽसि जानासि सर्वमेव यथास्थितम् ।लोकवृत्तान्ततज्ज्ञोऽसि किमन्यत्कथयाम्यहम् ॥८॥संसारभयभीतत्वान्निवसामि वनान्तरे ।जानतोपि हि मामार्य कथयाम्येव ते मनाक् ॥९॥शिखिध्वजोऽहं भूपालस्त्यक्त्वा राज्यमिहास्थितः ।भृशं भीतोस्मि तत्त्वज्ञ संसृतौ जन्मनः पुनः ॥१०॥सुखं पुनः पुनर्दुःखं पुनर्मरणजन्मनी ।भवतस्तेन तप्येऽहं तत्त्वज्ञ वनवीथिषु ॥११॥भ्रमन्नपि दिगन्तेषु चरन्नपि परंतपः ।नासादयामि विश्रान्तिमेकां निधिमिवाधनः ॥१२॥अयत्नोऽप्यफलोऽप्येको ह्यपूर्णोऽप्यस्तसंगतिः ।शुष्याम्यत्र वने साधो घुणक्षुण्ण इव द्रुमः ॥१३॥इमामखण्डितां सम्यक् क्रियां संपादयन्नपि ।दुःखाद्गच्छामि दुःखौघममृतं मे विषं स्थितम् ॥१४॥चूडालोवाच ।पितामहमहं पूर्वं कदाचित्पृष्टवानिदम् ।यत्क्रियाज्ञानयोरेकं श्रेयस्तद्ब्रूहि मे प्रभो ॥१५॥ब्रह्मोवाच ।ज्ञानं हि परमं श्रेयः कैवल्यं तेन वेत्त्यलम् ।कालातिवाहनायैव विनोदायोदिता क्रिया ॥१६॥अलब्धज्ञानदृष्टीनां क्रिया पुत्रपरायणम् ।यस्य नास्त्यम्बरं पट्टं कम्बलं किं त्यजत्यसौ ॥१७॥वासनामात्रसारत्वादज्ञस्य सफलाः क्रियाः ।सर्वा एवाफला ज्ञस्य वासनामात्रसंक्षयात् ॥१८॥सर्वा हि वासनाभावे प्रयान्त्यफलतां क्रियाः ।अशुभाः फलवन्त्योपि सेकाभावे लता इव ॥१९॥ऋत्वन्तरे यथा याति विलयं पूर्वमार्तवम् ।तथैव वासनानाशे नाशमेति क्रियाफलम् ॥२०॥न स्वभावेन फलति यथा शरलता फलम् ।क्रिया निर्वासना पुत्र फलं फलति नो तथा ॥२१॥सयक्षवासनो बालो यक्षं पश्यति नान्यथा ।सदुःखवासनो मूढो दुःखं पश्यति नान्यथा ॥२२॥आकारभासुरात्युच्चैर्न ददाति फलं क्रिया ।शुभाशुभा वा तज्ज्ञस्य फुल्ला शरलता यथा ॥२३॥वासना चेह नास्त्येव साहंकारादिरूपिणी ।असत्यैवोदिता मौर्ख्यान्मरुभूमाविवाम्बुधिः ॥२४॥यस्य मौर्ख्यं क्षयं यातं सर्वं ब्रह्मेति भावनात् ।नोदेति वासना तस्य प्राज्ञस्येवाम्बुधिर्मरौ ॥२५॥वासनामात्रसंत्यागाज्जरामरणवर्जितम् ।पदं भवति जीवोऽन्तर्भूयो जन्मविवर्जितम् ॥२६॥सवासनं मनो ज्ञेयं ज्ञानं निर्वासनं मनः ।ज्ञानेन ज्ञेयमभ्येत्य पुनर्जीवो न जायते ॥२७॥चूडालोवाच ।ज्ञानमेव परं श्रेय इति ब्रह्मादयोऽपि ते ।प्राहुर्महान्तो राजर्षे त्वं किमज्ञानवान्स्थितः ॥२८॥इतः कमण्डलुरितो दण्डकाष्ठमितो बृसी ।इत्यनर्थविलासेऽस्मिन्रमसे किं महीपते ॥२९॥कोऽहं कथमिदं जातं कथं शाम्यति चेति भोः ।राजन्नावेक्षसे कस्मात्किमज्ञ इव तिष्ठसि ॥३०॥कथं बन्धः कथं मोक्ष इति प्रश्रानुदाहरन् ।पारावारविदां पादान्कस्माद्राजन्न सेवसे ॥३१॥दुःस्पन्दसंविदा शैलकोटरे क्रिययानया ।जीवितं क्षिपयन्किं त्वं शिलाकीटवदास्थितः ॥३२॥साधूनां समदृष्टीनां परिप्रश्नेन सेवया ।संगमेन च सा युक्तिर्लभ्यते मुच्यते यया ॥३३॥साधुनैव समं ग्रासं भुञ्जानो वनकोटरे ।तिष्ठावष्टब्धदुश्चेष्टो धराविवरकीटवत् ॥३४॥श्रीवसिष्ठ उवाच ।कान्तया देवरूपिण्या तयैवं प्रतिबोधितः ।अश्रुपूर्णमुखो वाक्यं शिखिध्वज उवाच ह ॥३५॥शिखिध्वज उवाच ।अहो नु बोधितोऽस्म्यद्य चिरात्सुरसुत त्वया ।मौर्ख्यादार्यसमासङ्गं मुक्त्वाहमवसं वने ॥३६॥अहो नु मे क्षयं यातं मन्ये पापमशेषतः ।यत्त्वमेव समागत्य संप्रबोधयसीह माम् ॥३७॥गुरुस्त्वं मे पिता त्वं मे मित्रं त्वं मे वरानन ।शिष्यो नमस्करोम्यद्य पादौ तव कृपां कुरु ॥३८॥यदुदारतमं वेत्सि यस्मिन् ज्ञाते न शोच्यते ।भवामि निर्वृतो येन तद्ब्रह्मोपदिशाशु मे ॥३९॥घटज्ञानादयो ज्ञाने विभागाः सन्त्यनेकशः ।ज्ञानानां परमं ज्ञानं कतरत्तारकं भवेत् ॥४०॥चूडालोवाच ।यद्युपादेयवाक्योऽहं राजर्षे तद्वदामि ते ।यथा ज्ञानमिदं किंचिन्न वक्ष्ये स्थाणुकाकवत् ॥४१॥अनुपादेयवाक्यस्य वक्तुः पृष्टस्य लीलया ।व्रजन्त्यफलतां वाचस्तमसीवाक्षसंविदः ॥४२॥शिखिध्वज उवाच ।यद्वक्षि तदुपादेयं मया विधिरिव श्रुतेः ।अविचारितमेवाशु सत्यमेतद्वचो मम ॥४३॥चूडालोवाच ।यथा बालः पितुर्वाक्यं मुक्तहेतूपपादनम् ।आदत्ते हि तथैव त्वं गृहाणैतद्वचो मम ॥४४॥श्रवणानन्तरं बुद्ध्या शुभमित्येव भावयन् ।श्रृणु गीतमिव त्यक्त्वा हेत्वर्थित्वं वचो मम ॥४५॥स्वचरितसदृशं तथोदयन्त्या-श्चिरसमयेन विबोधनं च बुद्धेः ।भवभयसुतरं महामतीनांश्रृणु कथयामि कथाक्रमं मनोज्ञम् ॥४६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० पू० चू० शिखिध्वजावबोधो नाम सप्ताशीतितमः सर्गः ॥८७॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP