संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ९ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९ Translation - भाषांतर श्रीराम उवाच ।आकारजातमुदितं शुद्धं हरिहराद्यपि ।अविद्यैवेत्यहं श्रुत्वा ब्रह्मन्भ्रममिवागतः ॥१॥श्रीवसिष्ठ उवाच ।संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत् ।तत्सच्चिदाभासमयमस्तीह कलनोज्झितम् ॥२॥समुदेति स्वतस्तस्मात्कला कलनरूपिणी ।जलादावर्तलेखेव स्फुरज्जलतयोदिता ॥३॥सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा ।पश्चान्मनस्तया तेन ज्ञातैव वपुषा पुनः ॥४॥तिष्ठत्येतास्ववस्थासु भेदतः कल्प्यते त्रिधा ।सत्त्वं रजस्तम इति एषैव प्रकृतिः स्मृता ॥५॥अविद्यां प्रकृतिं विद्धि गुणत्रितयधर्मिणीम् ।एषैव संसृतिर्जन्तोरस्याः पारं परं पदम् ॥६॥अत्र ते ये त्रयः प्रोक्ता गुणास्तेऽपि त्रिधा स्मृताः ।सत्त्वं रजस्तम इति प्रत्येकं भिद्यते गुणः ॥७॥नवधैवं विभक्तेयमविद्या गुणभेदतः ।यावत्किंचिदिदं दृश्यमनयैव तदाश्रितम् ॥८॥ऋषयो मुनयः सिद्धा नागा विद्याधराः सुराः ।इति भागमविद्यायाः सात्त्विकं विद्धि राघव ॥९॥सात्त्विकस्यास्य भागस्य नागविद्याधरास्तमः ।रजस्तु मुनयः सिद्धाः सत्त्वं देवा हरादयः ॥१०॥सत्त्वजातौ देवयोनावविद्या प्राकृतैर्गुणैः ।निर्मलं पदमायाताः सत्त्वं हरिहरादयः ॥११॥सात्त्विकः प्राकृतो भागो राम तज्ज्ञो हि यो भवेत् ।न समुत्पद्यते भूयस्तेनासौ मुक्त उच्यते। ॥१२॥तेन रुद्रादयो ह्येते सत्त्वभागा महामते ।तिष्ठन्ति मुक्ताः पुरुषा यावद्देहं जगत्स्थितौ ॥१३॥यावद्देहं महात्मानो जीवन्मुक्ता व्यवस्थिताः ।विदेहमुक्ता देहान्ते स्थास्यन्ति परमेश्वरे ॥१४॥भाग एष त्वविद्याया एवं विद्यात्वमागतः ।बीजं फलत्वमायाति फलमायाति बीजताम् ॥१५॥उदेत्यविद्या विद्यायाः सलिलादिव बुद्बुदः ।विद्यायां लीयतेऽविद्या पयसीव हि बुद्बुदः ॥१६॥पयस्तरङ्गयोर्द्वित्वभावनादेव भिन्नता ।विद्याविद्यादृशोर्भेदभावनादेव भिन्नता ॥१७॥पयस्तरङ्गयोरैक्यं यथैव परमार्थतः ।नाविद्यात्वं न विद्यात्वमिह किंचन विद्यते ॥१८॥विद्याविद्यादृशौ त्यक्त्वा यदस्तीह तदस्ति हि ।प्रतियोगिव्यवच्छेदवशादेतद्रघूद्वह ॥१९॥विद्याविद्यादृशौ न स्तः शेषे बद्धपदो भव ।नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया ॥२०॥किंचिदस्ति नकिंचिद्यच्चित्संविदिति तत्स्थितम् ।तदेवाविदिताभासं सदविद्येत्युदाहृतम् ॥२१॥विदितं सत्तदेवेदमविद्याक्षयसंज्ञितम् ।विद्याभावादविद्याख्यामिथ्यैवोदेति कल्पना ॥२२॥मिथः स्वान्ते तयोरन्तश्छायातपनयोरिव ।अविद्यायां विलीनायां क्षीणे द्वे एव कल्पने ॥२३॥एते राघव लीयेते अवाप्यं परिशिष्यते ।अविद्यासंक्षयात्क्षीणो विद्यापक्षोऽपि राघव ॥२४॥यच्छिष्टं तन्न किंचिद्वा किंचिद्वापीदमाततम् ।तत्रैवं दृश्यते सर्वं न किंचन च दृश्यते ॥२५॥वटश्च वटधानायामिव पुष्पफलादिमान् ।सर्वशक्तिर्हि किंचित्त्वं सर्वशक्तिसमुद्गकम् ॥२६॥नभसोऽप्यधिकं शून्यं नच शून्यं चिदात्मकम् ।सूर्यकान्ते यथा वह्निर्यथा क्षीरे घृतं तथा ॥२७॥तत्रेदं संस्थितं सर्वं देशकालक्रमोदये ।यथा स्फुलिङ्गा अनलाद्यथा भासो दिवाकरात् ॥२८॥तस्मात्तथेमा निर्यान्ति स्फुरन्त्याः संविदश्चितः ।यथाम्भोधिस्तरङ्गाणां यथामलमणिस्त्विषाम् ॥२९॥कोशो नित्यमनन्तानां तथा तत्संविदां त्विषाम् ।सबाह्याभ्यन्तरे सर्वं वस्तुन्यस्त्येव वस्तुसत् ॥३०॥सर्वदैवाविनाशात्म कुम्भानां गगनं यथा ।यथा मणेरयःस्पन्दे अयस्कान्तस्य कर्तृता ॥३१॥अकर्तुरेव हि तथा कर्तृता तस्य कथ्यते ।मणिसंनिधिमात्रेण यथायः स्पन्दते जडम ।तत्सत्तया तथैवायं देहश्चेतत्यचिद्वपुः ॥३२॥तत्र स्थितं जगदिदं जगदेकबीजेचिन्नाम्नि संविदितकल्पितकल्पनेन ।लोलोर्मिजालमिव वारिणि चित्ररूपंखादप्यरूपवति यत्र न किंचिदस्ति ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पू० विद्यानिराकरणं नाम नवमः सर्गः ॥९॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP