संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः २९ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः २९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २९ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।इत्याकर्णयति स्वस्थसमचेतसि राघवे ।विश्रान्ते स्वात्मनि स्वैरं परमानन्दमागते ॥१॥तत्रस्थेषु च सर्वेषु तेषूपशमशालिषु ।राघवस्यात्मविश्रान्तेः स्थित्यर्थं वचनामृतम् ॥२॥विरराम मुनेर्वारि सस्येष्वम्बुधरादिव ।अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते ॥३॥पुनराह तमेवार्थं वसिष्ठो वदतां वरः ।श्रीवसिष्ठ उवाच ।राम सम्यक्प्रबुद्धोऽसि स्वात्मानमसि लब्धवान् ॥४॥एवमेवावलम्ब्यार्थं तिष्ठ नेह पदं कृथाः ।इदं संसारचक्रं हि नाभौ संकल्पमात्रके ॥५॥संरोधितायां वहनाद्रघुनन्दन रुद्ध्यते ।क्षोभितायां मनोनाभ्यामिदं संसारचक्रकम् ॥६॥प्रयत्नाद्रोधितमपि प्रवहत्येव वेगतः ।परं पौरुषमास्थाय बलं प्रज्ञां च युक्तितः ॥७॥नाभिं संसारचक्रस्य चित्तमेव निरोधयेत् ।प्रज्ञासौजन्ययुक्तेन शास्त्रसंवलितेन च ॥८॥पौरुषेण न यत्प्राप्तं न तत्क्वचन लभ्यते ।दैवैकपरतां त्यक्त्वा बालबोधोपकल्पिताम् ॥९॥निजं प्रयत्नमाश्रित्य चित्तमादौ निरोधयेत् ।आविरिञ्चात्प्रवृत्तेन भ्रमेणाज्ञानरूपिणा ॥१०॥असदेव सदाभासमिदमालक्ष्यतेऽनघ ।अज्ञानभ्रमविस्तारमात्रकाकृतयोऽनघ ॥११॥इमे देहा भ्रमन्तीह सर्वधर्मात्समुत्थिताः ।संकल्पः पुनरस्त्वेव देहस्यार्थे कदाचन ॥१२॥सुखदुःखविचारित्वं न कार्यं राम धीमता ।दुःखम्लानमुखः क्लेदी प्रसन्नात्क्लेदवर्जितात् ॥१३॥अपि चित्रनराद्देहनरस्तुच्छतरः स्मृतः ।आधिव्याधिपरिम्लाने स्वयं क्लेदिनि नाशिनि ॥१४॥न तथा स्थिरता देहे चित्रपुंसो यथा किल ।विनाशितो हि चित्रस्थो देहो नश्यति नान्यथा॥१५॥अवश्यनाशो मांसात्मा स्वयं देहो विनश्यति ।पालितः सुस्थिरां शोभामादत्ते चित्रमानवः ॥१६॥देहस्तु पालितोऽप्युच्चैर्नश्यत्येव न वर्धते ।तेन श्रेष्ठश्चित्रदेहो नायं संकल्पदेहकः ॥१७॥ये गुणाश्चित्रदेहे हि न ते संकल्पदेहके ।चित्रदेहादपि जडाद्योऽयं तुच्छतरः किल ॥१८॥तस्मिन्मांसमये देहे कैवास्था भवतोऽनघ ।दीर्घसंकल्पदेहोऽयं तस्मिन्नास्था महामते ॥१९॥स्वप्नसंकल्पजाद्देहादपि तुच्छतरो ह्ययम् ।अल्पसंकल्पजो दीर्घैः सुखदुःखैर्न गृह्यते ॥२०॥दीर्घसंकल्पजश्चायं दीर्घदुःखेन दुःखितः ।देहो हि संकल्पमयो नायमस्ति न वास्ति नः ॥२१॥किं व्यर्थमेतदर्थं हि मूढोऽयं क्लेशभाजनम् ।यथा चित्रमये पुंसि क्षते क्षीणे न तत्क्षतिः ॥२२॥तथा संकल्पपुरुषे क्षते क्षीणे न तत्क्षतिः ।यथा मनोराज्यमये क्षते क्षीणे न तत्क्षतिः ॥२३॥यथा द्वितीये शशिनि क्षते क्षीणे न तत्क्षतिः ।यथा स्वप्नसमारम्भे क्षते क्षीणे न तत्क्षतिः ॥२४॥यथा नद्यातपजले क्षते क्षीणे न तत्क्षतिः ।संकल्पमात्ररचिते प्रकृत्यैव च नाशिनि ॥२५॥तथा शरीरयन्त्रेऽस्मिन्क्षते क्षीणे न तत्क्षतिः ।दीर्घस्वप्नमये ह्यस्मिंश्चित्तसंकल्पकल्पिते ॥२६॥भूषिते दूषिते देहे न हि किंचिच्चितः क्षतम् ।न चिदन्तमुपायाति नात्मा चलति राघव ॥२७॥न ब्रह्म विकृतिं याति किंवा देहक्षये क्षतम् ।भ्रमच्चक्रोपरिष्ठो हि पूर्वचक्रोपचक्रवत् ॥२८॥यथा पश्यति दिक्चक्रं भ्रमदत्यन्तमोहितः ।अकस्मादेव रुढेन मिथ्याज्ञानेन वल्गता ॥२९॥तत्रस्थेन तथैवेदं दृश्यते देहचक्रकम् ।भ्रमितं च भ्रमदूपं पतद्रूपं प्रपातितम् ॥३०॥हतं च हन्यमानं च दृश्यते देहचक्रकम् ।धीरतामलमालम्ब्य घनभ्रममिमं त्यजेत् ॥३१॥संकल्पेन कृतो देहो मिथ्याज्ञानेन सन्नसन् ।असत्येन कृतं यस्मान्न तत्सत्यं कदाचन ॥३२॥असदभ्युत्थितो देहो रज्ज्वामिव भुजंगधीः ।असत्यामेव सत्यां च करोत्यपि जगत्क्रियाम् ॥३३॥जडेन राम क्रियते यन्न तत्कृतमुच्यते ।कुर्वन्नपि तदा देहो न कर्ता क्वचिदेव हि ॥३४॥निरीहो हि जडो देहो नात्मनोऽस्याभिवाञ्छितम् ।कर्ता न कश्चिदेवातो द्रष्टा केवलमस्य सः ॥३५॥यथा दीपो निवातस्थः स्वात्मन्येवावतिष्ठते ।साक्षिवत्सर्वभावेषु तथा तिष्ठेज्जगत्स्थितौ ॥३६॥यथा दिवसकर्माणि भास्करः स्वस्थ एव सन् ।करोत्येवमिमां राम कुरु पार्थिवसंस्थितिम् ॥३७॥अस्मिन्नसन्मये देहगृहे शून्ये समुत्थिते ।सत्तामुपगते मिथ्याबालकल्पितयक्षवत् ॥३८॥कुतोऽप्यागत्य निःसारः सर्वसज्जनवर्जितः ।अहंकारः कुवेतालः प्रविष्टश्चित्तनामकः ॥३९॥अस्य मा भृत्यतां गच्छ त्वमहंकारदुर्मतेः ।अस्य भृत्यतया राम निरयः प्राप्यते फलम् ॥४०॥स्वसंकल्पविलासेन देहगेहे दुराकृतिः ।उन्मत्तचित्तवेतालः परिवल्गति लीलया ॥४१॥शून्यं देहगृहं प्राप्य चित्तयक्षेण तत्कृतम् ।भीता येन महान्तोऽपि समाधिनियताः स्थिताः ॥४२॥चित्तवेतालमुद्वास्य स्वशरीरकमन्दिरात् ।संसारशून्यनगरे न बिभेति कदाचन ॥४३॥चित्तभूताभिभूतेऽस्मिन्ये शरीरगृहे रताः ।चित्रमद्यापि ते कस्माद्धटिता आत्मवत्स्थिताः ॥४४॥ग्रस्ते चित्तपिशाचेन देहसद्मनि ये मृताः ।पिशाचस्येव या बुद्धिर्नापिशाचस्य राघव ॥४५॥अहंकारबृहद्यक्षगृहे दग्धशरीरके ।विहरन्नास्थया साधो न तु वै तत्किल स्थिरम् ॥४६॥अहंकारानुचरतां त्यक्त्वा विततया धिया ।अहंकारास्मृतिं प्राप्य स्वात्मैवाश्ववलम्ब्यताम् ॥४७॥अहंकारपिशाचेन ग्रस्ता ये निरयैषिणः ।तेषां मोहमदान्धानां न मित्राणि न बान्धवाः ॥४८॥अहंकारोपहतया बुद्ध्या या क्रियते क्रिया ।विषवल्ल्या इव फलं तस्याः स्यान्मरणात्मकम् ॥४९॥विवेकधैर्यहीनेन स्वाहंकारमहोत्सवः ।मूर्खेणालम्बितो येन नष्टमेवाशु विद्धि तम् ॥५०॥अहंकारपिशाचेन वराका ये वशीकृताः ।त एते नरकाग्नीनां राघवेन्धनतां गताः ॥५१॥अहंकारोरगो यस्य परिस्फूर्जति कोटरे ।स्वदेहपादपोऽधीरैरचिरेण निपात्यते ॥५२॥अहंकारपिशाचोऽस्मिन्देहे तिष्ठतु यातु वा ।त्वमेनमालोकय मा मनसा महतां वर ॥५३॥अवधूतो ह्यवज्ञातश्चेतसैव तिरस्कृतः ।अहंकारपिशाचस्ते नेह किंचित्करिष्यति ॥५४॥देहालये स्फुरत्यस्मिन् राम चित्तपिशाचके ।अस्यानन्तविलासस्य किमिवागतमात्मनः ॥५५॥चित्तयक्षाभिभूतानां याः पुंसां विततापदः ।शक्यन्ते परिसंख्यातुं न ता वर्षशतैरपि ॥५६॥हा हा मृतोऽस्मि दग्धोऽस्मीत्येता वै दुःखवृत्तयः ।अहंकारपिशाचस्य शक्तयोऽन्यस्य नानघ ॥५७॥सर्वगोऽपि यथाकाशः संबन्धो नेह केनचित् ।सर्वगोऽपि तथैवात्मा नाहंकारेण संगतः ॥५८॥यत्करोति यदादत्ते देहयन्त्रमिदं चलम् ।वातरज्जुयुतं राम तदहंकारचेष्टितम् ॥५९॥वृक्षोत्पत्तौ यथा हेतुरकर्त्रपि किलाम्बरम् ।आत्मसंस्थस्तथेहात्मा चित्तचेष्टासु कारणम् ॥६०॥आत्मसंनिधिमात्रेण स्फुरत्यात्तवपुर्मनः ।दीपसंनिधिमात्रेण कुड्यरूपमिवामलम् ॥६१॥अपि विश्लिष्टयो राम नित्यमेवात्मचित्तयोः ।द्यावापृथिव्योरिव कः संबन्धः प्रकटान्धयोः ॥६२॥चपलस्पन्दनेराभिरात्मशक्तिभिरावृतम् ।चित्तमात्मेति मौर्ख्येण दृश्यते रघुनन्दन ॥६३॥आत्मा प्रकाशरूपो हि नित्यः सर्वगतो विभुः ।चित्तं शठमहंकारं विद्धि हार्दं बृहत्तमः ॥६४॥आत्मासि वस्तुतस्त्वं हि सर्वज्ञो न मनो भृशम् ।दूरे कुरु मनोमोहं किमेतेनाभिसंगतः ॥६५॥पिशाचोऽपि मनो राम शून्यदेहगृहे स्थितः ।भावयत्येष दुष्टात्मा मौनमुत्तम संस्पृशन् ॥६६॥भवप्रदमकल्याणं धैर्यसर्वस्वहारिणम् ।मनःपिशाचमुत्सृज्य योऽसि स त्वं स्थिरो भव ॥६७॥चित्तयक्षदृढाक्रान्तं न शास्त्राणि न बान्धवाः ।शक्नुवन्ति परित्रातुं गुरवो न च मानवम् ॥६८॥संशान्तचित्तवेतालं गुरुशास्त्रार्थबान्धवाः ।शक्नुवन्ति समुद्धर्तुं स्वल्पपङ्कान्मृगं यथा ॥६९॥अस्मिञ्जगच्छून्यपुरे सर्वमेव प्रदूषितम् ।देहगेहं प्रमत्तेन चित्तयक्षेण वल्गता ॥७०॥चित्तवेतालवलिता समस्ता देहखण्डजा ।इयं जगदरण्यानी शून्या कस्य न भीतये ॥७१॥जगन्नगर्यामस्यां तु शान्तचित्तपिशाचकम् ।देहगेहं कतिपयैः सेव्यते सद्भिरेव यत् ॥७२॥इह संश्रूयते या या दिक् सैव रघुनन्दन ।प्रमत्तमोहवेतालैः पूर्णा देहश्मशानकैः ॥७३॥अस्यां जगदरण्यान्यां मुह्यन्तं मुग्धबालवत् ।स्वयमाराध्य धैर्याशमात्मनात्मानमुद्धरेत् ॥७४॥जगज्जरदरण्येऽस्मिंश्चरद्भूतमृगव्रजे ।धृतिं तृणरसै राम मा गच्छ मृगपोतवत् ॥७५॥अस्मिन्महीतलारण्ये चरन्ति मृगपोतकाः ।त्वमज्ञानगजं भुक्त्वा सैंहीं वृत्तिमुपाश्रय ॥७६॥अन्ये नरमृगा मुग्धा जम्बूद्वीपे स्वजङ्गले ।विहरन्ति यथा राम तथा मा विहरानघ ॥७७॥अत्यल्पकालशिशिरे कर्दमालेपदायिनि ।न मङ्क्तव्यं बन्धुरूपे महिषेणेव पल्वले ॥७८॥भोगाभोगा बहिष्कार्या आर्यस्यानुसरेत्पदम् ।प्रविचार्य महार्थं स्वमेकमात्मानमाश्रयेत् ॥७९॥अपवित्रस्य तुच्छस्य दुर्भगस्य दुराकृतेः ।देहस्यार्थं न मङ्क्तव्यं चिन्ताचण्डी सुदारुणा ॥८०॥अन्येन रचितो देहो यक्षेणान्येन संश्रितः ।दुःखमन्यस्य भोक्तान्यश्चित्रेयं मौर्ख्यचक्रिका ॥८१॥यथैकरूपा घनता दृषदोऽस्त्यात्मनस्तथा ।सत्तामात्रैकसामान्यादितरस्याप्यसंभवात् ॥८२॥यथोपलस्य घनता मानसादि तथात्मनः ।सत्तामात्रादभिन्नत्वादभावादस्य संस्थितेः ॥८३॥यथोपलस्योपलता घटस्य घटता यथा ।सत्तामात्रादभिन्नैव मानसादि तथात्मनः ॥८४॥अत्रेमामपरां दृष्टिं महामोहविनाशिनीम् ।शृणु या कथिता पूर्वं मम कैलासकन्दरे ॥८५॥संसारदुःखशान्त्यर्थं देवेनार्धेन्दुमौलिना ।अस्तीन्दुकरसंभारभासुरः पारगो दिवः ॥८६॥कैलासो नाम शैलेन्द्रो गौरीरमणमन्दिरम् ।तत्रास्ते भगवान्देवो हरश्चन्द्रकलाधरः ॥८७॥तं पूजयन्महादेवं तस्मिन्नेव गिरौ पुरा ।कदाचिदवसं गङ्गातटे विरचिताश्रमः ॥८८॥तपोर्थं तापसाचारे चिराय रचितस्थितिः ।सिद्धसंघातवलितः कृतशास्त्रार्थसंग्रहः ॥८९॥पुष्पार्थं स्यूतपुटिकः पुस्तकव्यूहसंग्रही ।एवंगुणविशिष्टस्य कैलासवनकुञ्जके ॥९०॥तपः प्रचरतो राम मम कालोऽत्यवर्तत ।अथैकदा कदाचित्तु बहुलस्याष्टमे दिने ॥९१॥गते श्रावणपक्षस्य रात्र्यग्रे क्षयमागते ।दिक्षु संशान्तरूपासु काष्ठमौनस्थितास्विव ॥९२॥खड्गच्छेद्यान्धकारेषु कुञ्जेषु गहनेषु च ।एतस्मिन्नन्तरे तत्र यामार्धे प्रथमे गते ॥९३॥समाधिं तनुतां नीत्वा स्थितोहं बाह्यमग्नदृक् ।अपश्यं कानने तेजो झटित्येव समुत्थितम् ॥९४॥शुभ्राभ्रशतसंकाशं चन्द्रबिम्बगणोपमम् ।प्रकटीकृतदिक्कुञ्ज तदालोक्य मया स्मयात् ॥९५॥अन्तःप्रकाशशालिन्या बहिर्दृष्ट्यावलोकितम् ।यावत्पश्यामि तं सानुं प्राप्तश्चन्द्रकलाधरः ॥९६॥गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः ।शिष्यान्संबोध्य तत्रस्थान्गृहीत्वार्घ्यं सुसंयतः ॥९७॥अगमं सुमनास्तस्य दृष्टिपूतमहं पुरः ।तत्र पुष्पाञ्जलिं दत्त्वा दूरादेव त्रिलोचनः ॥९८॥दत्तार्घ्येण मया देवः संप्रणम्याभिवन्दितः ।ततश्चन्द्रप्रभासख्या ऋज्व्या शीतलया तया ॥९९॥दृशा सर्वार्तिहारिण्या चिरमस्म्यास्पदीकृतः ।पुष्पसानूपविष्टाय तस्मै त्रैलोक्यसाक्षिणे ॥१००॥अर्घ्यं पुष्पं तथा पाद्यमभ्युपेत्यार्पितं मया ।मन्दारपुष्पाञ्जलयो विकीर्णा बहवः पुरः ॥१०१॥नानाविधेर्नमस्कारैः स्तोत्रैश्चाभ्यर्चितः शिवः ।ततो भगवती गौरी तादृश्यैव सपर्यया ॥१०२॥संपूजिता सखीयुक्ता गणमण्डलिका तथा ।पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा ॥१०३॥तत्रोपविष्टं प्रोवाच मामर्धेन्दुकलाधरः ।ब्रह्मन्प्रशमशालिन्यः प्राप्तविश्रान्तयः पदे ॥१०४॥कच्चित्कल्याणकारिण्यः संविदस्ते स्थिताः परे ।कच्चित्तपस्ते निर्विघ्नं कल्याणमनुवर्तते ॥१०५॥कच्चित्प्राप्यमनुप्राप्तं कच्चिच्छाम्यन्ति भीतयः ।एवंवादिनि देवेशे सर्वलोकैककारिणि ॥१०६॥गिरानुनयशालिन्या मयोक्तं रघुनन्दन ।त्र्यक्षानुस्मृतिकल्याणवतामिह महेश्वर ॥१०७॥न किंचिदपि दुष्प्रापं न च काश्चन भीतयः ।त्वदनुस्मरणानन्दपरिघूर्णितचेतसाम् ॥१०८॥न ते सन्ति जगत्कोशे प्रणमन्ति न ये पुनः ।ते देशास्ते जनपदास्ता दिशस्ते च पर्वताः ॥१०९॥त्वदनुस्मरणैकान्तधियो यत्र स्थिता जनाः ।फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम् ॥११०॥तनोति चैष्यतो बीजं त्वदनुस्मरणं प्रभो ।ज्ञानामृतैककलशो धृतिज्योत्स्नानिशाकरः ॥१११॥अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो ।त्वदनुस्मरणोदारचिन्तामणिमता मया ॥११२॥सर्वासामापदां मूर्ध्नि दत्तं भूतपते पदम् ।इत्युक्त्वा सुप्रसन्नं तं भगवन्तं महेश्वरम् ॥११३॥अवोचं प्रणतो भूत्वा यद्राम तदिदं शृणु ।भगवंस्त्वत्प्रसादेन पूर्णा मे सकला दिशः ॥११४॥किंतु पृच्छामि देवेश संदेहे तत्र निर्णयम् ।ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगमनामयम् ॥११५॥सर्वपापक्षयकरं सर्वकल्याणवर्धनम् ।देवार्चनविधानं तत्कीदृशं भवति प्रभो ॥११६॥ईश्वर उवाच ।शृणु ब्रह्मविदां श्रेष्ठ देवार्चनमनुत्तमम् ।वदामि मुच्यते येन कृतेन सकृदेव हि ॥१७॥कच्चिद्वेत्सि महाबाहो देवः कः स्यादिति द्विज ।न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः ॥११८॥न देवः कमलोद्भूतो न देवस्त्रिदशेश्वरः ।न देवः पवनो नार्को नानलो न निशाकरः ॥११९॥न ब्राह्मणो नाऽवनिपो नाहं न त्वं द्विजोत्तम ।न देवो देहरूपो हि न देवश्चित्तरूपधृक् ॥१२०॥न देवः कमलारूपी नापि देवो भवेन्मतिः ।अकृत्रिममनाद्यन्तं देवनं देव उच्यते ॥१२१॥आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः ।अकृत्रिममनाद्यन्तं देवनं चिच्छिवं विदुः ॥१२२॥तदेव देवशब्देन कथ्यते तत्प्रपूजयेत् ।तदेवास्ति यतः सर्वं सत्तासत्तात्मरूपधृक् ॥१२३॥अज्ञातशिवतत्त्वानामाकाराद्यर्चनं कृतम् ।योजनाध्वन्यशक्तस्य क्रोशाध्वा परिकल्प्यते ॥१२४॥इयत्तादिपरिच्छिन्नं रुद्रादेः प्राप्यते फलम् ।अकृत्रिममनाद्यन्तं फलमानन्द आत्मनः ॥१२५॥अकृत्रिमफलं त्यक्त्वा यः कृत्रिमफलं व्रजेत् ।त्यक्त्वा स मन्दारवनं कारञ्जं याति काननम् ॥१२६॥बोधः साम्यं शम इति पुष्पाण्यग्राणि तत्र च ।शिवं चिन्मात्रममलं पूज्यं पूज्यविदो विदुः ॥१२७॥शमबोधादिभिः पुष्पैर्देव आत्मा यदर्च्यते ।तत्तु देवार्चनं विद्धि नाकारार्चनमर्चनम् ॥१२८॥आत्मसंवित्तिरूपं तु त्यक्त्वा देवार्चनं जनाः ।कृत्रिमार्चासु ये सक्ताश्चिरं क्लेशं भजन्ति ते ॥१२९॥ज्ञातज्ञेया हि ये सन्तो बालक्रीडोपमं च ते ।आत्मध्यानादृते ब्रह्मन्कुर्वन्तो देवपूजनम् ॥१३०॥आत्मैव देवो भगवाञ्छिवः परमकारणम् ।ज्ञानार्चनेनाविरतं पूजनीयः स सर्वदा ॥१३१॥त्वमेतच्चेतनाकाशमात्मानं जीवमव्ययम् ।स्वभावं विद्धि न त्वन्यः पूज्यः पूजात्मपूजनम् ॥१३२॥श्रीवसिष्ठ उवाच ।चेतनाकाशमात्रात्म यथा जगदिदं प्रभो ।यथा तच्चेतनस्यैव जीवादित्वं तदुच्यताम् ॥१३३॥ईश्वर उवाच ।चिद्व्योमैव किलास्तीह पारावारविवर्जितम् ।सर्वत्रासंभवच्चेत्यं यत्कल्पान्तेऽवशिष्यते ॥१३४॥यद्यत्स्वयं प्रकचति तस्य स्वकचनस्य तु ।स्वयं यत्स्पन्दितं नाम तेनेदं जगदित्यलम् ॥१३५॥इत्येवं स्वप्नपुरवज्जगद्भाति चिदात्मकम् ।एवं चिद्व्योममात्रात्म जगदच्छं न भित्तिमत् ॥१३६॥अत्यन्तासंभवाच्चेत्यं दृश्यं चिद्व्योममात्रकम् ।चित्त्वात्कचति सर्गादौ यत्तज्जगदिति स्मृतम् ॥१३७॥तस्मात्स्वप्नपुराकारं यदिदं भासते जगत् ।तत्र चिद्व्योममात्रात्मन्यन्यता नाम का कुतः ॥१३८॥चिन्मात्रमेव गिरयश्चिन्मात्रं जगदम्बरम् ।चिन्मात्रमात्मा जीवश्च चिन्मात्रं भूतसंततिः ॥१३९॥चिद्व्योममात्रादितरत्सर्गादौ सर्ववेदने ।भिन्नस्वर्गे पुरे वापि किं संभवति कथ्यताम् ॥१४०॥आकाशं परमाकाशं ब्रह्माकाशं जगच्चितिः ।इति पर्यायनामानि तत्र पादपवृक्षवत् ॥१४१॥एवं द्वौ स्वप्नसंकल्पमायाभिः स्वनुभूयते ।तदा किल चिदाकाशमेव भाति जगत्तया ॥१४२॥यथैतत्संविदाकाशं स्वप्ने भाति जगद्वपुः ।तथेदं जाग्रदाख्येऽपि स्वप्ने भाति तदेव नः ॥१४३॥यथा स्वप्नपुरे चित्खं वर्जयित्वेतरत्क्वचित् ।न किंचित्संभवत्येवं जाग्रत्येवं महाचितः ॥१४४॥यतो न संभवत्यन्यच्चेत्यं किंचित्ततोऽखिलम् ।चित्तं संचेत्यमप्येतदचेत्यं सज्जगत्स्थितम् ॥१४५॥परमाकाशकलनं त्रिजगत्स्वयमुत्थितम् ।स्वप्नवद्विद्धि चिद्व्योम्नि न त्वेतद्द्वैतवत्स्थितम् ॥१४६॥यथा चिद्व्योममात्रात्म स्वप्ने घटपटादिकम् ।सर्गादावेव सर्गोऽयं तथा चिद्व्योममात्रकम् ॥१४७॥शुद्धसंवित्तिमात्रत्वादृतेऽन्यत्स्वप्नपत्तने ।यथा न विद्यते किंचित्तथास्मिन्भुवनत्रये ॥१४८॥याः काश्चन दृशो ये ये भावाभावास्त्रिकालगाः ।सदेशकालचित्तास्तत्सर्वं चिद्व्योममात्रकम् ॥१४९॥स एष देवः कथितो यः परः परमार्थतः ।यस्त्वं सोऽहमशेषं वा जगदेव च योऽखिलः ॥१५०॥सर्वस्य वस्तुजातस्य जगतोऽन्यस्य ते मम ।देहो हि चेतनाकाशे परमात्मैव नेतरत् ॥१५१॥संकल्पने स्वप्नपुरे शरीरं चिद्व्योमतोऽन्यन्न यथास्ति किंचित् ।तथेह सर्गे प्रथमैकर्सगान्मुने प्रभृत्यस्ति न रूपमन्यत् ॥१५२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो निर्वाणप्रकरणे पू० जगतः परमात्ममयत्ववर्णनं नामैकोनत्रिंशः सर्गः॥२९॥ N/A References : N/A Last Updated : September 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP