संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ३७

निर्वाणप्रकरणं - सर्गः ३७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


ईश्वर उवाच ।
इत्यादिकानां शब्दानामर्थश्रीः सत्यरूपिणि ।
तस्मिन्सर्वेश्वरे सर्वसत्तामणिसमुद्गके ॥१॥
का नाम विमलाभासास्तस्मिन्परमचिन्मणौ ।
न कचन्ति विचिन्वन्ति विचित्राणि जगन्ति याः ॥२॥
एषा बीजकणान्तस्था चित्सत्ता स्ववपुर्मयम् ।
लब्ध्वा मृत्कालवार्यादि करोत्यङ्कुरमोदनम् ॥३॥
फेनावर्तविवर्तान्तर्वर्तिनी रसरूपिणी ।
कठिनेन्द्रियसंबन्धे करोति स्पन्दमम्भसाम् ॥४॥
एषा कुसुमगुच्छेषु रसरूपेण संस्थिता ।
कचति घ्राणरन्ध्रेषु करोति परिफुल्लताम् ॥५॥
शिलाङ्गस्था शिलाङ्गाभामसतीं सत्यतापदम् ।
सर्गाधारदशां धत्ते गिरीन्द्रः स्थितिलीलया ॥६॥
पवनस्पन्दकोशात्मरूपिणीव त्वगिन्द्रियम् ।
संसाधयत्यात्मसुतं पितेवात्मतयानया ॥७॥
अशेषसारसंपिण्डमध्यात्मानं स्वसिद्धये ।
भावयित्वा नकिंचित्त्वमिव खत्वं करोत्यलम् ॥८॥
स्वसत्ताप्रतिबिम्बाभमाकाशमुकुरोदरे ।
धत्ते कल्पनिमेषाङ्कं कालाख्यममलं वपुः ॥९॥
आमहापञ्चमेशानं परिणाममया इमे ।
इदमित्थमिदं नेति नियतिर्भवति स्वयम् ॥१०॥
साक्षिणि स्फार आभासे गृहे दीप इव क्रियाः ।
सत्ये तस्मिन्प्रकाशन्ते जगच्चित्रपरम्पराः ॥११॥
परमाकाशनगरनाट्यमण्डपभूमिषु ।
स्वशक्तिवृत्तं संसारं पश्यन्ती साक्षिवत्स्थिता ॥१२॥
श्रीवसिष्ठ उवाच ।
शिवस्यास्य जगन्नाथ शक्तयः काः कथं स्थिताः ।
साक्षिता का च किं तासां वृत्तं स्यात्कियदेव तते ॥१३॥
ईश्वर उवाच ।
अप्रमेयस्य शान्तस्य शिवस्य परमात्मनः ।
सौम्य चिन्मात्ररूपस्य सर्वस्यानाकृतेरपि ॥१४॥
इच्छासत्ता व्योमसत्ता कालसत्ता तथैव च ।
तथा नियतिसत्ता च महासत्ता च सुव्रत ॥१५॥
ज्ञानशक्तिः क्रियाशक्तिः कर्तृताऽकर्तृतापि च ।
इत्यादिकानां शक्तीनामन्तो नास्ति शिवात्मनः॥१६॥
श्रीवसिष्ठ उवाच ।
शक्तयः कुत एवैता बहुत्वं कथमासु च ।
उदयश्च कथं देव भेदाभेदश्च कीदृशः ॥१७॥
ईश्वर उवाच ।
शिवस्यानन्तरूपस्य सैषा चिन्मात्रतात्मनः ।
एषा हि शक्तिरित्युक्ता तस्माद्भिन्ना मनागपि ॥१८॥
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वादिविभावनात् ।
शक्तयो विविधं रूपं धारयन्ति बहूदकम् ॥१९॥
एवं जगति नृत्यन्ति ब्रह्माण्डे नृत्यमण्डपे ।
कालेन नर्तकेनेव क्रमेण परिशिक्षिताः ॥२०॥
यैषा परपराभासा सैषा नियतिरुच्यते ।
क्रियाथ कृतिरिच्छा वा कालेत्यादिकृताभिधा ॥२१॥
आमहारुद्रपर्यन्तमिदमित्थमिति स्थितेः ।
आतृणापद्मजस्पन्दं नियमान्नियतिः स्मृता ॥२२॥
नियतिर्नित्यमुद्वेगवर्जिताऽपरिमार्जिता ।
एषा नृत्यति वै नृत्यं जगज्जालकनाटकम् ॥२३॥
नानारसविलासाढ्यं विवर्ताभिनयान्वितम् ।
कल्पक्षणहतानेकपुष्करावर्तघर्घरम् ॥२४॥
सर्वर्तुकुसुमाकीर्णं धारागोलकमन्दिरम् ।
भूयोभूयः पतद्वर्षभूरिस्वेदजलोत्करम् ॥२५॥
पयोदपल्लवालोलनीलाम्बरकृतभ्रमम् ।
पूर्णं संशुद्धसप्ताब्धिरत्नौघवलयाकुलम् ॥२६॥
यामपक्षदिनप्रेक्षाकटाक्षोद्भासिताम्बरम् ।
मज्जनोन्मज्जनव्यग्रकुलाद्रिकुलशेखरम् ॥२७॥
भ्रमच्छशिमणिप्रोतगङ्गामुक्ताफलत्रयम् ।
संदृष्टादृष्टसंध्याभ्रविलोलकरपल्लवम् ॥२८॥
अनारतरणल्लोललोकालंकारकोमलम् ।
भूरिभूतलपातालनभस्तलपदक्रमम् ॥२९॥
मग्नोन्मग्नमहानेकताराघर्मकणोत्करम् ।
चन्द्रार्ककुण्डलस्पन्दस्मितस्फुटनभोमुखम् ॥३०॥
कल्पितानेकब्रह्माण्डकपाटकवितानकम् ।
लुठल्लोकान्तरव्यूहध्वनन्मुक्ताङ्कपल्लवम् ।
सुखदुःखदशादोषभावाभावरसान्तरम् ॥३१॥
अस्मिन्विकारवलिते नियतेर्विलासे
संसारनाम्नि चिरनाटकनाट्यसारे ।
साक्षी सदोदितवपुः परमेश्वरोऽय-
मेकः स्थितो न च तया न च तेन भिन्नः ॥३२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० नियतिनृत्यं नाम सप्तत्रिंशः सर्गः ॥३७॥

N/A

References : N/A
Last Updated : September 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP