संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५३ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५३ Translation - भाषांतर श्रीभगवानुवाच ।अर्जुन त्वं न हन्ता त्वमभिमानमलं त्यज ।जरामरणनिर्मुक्तः स्वयमात्मासि शाश्वतः ॥१॥यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥२॥यैव संजायते संविदन्तः सेवानुभूयते ।अयं सोऽहमिदं तन्म इत्यन्तः संविदं त्यज ॥३॥अनयैव च युक्तोऽस्मि नष्टोऽस्मीति च भारत ।अभितः सुखदुःखाभ्यामवशः परितप्यसे ॥४॥स्वात्मांशैः क्रियमाणानि गुणैः कर्माणि भागशः ।अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥५॥चक्षुः पश्यतु कर्णश्च श्रृणोतु त्वक्स्पृशत्विदम् ।रसना च रसं यातु कात्र कोऽहमिति स्थितिः ॥६॥कलनाकर्मणि रते मनस्यपि महात्मनः ।न कश्चिदत्राहमिति क्लेशभागे क एव ते ॥७॥बहुभिः समवायेन यत्कृतं तत्र भारत ।एकोऽभिमानदुःखेन हास्यायैव हृइं गृह्यते ॥८॥कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥९॥अहन्त्वविषचूर्णेन येषां कायो न मारितः ।कुर्वन्तोऽपि हरन्तोऽपि न च ते निर्विषूचिकाः ॥१०॥न क्वचिद्राजते कायो ममतामेध्यदूषितः ।प्राज्ञोऽप्यतिबहुज्ञोऽपि दुःशील इव मानवः ॥११॥निर्ममो निरहंकारः समदुःखसुखः क्षमी ।यः स कार्यमकार्यं वा कुर्वन्नपि न लिप्यते ॥१२॥इदं च ते पाण्डुसुत स्वकर्म क्षात्रमुत्तमम् ।अपि क्रूरमतिश्रेयः सुखायैवोदयाय च ॥१३॥अपि कुत्सितमप्यन्यदप्यधर्ममयक्रमम् ।श्रेष्ठं ते स्वं यथा कर्म तथेहामृतवान्भव ॥१४॥मूर्खस्यापि स्वकर्मैव श्रेयसे किमु सन्मतेः ।मतिर्गलदहंकारा पतितापि न लिप्यते ॥१५॥योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।निःसङ्गस्त्वं यथाप्राप्तकर्मवान्न निबध्यसे ॥१६॥शान्तब्रह्मवपुर्भूत्वा कर्म ब्रह्ममयं कुरु ।ब्रह्मार्पणसमाचारो ब्रह्मैव भवसि क्षणात् ॥१७॥ईश्वरार्पितसर्वार्थ ईश्वरात्मा निरामयः ।ईश्वरः सर्वभूतात्मा भव भूषितभूतलः ॥१८॥संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः ।संन्यासयोगयुक्तात्मा कुर्वन्मुक्तमतिर्भव ॥१९॥अर्जुन उवाच ।सङ्गत्यागस्य भगवंस्तथा ब्रह्मार्पणस्य च ।ईश्वरार्पणरूपस्य संन्यासस्य च सर्वशः ॥२०॥तथा ज्ञानस्य योगस्य विभागः कीदृशः प्रभो ।क्रमेण कथयैतन्मे महामोहनिवृत्तये ॥२१॥श्रीभगवानुवाच ।सर्वसंकल्पसंशान्तौ प्रशान्तघनवासनम् ।न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥२२॥तदुद्योगं विदुर्ज्ञानं योगं च कृतबुद्धयः ।ब्रह्म सर्वं जगदहं चेति ब्रह्मार्पणं विदुः ॥२३॥अन्तःशून्यं बहिःशून्यं पाषाणहृदयोपमम् ।शान्तमाकाशकोशाच्छं न दृश्यं न दृशः परम् ॥२४॥तत ईषद्यदुत्थानमीषदन्यतयोदितम् ।स जगत्प्रतिभासोऽयमाकाशमिव शून्यता ॥२५॥भावोऽहमिति कोऽप्येष प्रत्येकमुदितश्चितेः ।कोटिकोट्यंशकलितः क इवैनं प्रति ग्रहः ॥२६॥अपृथग्भूत एवैष पृथग्भूत इव स्थितः ।पृथक्त्वं हि न पर्यन्तो नाहमित्यवगच्छति ॥२७॥यथेहाहं तथेहास्ति घटादीहापि मर्कटः ।स्वमीहैवं तथाम्भोधिः किमहंतां प्रति ग्रहः ॥२८॥विकल्पभेदे स्फुरिते संवित्सारमयात्मनि ।वैचित्र्येण विचित्रेपि किमेकत्वेऽपि नो ग्रहः ॥२९॥इति ज्ञातविभागस्य बुद्धौ तस्य परिक्षयः ।कर्मणां यः फलत्यागस्तं संन्यासं विदुर्बुधाः ॥३०॥त्यागः संकल्पजालानामसंसङ्गः स कथ्यते ।समस्तकलनाजालस्येश्वरत्वैकभावना ॥३१॥गलितद्वैतनिर्भासमेतदेवेश्वरार्पणम् ।अबोधवशतो भेदो नाम्नैवैषां चिदात्मनि ॥३२॥बोधात्मा किल शब्दार्थो जगदेकं न संशयः ।अहमाशा जगदहं स्वमहं कर्म चाप्यहम् ॥३३॥कालोऽहमहमद्वैतं द्वैतं चाहमहं जगत् ।मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥३४॥अर्जुन उवाच ।द्वे रूपे तव देवेश परं चापरमेव च ।कीदृशं तत्कदा रूपं तिष्ठाम्याश्रित्य सिद्धये ॥३५॥श्रीभगवानुवाच ।सामान्यं परमं चैव द्वे रूपे विद्धि मेऽनघ ।पाण्यादियुक्तं सामान्यं शङ्खचक्रगदाधरम् ॥३६॥परं रूपमनाद्यन्तं यन्ममैकमनामयम् ।ब्रह्मात्मपरमात्मादिशब्देनैतदुदीर्यते ॥३७॥यावदप्रतिबुद्धस्त्वमनात्मज्ञतया स्थितः ।तावच्चतुर्भुजाकारदेवपूजापरो भव ॥३८॥तत्क्रमात्संप्रबुद्धस्त्वं ततो ज्ञास्यसि तत्परम् ।मम रूपमनाद्यन्तं येन भूयो न जायते ॥३९॥यदि वा वेद्यविज्ञातो भावस्तदरिमर्दन ।तन्ममात्मानमात्मानमात्मनश्चाशु संश्रय ॥४०॥इदं चाहमिदं चाहमिति यत्प्रवदाम्यहम् ।तदेतदात्मतत्त्वं तु तुभ्यं ह्युपदिशाम्यहम् ॥४१॥मन्ये साधुविबुद्धोसि पदे विश्रान्तवानसि ।संकल्पैरवमुक्तोऽसि सत्यैकात्ममयो भव ॥४२॥सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।पश्य त्वं योगयुक्तात्मा सर्वत्र समदर्शनः ॥४३॥सर्वभूतस्थमात्मानं भजत्येकत्वमात्मनः ।सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥४४॥एकत्वं सर्वशब्दार्थ एकशब्दार्थ आत्मनः ।आत्मापि च न सन्नासद्गतो यस्याशु तस्य तत् ॥४५॥त्रैलोक्यचेतसामन्तरालोको यः प्रकाशकः ।अनुभूतिमुपारूढः सोऽहमात्मेति निश्चयः ॥४६॥त्रैलोक्यपयसामन्तर्यो रसानुभवः स्थितः ।गव्यानामब्धिजानां च सोऽयमात्मेति भारत ॥४७॥अन्तः सर्वशरीराणां यः सूक्ष्मोनुभवः स्थितः ।मुक्तोऽनुभवनीयेन सोऽयमात्मास्ति सर्वगः ॥४८॥समग्रपयसामन्तर्यथा घृतमिव स्थितम् ।तथा सर्वपदार्थानां देहानां संस्थितः परः ॥४९॥सर्वाम्भोनिधिरत्नानां सबाह्याभ्यन्तरे यथा ।तेजस्तथास्मि देहानामसंस्थित इव स्थितः ॥५०॥यथा कुम्भसहस्राणां सबाह्याभ्यन्तरे नभः ।जगत्त्रयशरीराणां तथात्माहमवस्थितः ॥५१॥मुक्ताफलशतौघानां तन्तुः प्रोतवपुर्यथा ।तथायं देहलक्षाणां स्थित आत्मास्त्यलक्षितः ॥५२॥ब्रह्मादौ तृणपर्यन्ते पदार्थनिकुरम्बके ।सत्तासामान्यमेतद्यत्तमात्मानमजं विदुः ॥५३॥तदीषत्स्फुरिताकारं ब्रह्म ब्रह्मैव तिष्ठति ।अहन्तादि जगत्तादि क्रमेण भ्रमकारिणा ॥५४॥आत्मैवेदं जगद्रूपं हन्यते हन्ति वात्र किम् ।शुभाशुभैर्जगद्दुःखैः किमस्यार्जुन लिप्यते ॥५५॥प्रतिबिम्बेष्विवादर्शसमं साक्षिवदास्थितम् ।नश्यत्सु न विनश्यन्तं यः पश्यति स पश्यति ॥५६॥इदं चाहमिदं नेति इतीदं कथ्यते मया ।एवमात्मास्मि सर्वात्मा मामेवं विद्धि पाण्डव ॥५७॥इमाः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।आत्मन्यहंताचित्तस्थाः पयःस्पन्दा इवाम्बुधौ ॥५८॥यथोपलत्वं शैलानां दारुत्वं च महीरुहाम् ।तरङ्गाणां जलत्वं च पदार्थानां तथात्मता ॥५९॥सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।यः पश्यति तथात्मानमकर्तारं स पश्यति ॥६०॥नानाकारविकारेषु तरङ्गेषु यथा पयः ।कटकादिषु वा हेम भूतेष्वात्मा तथाऽर्जुन ॥६१॥नानातरङ्गवृन्दानि यथा लोलानि वारिणि ।कटकादीनि वा हेम्नि भूतान्येवं परात्मनि ॥६२॥पदार्थजातं भूतानि बृहद्ब्रह्म च भारत ।एकमेवाखिलं विद्धि पृथक्त्वं न मनागपि ॥६३॥किं तद्भावविकाराणां गम्यमस्ति जगत्त्रये ।क्व ते वापि जगत्किं वा किं मुधा परिमुह्यसि ॥६४॥इति श्रुत्वाऽभयं त्वन्तर्भावयित्वा सुनिश्चितम् ।जीवन्मुक्ताश्चरन्तीह सन्तः समरसाशयाः ॥६५॥निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः ।द्वन्द्वैर्विमुक्ताः सुखदुःखसज्ञै-र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥६६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनोपदेशो नाम त्रिपञ्चाशः सर्गः ॥५३॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP