संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ८५ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ८५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं शिखिध्वजः पूर्णमठिकायां वने स्थितः ।इदानीं श्रृणु चूडाला सा किं कृतवती गृहे ॥१॥तत्रार्धरात्रसमये दूरं याते शिखिध्वजे ।हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात् ॥२॥अपश्यत्पतिनिर्हीना शयनं शून्यता गतम् ।अभास्करमपूर्णेन्दु शान्तशोभमिवाम्बरम् ॥३॥उत्तस्थौ किंचिदाम्लानवदना खेदशालिनी ।कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा ॥४॥न प्रसन्ना न विमला बभूवाकुलतां गता ।दिनश्रीरिव नीहारधूसरा सा व्यतिष्ठत ॥५॥क्षणं शय्योपविष्टैव चिन्तयामास चिन्तया ।कष्टं राज्यं प्रभुस्त्यक्त्वा वनं यातो गृहादिति ॥६॥तन्मयेहाद्य किं कार्यं तत्समीपं व्रजाम्यहम् ।भर्तैव गतिरुद्दिष्टा विधिना प्रकृता स्त्रियः ॥७॥इति संचिन्त्य भर्तारमनुगन्तुं समुत्थिता ।चूडाला वातरन्ध्रेण निर्गत्याम्बरमाययौ ॥८॥बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी ।कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम् ॥९॥ददर्शाथ यथायातं रात्रौ खङ्गधरं पतिम् ।भ्रमन्तमेकमेकान्ते वेतालसमयोदितम् ॥१०॥तादृशं पतिमालोक्य स्थित्वा गगनकोटरे ।भविष्यच्चिन्तयामास सर्वं भर्तुरखण्डितम् ॥११॥यथा येन यदा यत्र यावत्कार्यं यथोदयम् ।यथा च निर्वृतिः स्फारा गन्तव्या तेन राघव ॥१२॥अवश्यं भवितव्यं तद्भर्तुर्दृष्ट्वा पुरः स्थितम् ।तदेव संवादयितुं गमनात्सा न्यवर्तत ॥१३॥आस्तां ममाद्य गमनं काले नातिचिरेण हि ।मयास्य पार्श्वे गन्तव्यं नियतेरेष निश्चयः ॥१४॥इति संचिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः ।सुष्वाप शयने शंभोः शिरसीवैन्दवी कला ॥१५॥केनचित्कारणेनासौ गतः संप्रति भूपतिः ।इति पौरं जनं सर्वमाश्वास्यातिष्ठदङ्गना ॥१६॥राज्यं ररक्ष भर्तुस्तत्क्रमेण समदर्शनात् ।यथा कालेन केदारं पक्वं कलमगोपिका ॥१७॥तयोस्तदाऽवहत्कालो दंपत्योः स्थितयोस्तथा ।अदृष्टान्योन्यमुखयो राज्यकाननपालयोः ॥१८॥जगामाथ दिनं पक्षो मासोऽथ ऋतुवत्सरः ।शिखिध्वजस्य विपिने चूडालायाः स्वमन्दिरे ॥१९॥बहुनात्र किमुक्तेन वर्षाण्यष्टादशाङ्गना ।चूडालोवास सदने वनगुच्छे शिखिध्वजः ॥२०॥अथ यातेषु बहुषु वर्षेषु जरसा वृते ।शिखिध्वजे महाशैलतटकोटरवासिनि ॥२१॥भर्तुः कषायपाकं तदालक्ष्य पालितं चिरात् ।तदा तस्याथ यातेषु वर्षेषु जरसा वने ॥२२॥तदा तस्यात्मकार्यस्य भवितव्यतया तथा ।भर्तुः समीपगमने मम कालोऽयमित्यथ ॥२३॥संचिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा ।चचारान्तःपुराद्रात्रौ ततार नभसः पथम् ॥२४॥जगाम वातस्कन्धेन गच्छन्ती खे ददर्श सा ।कल्पवृक्षांशुकच्छन्नरत्नस्तबकभूषिताः ॥२५॥नन्दनोद्याननिलया रक्ताः सिद्धाभिसारिकाः ।परामृष्टेन्दुशकलान्प्रालेयकणवर्षिणः ॥२६॥सिद्धोत्तमात्तसौगन्ध्यान्स्पर्शयामास मारुतान् ।चन्द्रबिम्बामृताम्भोधेर्महावीचिपरम्पराम् ॥२७॥अपश्यन्निर्मलज्योत्स्नामम्बरान्तरतां गता ।मेघान्तरेण गच्छन्ती मेघलग्नाश्च विद्युतः ॥२८॥अवियुक्ताः स्वभर्त्रा सा भूयो भूयो व्यलोकयत् ।उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम् ॥२९॥न स्वभावः शमं याति ममाप्युत्कण्ठितं मनः ।कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुनः ॥३०॥पश्यामि कान्तमित्युक्तं ममाप्युत्कण्ठते मनः ।मञ्जरीजालवलितास्तरुं वल्ल्यः स्वकं पतिम् ॥३१॥न मुञ्चन्ति क्षणमिति ममाप्युत्कण्ठते मनः ।यथेयमग्रजा कान्तमेति सिद्धाभिसारिका ॥३२॥तथा कदाहमेष्यामि ममापीति मनः स्थितम् ।इमे मन्दाश्च मरुत एते च शशिनः कराः ॥३३॥वनराजय एताश्च ममाप्युत्कण्ठयन्त्यहो ।हे चित्ताज्ञ मुधैवान्तः किं त्वं ताण्डवितं स्थितम् ॥३४॥सा व्योमनिर्मला साधो क्व ते याता विवेकिता ।अथवा चित्त भर्तारं स्वं प्रत्युत्कण्ठसे सखे ॥३५॥तिष्ठोत्कण्ठाभिवलितं किं समुत्कण्ठितेन मे ।किं वृथोत्कण्ठसे वामे भर्ता यातो जरां भवेत् ॥३६॥तपस्वी कृशगात्रश्च भवेन्निर्वासनस्तथा ।मनो राज्याद्यभोगेभ्यो मन्येऽस्यामूलतां गतम् ॥३७॥वासनालतिका प्रावुण्नदी नदगता यथा ।एकान्तरत एकात्मा नीरसः शान्तवासनः ॥३८॥मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः ।तथापि चित्त कोत्कण्ठा भवतोत्कण्ठयान्वितम् ॥३९॥मतिमुद्बोध्य योगेन श्लेषयिष्याम्यहं पतिम् ।प्रमृष्टकलनं भर्तुः समीकृत्य मनो मुनेः ॥४०॥राज्य एव नियोक्ष्यामि निवत्स्यावः सुखं चिरम् ।अहो नु चिरकालेन मनोरथमिमं शुभम् ॥४१॥अहमासादयिष्यामि यद्भर्ता समचिन्तितः ।समग्रानन्दवृन्दानामेतदेवोपरि स्थितम् ॥४२॥यत्समानमनोवृत्तिसङ्गमास्वादने सुखम् ।इति चिन्तयती व्योम्ना चूडालोल्लङ्घ्य पर्वतान् ॥४३॥देशानब्दान्दिगन्तांश्च प्राप मन्दरकन्दरम् ।अदृश्यैव नभःस्थैव प्रविवेश वनान्तरम् ॥४४॥वात्येव पादपलतास्पन्दवेद्यगमागमा ।वनैकदेशे कस्मिंश्चित्कृतपर्णोटजे पतिम् ॥४५॥दृष्ट्वा योगेन बुबुधे देहान्तरमिवास्थितम् ।हारकेयूरकटककुण्डलादिविभूषितः ॥४६॥अभवन्मेरुकान्तिर्यस्तमेवात्र ददर्श सा ।कृशाङ्गं कृष्णवर्णं च जीर्णपर्णमिव स्थितम् ॥४७॥कज्जलाम्बुभरस्नातं भृङ्गीशमिव निस्पृहम् ।चीराम्बरधरं शान्तमेकाकिनमवस्थितम् ॥४८॥स्थलीनिषण्णं पुष्पाणि ग्रथयन्तं जटाङ्कितम् ।तमालोक्यानवद्याङ्गी चूडाला पीवरस्तनी ॥४९॥किंचिज्जातविषादैवमुवाचात्मनि चेतसा ।अहो नु विषमं मौर्ख्यं तदनात्मज्ञतात्मकम् ॥५०॥एवंविधाः समायान्ति दशा मौर्ख्यप्रसादतः ।अयं स राजा लक्ष्मीवान्यतो मेऽतिप्रियः पतिः ॥५१॥हृदि मोहघनक्षुऽण्णामिमामभ्यागतो दशाम् ।तदवश्यमिहाद्यैव नाथं विदितवेद्यताम् ॥५२॥नयाम्यत्र न संदेहो भोगमोक्षश्रियं तथा ।इदं रूपं परित्यज्य रूपेणान्येन केनचित् ॥५३॥सकाशमस्य गच्छामि बोधं दातुमनुत्तमम् ।बालेयं मम कान्तेति मदुक्तं न करोत्यलम् ॥५४॥तस्मात्तापसरूपेण बोधयामि पतिं क्षणात् ।भर्ता कषायपाकेन परिपक्वमतिः स्थितः ॥५५॥चेतस्यस्याद्य विमले स्वं तत्त्वं प्रतिबिम्बति ।इति संचित्य चूडाला बभूव द्विजदारकः ॥५६॥ईषद्ध्यानाद्गतान्यत्वं क्षणादम्बुतरङ्गवत् ।पपात विपिने तस्मिन्द्विजपुत्रकरूपिणी ॥५७॥भर्तुरध्याजगामाग्रं मन्दस्मितलसन्मुखी ।ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः ॥५८॥वनान्तरादुपायातं तपो मूर्तिमिवास्थितम् ।द्रवत्कनकगौराङ्गं मुक्ताहारविभूषितम् ॥५९॥शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम् ।कमण्डलुधरं कान्तं पुरो यातं शिखिध्वजः ॥६०॥व्याप्तप्रकोष्ठद्विगुणेनाक्षसूत्रेण चारुणा ।भूमावलग्नगात्रेण किष्कुमात्रेण च स्थितम् ॥६१॥कुन्तलव्याप्तमूर्धानं सालिमालमिवाम्बुजम् ।भासयन्तं प्रदेशं तं शारीरैर्दीप्तिमण्डलैः ॥६२॥कुण्डलाभूषितमुखं नवमर्कमिवोदितम् ।शिखासंप्रोतमन्दारं श्रृङ्गस्थेन्दुमिवाचलम् ॥६३॥कान्तोपशान्तवपुषमूर्जितं विजितेन्द्रियम् ।हिमाभभस्मतिलकं भूषितालोकसुन्दरम् ॥६४॥मेरुहेमतटीलीनपूर्णेन्दुमिव चञ्चलम् ।तमालोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः ॥६५॥देवपुत्रागमधिया संपरित्यक्तपादुकः ।देवपुत्र नमस्कार इदमासनमास्यताम् ॥६६॥इत्यस्य दर्शयामास पाणिना पत्रविष्टरम् ।ददौ च द्विजपुत्रस्य पुष्पमुष्टिं करोत्करे ॥६७॥चन्द्रः कुमुदखण्डस्य प्रालेयमिव पल्लवे ।हे राजर्षे नमस्तुभ्यमिति द्विजसुतोऽवदत् ॥६८॥गृहीत्वा कुसुमान्यस्माद्विवेश पत्रविष्टरे ।शिखिध्वज उवाच ।देवपुत्र महाभाग कुत आगमनं कृतम् ।दिवसः सफलो मन्ये यत्त्वामद्यास्मि दृष्टवान् ॥६९॥इदमर्घ्यमिदं पाद्यं पुष्पाणीमानि मानद ।इमा प्रग्रथिता माला गृह्यन्तां भद्रमस्तु ते १७०॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा पाद्यमर्घ्यं च मालां पुष्पाणि चानघ ।शिखिध्वजस्तदिष्टायै ददौ देव्यै यथाखिलम् ॥७१॥चूडालोवाच ।सुबहूनि परिभ्रान्तो भूतलायतनान्यहम् ।त्वत्तः पूजा यथा प्राप्ता मयेयं न तथान्यतः ॥७२॥पेशलेनानुरूपेण प्रश्रयेणामुनानघ ।मन्येऽहं नूनमत्यन्तचिरंजीवी भविष्यसि ॥७३॥शान्तेन मनसोदारमारादुन्मुक्तकल्पनम् ।निर्वाणार्थं तपः साधो कच्चित्संभृतवानसि ॥७४॥असिधारासमं सौम्य शान्तव्रतमिदं तव ।स्फीतं यद्राज्यमुत्सृज्य महावननिषेवणम् ॥७५॥शिखिध्वज उवाच ।जानासि भगवन्सर्वं देवस्त्वं कोऽत्र विस्मयः ।श्रियैव लोकोत्तरया ज्ञायसे चिह्नरूपया ॥७६॥एतान्यङ्गानि ते चन्द्राद्धटितानीति मे मतिः ।अथवा किं समालोकादमृतेनेव सिञ्चसि ॥७७॥अस्ति मे दयिता कान्ता पाति मद्राज्यमद्य तत् ।तवेव तस्या दृष्टानि तान्यङ्गानीह सुन्दर ॥७८॥उपशान्तं च कान्तं च वपुरापादमस्तकम् ।श्रृङ्गं शुभ्राम्बुदेनेव पुष्पेणाच्छादयामुना ॥७९॥निष्कलङ्केन्दुसंकाशमङ्गमादित्यतेजसा ।मन्ये ते ग्लानिमायाति सुमनःपत्रपेलवम् ॥८०॥देवार्चनायोपचितमिदमित्थं सितं मया ।अङ्ग त्वदङ्गसङ्गेन तत्प्रयातु कृतार्थताम् ॥८१॥जीवितं याति साफल्यं स्वमभ्यागतपूजया ।देवादप्यधिकं पूज्यः सतामभ्यागतो जनः ॥८२॥तत्कस्त्वं कस्य पुत्रस्त्वं किमायातोऽस्यनुग्रहात् ।एतन्मे संशयं छिन्धि विमलेन्दुसमानन ॥८३॥ब्राह्मण उवाच ।राजन्मे शृणु वक्ष्यामि यथापृष्टमखण्डितम् ।को नाम परिपृच्छन्तं विनीतं वञ्चयेत्पुमान् ॥८४॥अस्त्यस्मिञ्जगतीकोशे शुद्धात्मा नारदो मुनिः ।पुण्यलक्ष्म्या मुखे कान्ते कर्पूरतिलकोपमः ॥८५॥स कदाचिन्मुनिर्देवो गुहायां ध्यानमास्थितः ।तत्र हेमतटे गङ्गा वहत्युरुतरङ्गिणी ॥८६॥मेरुलक्ष्म्यां स्फुरद्रूपा भान्ति हारलता यथा ।एकदा नारदमुनिर्ध्यानान्ते स सरित्तटे ॥८७॥ध्वनद्वलयमश्रौषील्लीलाकलकलारवम् ।किमेतदित्यसौ किंचिज्जातप्रायकुतूहलः ॥८८॥हेलयालोकयन्नद्यामपश्यल्ललनागणम् ।रम्भातिलोत्तमाप्रायं निर्यातं जललीलया ॥८९॥क्रीडन्तं त्यक्तवसनं देशे पुरुषवर्जिते ।काञ्चनाम्भोजमुकुलसंकाशैः स्तनमण्डलैः ॥९०॥परिवेल्लितमन्योन्यं फलकान्तं द्रुमं यथा ।द्रुतहेमरसापूरनिर्भराभोगभासुरैः ॥९१॥कुर्वन्तमुरुभिः काममन्दिरस्तम्भसंचयम् ।निर्मलीकृतचन्द्रेण व्याप्तां व्योमविलासिनीम् ॥९२॥लावण्यरसपूरेण तर्जयन्तमिवापगाम् ।प्राकारैरमरोद्यानरथचक्रैर्मनोभुवः ॥९३॥उत्पथार्पितगङ्गाम्बु नितम्बतटसेतुभिः ।सर्वत्र दृष्टसर्वाङ्गं विश्वरूपमिव स्थितम् ॥९४॥प्रतिबिम्बितसर्वाङ्गमन्योन्यादर्शतां गतम् ।कालकल्पतरोर्वर्षविटपात्पक्षपल्लवात् ॥९५॥विविधर्तुलताजालाद्दिनश्रीकलिकाकुलात् ।आलोकपुष्परजसो जाताद्गगनकानने ॥९६॥स्फुरज्जलखगप्रोतात्सप्ताब्ध्येकालवाडकात् ।स्तनस्तबकवृन्देषु स्पर्धयातिरसान्वितम् ॥९७॥उद्धृत्योद्धृत्य संपूर्णदलिताम्भोजपल्लवम् ।आलोलालककेशाक्षितारकादिमधुव्रतम् ॥९८॥अमृतापद्विघाताय कोशसंचयकारिभिः ।दुष्प्रापे भूतसंघानां विकसत्कनकाम्बुजे ॥९९॥पद्मिनीपल्लवाच्छन्ने गुप्ते मेरोर्गुहान्तरे ।शीतले स्वर्धुनीतीरे तोयोन्मृष्टमले सुरैः ॥१००॥चन्द्रबिम्बकलापूरमेकत्रैवोपसंहृतम् ।स्त्रैणमालोक्य तत्कान्तं सहसैव मनो मुनेः ॥१०१॥अनाश्रितविवेकांशं बभूवानन्दितं स्फुरत् ।आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते ॥१०२॥बभूव तस्य हृष्टस्य मदनस्खलितं तदा ।फलं रसापूर्णमिव ग्रीष्मान्त इव तोयदः ॥१०३॥प्रत्यग्रपादपश्छिन्नलतावृन्त इवोत्तम ।अवश्यायकणस्पन्दी शशाङ्क इव वा मुनिः ॥१०४॥विसं द्विधापातमिव गलत्साररसोऽभवत् ।शिखिध्वज उवाच ।तादृशोऽपि बहुज्ञोपि जीवन्मुक्तोऽप्यसौ मुनिः ॥१०५॥निरिच्छोऽपि निरागोपि न किंचिदुपमोऽप्यलम् ।सबाह्याभ्यन्तरं नित्यमाकाशविशदोपि च ॥१०६॥नारदोपि कथं ब्रह्मन् मदनस्खलितोऽभवत् ।चूडालोवाच ।सर्वस्या एव राजर्षे भूतजातेर्जगत्र्त्रये ॥१०७॥देवादेरपि देहोयं द्वयात्मैव स्वभावतः ।अज्ञमस्त्वथ तज्ज्ञं वा यावत्स्वान्तं शरीरकम् ॥१०८॥सर्वमेव जगत्यङ्ग सुखदुःखमयं स्मृतम् ।तृप्त्यादिना पदार्थेन केनचिद्वर्धते सुखम् ॥१०९॥आलोक इव दीपेन महाम्बुधिरिवेन्दुना ।क्षुधादिना पदार्थेन दुःखं केनचिदेव हि ॥११०॥तमो मेघपटेनेव स्वभावो ह्यत्र कारणम् ।स्वरूपे निर्मले सत्ये निमेषमपि विस्मृते ॥१११॥दृश्यमुल्लासमाप्नोति प्रावृषीव पयोधरः ।अनारतानुसंधानादप्युन्मेषमविस्मृते ॥११२॥स्वरूपे नोल्लसत्येष चित्ते दृश्यपिशाचकः ।यथा तमःप्रकाशाभ्यामहोरात्रौ स्थितिं गतौ ॥११३॥तथैव सुखदुःखाभ्यां शरीरं स्थितिमागतम् ।एवं हि सुखदुःखे द्वे जन्मकारणदर्शनात् ॥११४॥अक्षस्य गाढतां याते पटे कुङ्कुमवद्दृढम् ।तज्ज्ञस्य त्वङ्ग लगतो मनागपि न तद्वशात् ॥११५॥यथा शुभाशुभौ रागादिनाक्रान्ततरौ मणेः ।पुरःस्थवस्तुभावेन रञ्जनां स्फटिको यथा ॥११६॥तज्ज्ञस्तथा नैति बोधाज्जीवन्मुक्तमतिर्मुनिः ।वस्तुनः श्लेषमात्रेण घनरञ्जितमेति धीः ॥११७॥गतेऽपि वस्तुनि दृढं बुद्धिर्यत्परितापिता ।गतेऽपि कुङ्कुमे वस्त्रं तदीयमनुरञ्जनम् ॥११८॥न जहाति यथा मूढस्तथा विषयरञ्जनम् ।अनेनैव क्रमेणैतौ बन्धमोक्षौ व्यवस्थितौ ॥११९॥भावनातानवं मोक्षो बन्धो हि दृढभावना ।शिखिध्वज उवाच ।स्वोत्पत्तिकारणप्राप्तौ कथं दुःखं सुखं च वा ॥१२०॥अभ्युदेतीति वद मे दूरस्थानामपि प्रभो ।अत्युदारमतीवाच्छं बह्वर्थं वचनं तव ॥१२१॥श्रोतुं तृप्तिं न गच्छामि मयूरोऽभ्ररवेष्विव ।चूडालोवाच ।स्वोत्पत्तिकारणं हृद्यं लब्ध्वा कायाक्षिपाणिभिः ॥१२२॥सुखसंविदियं बाला नूनमुल्लसति स्वतः ।हृद्गता क्षोभमायाता जीवं कुण्डलिनीगतम् ॥१२३॥जीवस्य नियता नाड्यः पृथग्देहे स्थितिं गताः ।प्राणावपूरिता नाडीर्जीव आक्रामति स्फुरन् ॥१२४॥संस्पर्शैकप्रबुद्धात्मा रसो द्रुमलता इव ।सुखप्रबोधसंचारे दुःखबोधागमे तथा ॥१२५॥जीवस्य नियता नाड्यः पृथग्देहस्थितिं गताः ।सुखिनः प्रस्फुरत्येषा धीरताशु न दुःखिनः ॥१२६॥ते हि मार्गाः सुवेषस्य कुवेषस्य न ते शुभाः ।यावत्प्रमाणं जीवोऽयं संशाम्यत्यपरिस्फुरन् ॥१२७॥तावत्प्रमाणमेवैनं मुक्तं मुक्तमवेहि वै ।यावत्प्रमाणमधिकं स्फुरति क्षुब्धमारुतम् ॥१२८॥तावत्प्रमाणमेवैनं बद्धं बद्धमवेहि मे ।सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः ॥१२९॥तदभावे हि मोक्षः स्यादिति द्वेधा व्यवस्थितिः ।सुखदुःखदशे यावदानीते नेन्द्रियैः शठैः ॥१३०॥तावत्सुखसमः सौम्यो जीवस्तिष्ठति शान्तवत् ।सुखमालोक्य वा दुःखमक्षातीतश्चलद्वपुः ॥१३१॥समुल्लसति जीवोऽन्तर्दृष्ट्वेन्दुमिव तोयधिः ।जीवः क्षुभ्यति दृष्टेन संविदांग सुखादिना ॥१३२॥आमिषेणेव मार्जारो मौर्ख्यमेवात्र कारणम् ।शुद्धेन बोध्यबोधेन स्वात्मज्ञानमयात्मना ॥१३३॥सुखदुःखादि नास्तीति तेनासौ याति सौम्यताम् ।न तत्सुखादि नो तन्मे मुधा चायमहं स्थितः ॥१३४॥इति जीवः प्रबुद्धो हि निर्वाणं याति शाम्यति ।सुखाद्यवस्त्वतद्रूपमित्यन्तर्बोधसंविदा ॥१३५॥न तदुन्मुखतां याति जीवः शाम्यति केवलम् ।सर्वमेव चिदाकाशं ब्रह्मेति घननिश्चये ॥१३॥६॥स्थितिं याते शमं याति जीवो निःस्नेहदीपवत् ।दीपवच्छममायाति सुखादिस्नेहसंक्षये ॥१३७॥सर्वमेवमिति ज्ञानाज्जीवोऽद्वित्वविभावनात् ।सर्वमाकाशमेवेति बुद्ध्वा क्षोभं न गच्छति ॥१३८॥जीवस्यानेन शून्यस्य कः किल क्षोभविभ्रमः ।जीवेनेदृग्विधेनैव यथा प्रथमसर्गतः ॥१३९॥स्वयं संविदितो मार्गस्तेनैवाद्यापि गच्छति ।शिखिध्वज उवाच ।सुखसंचारयोग्यासु जीवे सरति नाडिषु ॥१४०॥देवपुत्र भवत्येव तद्वीर्यच्यवनं कथम् ।चूडालोवाच ।जीवः क्षोभयति क्षुब्धः प्राणादिपवनावलिम् ॥१४१॥संविदा ज्ञांशमात्रेण सेनामिव महीपतिः ।वातस्पन्देन मेदोऽन्तर्मज्जासारश्च संस्थितः ॥१४२॥त्यजत्याशु प्रसौगन्ध्यं रजः पत्रफलादिकम् ।चलितं तत्त्वधो याति गर्जादिव घनादि खे ॥१४३॥देहनाडीप्रणालेन याति शुक्रं बहिः स्वतः ।शिखिध्वज उवाच ।देवपुत्रमहाज्ञोऽसि वेत्सि पूर्वां च तत्स्थितिम् ॥१४४॥ज्ञायसे वचनादेव स्वभावो हि किमुच्यते ।चूडालोवाच ।आद्यसर्गे यथा सद्यः स्फुरितं ब्रह्म ब्रह्मणि ॥१४५॥घटावटपटाद्यात्म तथैवाद्यव्यवस्थितम् ।काकतालीयवद्वारिबुद्बुदोत्पत्तिनाशवत् ।घुणाक्षरवदुच्छूनं तं स्वभावं विदुर्बुधाः ॥१४६॥अस्मिन्स्वभाववशतो जगति प्ररूढेदेहा भ्रमन्ति परितो विविधा विकाराः ।प्रक्षीणवासनतया न भवन्ति केचि-द्भूयो भवन्ति च पुनस्त्वितरे घनास्थाः ॥१४७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० सुखविचारयोगोपदेशो नाम पञ्चाशीतितमः सर्गः ॥८५॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP