संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५० निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५० Translation - भाषांतर श्रीराम उवाच ।ज्ञातं ज्ञातव्यमखिलं दृष्टं द्रष्टव्यमक्षतम् ।परेण परिपूर्णाः स्मो ब्रह्मज्ञानामृतेन ते ॥१॥पूर्णात्पूर्णमिदं पूर्णं पूर्णात्पूर्णं प्रसूयते ।पूर्णेनापूरितं पूर्णं स्थिता पूर्णे च पूर्णता ॥२॥लीलयेदं तु पृच्छामि भूयोबोधाभिवृद्धये ।बालस्येव पिता ब्रह्मन्न कोपं कर्तुमर्हसि ॥३॥श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।विद्यमानमपि ब्रह्मन्दृश्यमानमपि स्फुटम् ॥४॥कथं मृतस्य वै जन्तोर्विषयं स्वं न पश्यति ।जीवतश्च कथं सर्वं विषयं स्वं प्रपश्यति ॥५॥कथं घटादिबाह्यत्वमिन्द्रियाणि जडान्यपि ।शरीरेऽनुभवन्त्यन्तःपुनर्नानुभवन्त्यपि ॥६॥अयःशलाकोपमयोर्घटादीन्द्रिययोः किल ।अश्लिष्टयोरन्तरसौ कथं तन्नोदिता मिथः ॥७॥जानन्नपि यदेतान्वै विशेषाञ्छतधा पुनः ।पृच्छामि तदशेषेण कथयस्वानुकम्पया ॥८॥श्रीवसिष्ठ उवाच ।इन्द्रियाद्यपि चित्तादि घटाद्यपि न किंचन ।पृथक् संभवतीहाङ्ग निर्मलाच्चेतनादृते ॥९॥गगनादपि याऽच्छा चित्तया रूपं स्वमात्मना ।चित्त्वात्पुर्यष्टकत्वेन भाववृत्त्यैव भावितम् ॥१०॥तदेव च प्रकृतितां गतं जगदवस्थितेः ।तस्या अवयवाज्जातमिन्द्रियादि घटादि च ॥११॥पुर्यष्टकत्वमायातं यच्चित्तं स्वस्वभावतः ।स्व एवावयवस्तस्मिन्घटादि प्रतिबिम्बति ॥१२॥श्रीराम उवाच ।जगत्सहस्रनिर्माणमहिम्नो दर्पणस्य च ।पुर्यष्टकस्य भगवन्रूपं कथय कीदृशम् ॥१३॥श्रीवसिष्ठ उवाच ।अनाद्यन्तं जगद्बीजं यद्ब्रह्मास्ति निरामयम् ।भारूपं शुद्धचिन्मात्रं कलाकलनवर्जितम् ॥१४॥कलनोन्मुखतां यातमन्तर्जीव इति स्मृतः ।स जीवः खलु देहेऽस्मिंश्चिनोति स्पन्दते स्फुटम् ॥१५॥अहंभावादहंकारो मननान्मन उच्यते ।बोधनिश्चयतो बुद्धिरिन्द्रदृष्टेस्तथेन्द्रियम् ॥१६॥देहभावनया देहो घटभावनया घटः ।एष एव स्वभावात्मा जनैः पुर्यष्टकं स्मृतः ॥१७॥ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिपातिनी ।या संविज्जीव इत्युक्ता तद्धि पुर्यष्टकं विदुः ॥१८॥काले काले ततो जीवस्त्वन्योन्यो भवति स्वतः ।भाविताकारयानन्तवासनाकणिकोदयम् ॥१९॥पुर्यष्टकस्वभावेन कालेनाकारमृच्छति ।यथावासनतः सेकाद्बीजं पल्लवतामिव ॥२०॥आकारोऽहं शरीरादि स्थावरादि चरादि च ।नाहमाद्यश्चिदात्मेति मिथ्या ज्ञानेन चेतति ॥२१॥भ्रमत्येव जगज्जीवो वासनावलितश्चिरम् ।ऊर्ध्वाधोगमनैरब्धौ काष्ठं वीचिहतं यथा ॥२२॥कश्चिद्विशुद्धजातित्वाद्भवबन्धादनन्तरम् ।बुद्ध्वात्मानं समभ्येति पदमाद्यन्तवर्जितम् ॥२३॥कश्चित्कालेन बहुना भुक्तयोनिगणातुरः ।आत्मज्ञानवशादेति परमं पदमात्मनः ॥२४॥एवंरूपश्च सुमते जीवो यातः शरीरताम् ।नेत्रादिना घटाद्यन्तर्यथा वेत्ति तथा श्रृणु ॥२५॥चित्त्वस्य कलनान्तस्य संप्रयातस्य जीवताम् ।मनःषष्ठेन्द्रियग्रामो देहोऽयमवतिष्ठते ॥२६॥यदान्यः सर्वदेहेभ्यः खे पतत्यक्षरूपिणा ।तदा तज्जीवसंस्पर्शाज्जीवात्मैकत्वमृच्छति ॥२७॥बाह्यार्थवेदने नित्यं संबन्धोऽक्षस्य कारकः ।समन्वितस्य चित्तेन न मुक्तस्य कदाचन ॥२८॥यद्यदच्छतरं तस्मिन्नभःस्थं प्रतिबिम्बति ।जीवेन भवति श्लिष्टो बहिर्जीवोऽप्यजीवति ॥२९॥निघृष्टनवरत्नाभे यदा नयनतारके ।तदा तयोर्बाह्यगतः पदार्थः प्रतिबिम्बति ॥३०॥जीवेन भवति श्लिष्टः प्रतिबिम्बतया ततः ।जीवज्ञेयत्वमायाति बाह्यं वस्त्विति राघव ॥३१॥यत्संश्लेषमुपायाति तद्बालोऽपि हि विन्दति ।पशुर्वा स्थावरो वापि जीवः कस्मान्न वेत्स्यति ॥३२॥अच्छस्य नयनस्याथो रश्मयो जीववेष्टिताः ।क्रोडीकुर्वन्त्यलं दृश्यं जीवस्तत्त्वेन विन्दति ॥३३॥एष एव क्रमः स्पर्शे संबन्धः प्रत्ययोद्भवः ।रसे गन्धे च कथितो जीवसंस्पर्शसंभवः ॥३४॥शब्दस्त्वाकाशनिष्ठत्वात्कर्णाकाशगतः क्षणात् ।जीवाकाशं विशत्यन्तरित्थमिन्द्रियसंविदः ॥३५॥श्रीराम उवाच ।दृश्यते मानसादर्शे यन्त्रदार्वौदरेषु तत् ।प्रतिबिम्बितमेतन्मे ब्रूहि ब्रह्मन्किमात्मकम् ॥३६॥श्रीवसिष्ठ उवाच ।अत्यन्तजडयोरेव जीवयोरिव तन्मिथः ।प्रतिबिम्बं दृशो भ्रान्ति विद्धि वेद्यविदां वर ॥३७॥तावन्मात्रं जगत्त्वेतद्विश्वासो मा तवास्त्विह ।अहमित्यादिस्तरङ्गो वर्तमानं सदा जलम् ॥३८॥पराम्भोधौ तु नास्त्येव देशकालक्रियादिकम् ।तन्मयैकतया नित्यमात्मा सर्वत्र सर्वगः ॥३९॥नित्यमसक्तमतिर्मुदितात्माशान्तमृषासुखदुःखविदन्तः ।तिष्ठ निविष्टमतिः समताया-मस्तसमस्तभवामयमायः ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पूर्वा० अक्षसंवेदनविचारयोगोपदेशो नाम पञ्चाशः सर्गः ॥५०॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP