संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५१ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।न पुनर्भवतः पूर्वं संपन्नाश्चक्षुरादयः ।यथा कमलजस्यैतत्सर्वमेव त्वया श्रुतम् ॥१॥ब्रह्मपुर्यष्टकस्यादावर्थसंविद्यथोदिता ।पुर्यष्टकस्य सर्वस्य तथैवोदेति सर्वदा ॥२॥विद्धि पुर्यष्टकं जीवो यो गर्भस्थेन्द्रियोदयः ।यद्यथा भावयत्याशु तत्तथा परिपश्यति ॥३॥इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् ।संपन्नं च यथा तत्ते प्रोक्तमाद्यमनःस्थितौ ॥४॥शुद्धा संवित्संभवन्ती संवेदनमनिन्दितम् ।ततोऽहंवेदनानन्तजीवपुर्यष्टकान्विता ॥५॥न त्वेकत्वादनन्तत्वादवेद्यत्वादनामये ।अभावत्वादनेकत्वादशून्यत्वात्परा स्थिता ॥६॥चेत्यादिबुद्ध्या तत्किंचिन्न मनस्तां च गच्छति ।न च जीवत्वमायाति न च पुर्यष्टकात्मिका ॥७॥न विद्यादिविलासोऽस्ति सोस्ति नास्तीव यः सदा ।परमात्मेति कथितो मनःषष्ठेन्द्रियातिगः ॥८॥तस्मात्संपद्यते जीवश्चिन्मूर्तिर्मननात्मकः ।भ्रमः केवलमित्याद्य उपदेशाय गीयते ॥९॥यतः कुतश्चित्संपन्ने त्वविद्यामय आमये ।उपदेश्योपदेशेन प्रविलीने विचारणात् ॥१०॥प्रशान्तसकलाकारं ज्ञानं तत्रावशिष्यते ।यत्राकाशमपि स्थूलमणाविव महाचलः ॥११॥यत्रोद्यदाचारमपि सदप्यसदिव स्थितम् ।जगज्जान्विषयांस्त्यक्त्वा काये त्वं तिष्ठ निर्मले ॥१२॥असन्मयमविद्याया रूपमेव तदेव हि ।यद्वीक्षिता सती नूनं नश्यत्येव न दृश्यते ॥१३॥आलोकितं नाम कथमवस्तु किल लभ्यते ।प्रयत्नेनापि संप्राप्तं मृगतृष्णाम्बुकैरिव ॥१४॥असदेव सदेवासदज्ञानादस्य सत्यता ।ज्ञानाद्यथास्थितं वस्तु दृश्यते नश्यति भ्रमः ॥१५॥अविद्याया विचारोऽयं जीवपुर्यष्टकादिका ।अप्यत्यन्तमसत्यायाः कल्पना कल्पितात्मनः ॥१६॥तस्यास्त उपदेशाय सेयं जीवादिकल्पना ।कृता शास्त्रैः प्रबोधाय तां त्वमेकमनाः श्रृणु ॥१७॥जीवत्वमिव संप्राप्ता पुर्यष्टकपदस्थिता ।कला कलङ्ककलिता चितिराबोधनोन्मुखी ॥१८॥यद्यथा भावयत्याशु तत्तथानुभवत्यलम् ।सत्यो भवत्वसत्यो वा बालेन निशि यक्षकः ॥१९॥पञ्चतन्मात्रकलनां संभावयति सत्तया ।तत्रात्मनि तथा रन्ध्रान्प्रपश्यति तथोदितान् ॥२०॥एभ्य एव समुत्पन्नं बहिःस्थं भूतपञ्चकम् ।पश्यत्यनन्यदन्याभं शाखाशतमिवाङकुरः ॥२१॥इदमन्तरिदं बाह्यमिति निश्चयवांस्ततः ।जीवो भावं यथादत्ते तत्तथा द्रढयत्यथ ॥२२॥रश्मिजालमिवेन्दोर्यदात्मनः प्रतिभासनम् ।बाह्यस्पर्शतया तेन तदेवाशूररीकृतम् ॥२३॥मरिचस्येव यत्तैक्ष्ण्यं शून्यत्वमिव खस्य यत् ।आत्मनो वेदनं यच्च तदेवान्यदिव स्थितम् ॥२४॥अत्रैव निश्चयं बद्ध्वा नियमः सुदृढीकृतः ।अनेनेत्थमनेनेत्थं भाव्यमित्यवखण्डितम् ॥२५॥स्वभावेतरनामासौ स्वसंकल्पमयात्मकः ।कश्चित्कदाचिद्भवति स्वभावेनैव नान्यथा ॥२६॥आत्मनैवेदमखिलं संपन्नं द्वैतमद्वयम् ।खण्डो मधुरसेनेव मृदेव च महाघटः ॥२७॥संनिवेशविकारादिदेशकालादिसंभवात् ।संभवत्यत्र नत्वीशे देशकालाद्यसंभवात् ॥२८॥इतः पुष्पमितः पत्रमहमित्युदितो यथा ।खण्डे स्वात्मनि नः सत्तारसोऽद्वित्वे द्वितां वहन् ॥२९॥इतः पट इतः कुड्यमहमित्यादितस्तथा ।सर्वात्मनात्मनि ब्रह्म विद्धि त्वं द्वित्वमाहरत् ॥३०॥अद्याङ्कुरोऽहमद्यार्करुगहं त्वद्य वारिदः ।यथेति तिष्ठत्यम्भोदस्तथात्मा सदसद्वपुः ॥३१॥इति भाव्यमनेनेदमित्थं सर्वेश्वरे ततम् ।क्रमं खण्डयितुं लोके कस्य नामास्ति शक्तता ॥३२॥आदर्शस्वच्छ आकाशे नैव स्वः प्रतिबिम्बति ।व्यतिरेकासंभवतः कचत्येव हि केवलम् ॥३३॥ब्रह्मणि त्वात्मनात्मैव स्थितः कचति बिम्बति ।द्वैतीभवत्यदेहोऽपि चिन्मयत्वात्स्वभावतः ॥३४॥यद्यथैवात्मकचनं वेत्ति तं भवतात्मना ।असत्यमपि तन्नेह व्यभिचारी कदाचन ॥३५॥हेमत्वकटकत्वे द्वे सत्यासत्यस्वरूपिणी ।हेम्नि भाण्डगते यद्वच्चित्त्वाचित्त्वे तथात्मनि ॥३६॥सर्वगत्वाच्चितेश्चित्त्वं नित्यं मनसि विद्यते ।हेमत्वं कटकस्येव जडभावः स्थितोऽन्यदा ॥३७॥चित्त्वजाड्यात्मकं चित्तं दृष्टं भावयति स्वयम् ।यथा यदैव यद्भावं तथा भवति तत्तदा ॥३८॥काले काले चिता जीवस्त्वन्योन्यो भवति स्वयम् ।भाविताकारवानन्तर्वासनाकलिकोदयात् ॥३९॥स्वप्ने दृष्टो यथा ग्रामो याति सत्तान्यतेक्षणात् ।देहाद्देहं तथा याति देहोऽयं प्रतिभात्मकः ॥४०॥प्रतिभासो यथा स्वप्ने नरः कुड्यं पटो भवेत् ।भवत्यसत्यमेवेदं देहान्तरमिदं स्वतः ॥४१॥असत्यमेव म्रियते त्वसत्यं जायते पुनः ।जीवः स्वप्रतिभासेन स्वप्नवत्स्वान्यरूपवत् ॥४२॥कालेनैतादृशं रूपमिदं नान्यत्वमेति वै ।प्रकृतं निश्चयारूढं भ्रमन्त्येते भवः स्वतः ॥४३॥वस्तु दृष्टमदृष्टं च स्वप्ने समनुभूयते ।जीवस्वप्ने जगद्रूपं विद्धि वेद्यविदां वर ॥४४॥अजाग्रत्दृष्टिदृष्टो यः स्वाभिधानादिनेरितः ।न स्वप्नो विद्यते तस्मादच्छात्मा चितिमात्रकम् ॥४५॥अद्यापूर्वाभिधं स्वप्ने यथा पश्यति नान्यथा ।अग्रदृष्टं तथैवार्थं चेतनं चित्प्रपश्यति ॥४६॥प्राक्तनी वासनाद्यापि पौरुषेणावजीयते ।ह्यःकुकर्माद्य यत्नेन प्रयाति हि सुकर्मताम् ॥४७॥मोक्षादृते न शाम्यन्ति जीवतां चक्षुरादयः ।उन्मज्जन्ति निमज्जन्ति केवलं देशकालतः ॥४८॥चितः स्वकलनात्तस्य देहोग्र इव तिष्ठति ।पञ्चात्माभावितोऽसत्यो महायक्षः शिशोरिव ॥४९॥मनोबुद्धिरहंकारस्तथा तन्मात्रपञ्चकम् ।इति पुर्यष्टकं प्रोक्तं देहोऽसावातिवाहिकः ॥५०॥अमूर्त एव चित्तात्मा खत्वमस्यातिपीनता ।वाततास्य महागुल्मो देहतास्य सुमेरुता ॥५१॥विरजस्त्वक्रमेणैव निरवस्थस्तु मुक्तिभाक् ।सुषुप्ततैकावस्थास्य जडाः क्रोडीकृता यया ॥५२॥स्वप्ननाम्नी तथावस्था देहप्रत्ययशालिनी ।आमोक्षं भ्रमतीहायमिति स्थावरजंगमैः ॥५३॥कदाचिद्धि सुषुप्तस्थः कदाचित्स्वप्नवत्स्थितः ।आतिवाहिकदेहोऽयं सर्वस्यैवावतिष्ठते ॥५४॥यदा सुषुप्तभावस्थो भाविदुःस्वप्नवेधितः ।तदा कालानलसमस्तिष्ठत्यनुदिताकृतिः ॥५५॥स्थावराद्यास्ववस्थासु कल्पवृक्षदशासु च ।भवत्येव सुषुप्तस्थो घनमोहशिलाघनः ॥५६॥सुषुप्ततास्य जडता स्वप्नोत्थेयं हि संसृतिः ।यः प्रबोधोऽस्य सा मुक्तिस्तज्जाग्रद्या तु तुर्यता ॥५७॥जीवप्रबोधान्मुक्तिर्हि प्रबोधात्परमात्मताम् ।सोऽभ्येति क्षालितमलं ताम्रं कनकतामिव ॥५८॥जीवप्रबोधान्मुक्तिर्या सा चेह द्विविधोच्यते ।एका जीवन्मुक्ततेति द्वितीया देहमुक्तता ॥५९॥जीवन्मुक्तिर्हि तुर्यत्वं तुर्यातीतं पदं ततः ।बोधो जीवः प्रबोधोऽयं स च बुद्धिप्रयत्नतः ॥६०॥ज्ञातप्रमाणो जीवोन्तर्यो जानातीह तन्मयः ।पश्यतीमं भयं चैव सुदीर्घस्वप्नविभ्रमम् ॥६१॥मिथ्योदितः स्वहृदये स्वस्थ एव शिलीकृते ।जीवानामन्तरे त्वन्यन्न किंचिच्चित्कलां विना ॥६२॥तामेवान्यतया पश्यन्मुधैव परिशोचति ।जीवाणोरन्तरे त्वन्यन्न किंचित्परमादृते ॥६३॥यत्र तत्र जगद्दृष्टमहो मायाविजृम्भितम् ।स्थाल्यन्तः कथदम्बूनां यथा नाना भ्रमोदयः ॥६४॥जीवाणूनां तथैवान्तर्मिथ्यासंसरणोदयः ।बन्धोस्य वासनाबन्धो मोक्षः स्याद्वासनालयः ॥६५॥वासनान्तोऽस्य सौषुप्ती स्वप्ने विस्फुरति स्थितिः ।घनवासनमोहोऽयं जीवः स्थावरतादिभाक् ॥६६॥मध्यस्थवासनस्तिर्यक्पुरुषस्तनुवासनः ।यदान्तर्जीवितेनान्तो बहिर्जाता घटादयः ॥६७॥जीवैक्यादुभयोः सत्ता ग्राह्यग्राहकयोस्तदा ।आत्मानात्मसमालीढो बहिरन्तर्यदा चिता ॥६८॥तदा ग्राह्यग्रहणधीर्मृगतृष्णेव सोदया ।नेह संत्यज्यते किंचिन्नेह किंचिन्न गृह्यते ॥६९॥बाह्यान्तरकलाकारश्चिदात्मैकः प्रकाशते ।त्रिजगच्चिच्चमत्कारस्त्वलं भेदविकल्पनैः ।शोभिताः स्मश्चिति चिरात्सबाह्यान्तर्न विद्यते ॥७०॥अब्धिर्यथा जलमपास्तसमस्तभेदःखादच्छमेव सकलं द्रवमेकशुद्धम् ।सर्वं तथेदमपहस्तितभेदजात-माद्यं परं पदमनामयमेव बुद्धम् ॥७१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० इन्द्रियार्थोपलम्भविचारो नामैकपञ्चाशः सर्गः ॥५१॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP