संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः १८

निर्वाणप्रकरणं - सर्गः १८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


भुशुण्ड उवाच ।
अस्त्यस्मिञ्जगति श्रेष्ठः सर्वनाकनिवासिनाम् ।
देवदेवो हरो नाम देवदेवाभिवन्दितः ॥१॥
षट्पदश्रेणिनयना यस्योच्चस्तबकस्तनी ।
विलासिनी शरीरार्धे लता चूततरोरिव ॥२॥
हिमहारसिता यस्य लहरीस्तबकोम्भिता ॥
आवेष्टितजटालूटा गङ्गाकुसुममालिका ॥३॥
क्षीरसागरसंभूतः प्रसृतामृतनिर्झरः ।
प्रतिबिम्बकरः श्रीमान्यस्य चूडामणिः शशी ॥४॥
अनारतशिरश्चन्द्रप्रस्रवेणामृतीकृतः ।
यस्येन्द्रनीलवत्कालकूटः कण्ठे विभूषणम् ॥५॥
धूलिलेखामहावर्तं स्वच्छपावकसंभवम् ।
परमाणुमयं भस्म यस्य ज्ञानजलं सितम् ॥६॥
निर्मलानि जितेन्दूनि सृष्टानि घटितानि च ।
यस्यास्थीन्येव रत्नानि देहकान्तमयानि च ॥७॥
सुधाकरसुधाधीतं नीलनीरदपल्लवम् ।
तारकाबिन्दुशबलं यस्य चाम्वरमम्बरम् ॥८॥
भ्रमच्छिवाङ्गनापक्वमहामांसौदनाकुलम् ।
बहिर्भूतं गृहं यस्य श्मशानं हिमपाण्डुरम् ॥९॥
कपालमालाभरणाः पीतरक्तवसासवाः ।
आन्त्रस्रग्दामवलिता बन्धवो यस्य मातरः ॥१०॥
प्रस्फुरन्मूर्धमणयश्चरन्तो मसृणाङ्गकाः ।
भुजगा वलया यस्य प्रकचत्कनकत्विषः ॥११॥
दृक्पातदग्धशैलेन्द्रं जगत्कवललालसम् ।
भैरवाचरितं यस्य लीलासंत्रासितासुरम् ॥१२॥
स्वस्थीकृतजगज्जातस्वव्यापारस्थचेतसः ।
यदृच्छया करस्पन्दो यस्यासुरपुरक्षयः ॥१३॥
एकाग्रमूर्तयः स्नेहरागद्वेषविवर्जिताः ।
स्वशना यस्य ते शैलाः सरसा अपि नीरसाः ॥१४॥
शिरःखुराः खुरकराः करदन्तमुखोदराः ।
ऋक्षोष्ट्राजाहिवक्त्राश्च प्रमथा यस्य लालकाः ॥१५॥
तस्य नेत्रत्रयोद्भासिवदनस्यामलप्रभाः ।
यथा गणास्तथैवान्याः परिवारो हि मातरः ॥१६॥
नृत्यन्ति मातरस्तस्य पुरो भूतगणानताः ।
चतुर्दशविधानन्तभूतजातैकभोजनाः ॥१७॥
खरोष्ट्राकारवदना रक्तमेदोवसासवाः ।
दिगन्तरविहारिण्यः शरीरावयवस्रजः ॥१८॥
वसन्तगिरिकूटेषु व्योम्नि लोकान्तरेषु च ।
अवटेषु श्मशानेषु शरीरेषु च देहिनाम् ॥१९॥
जया च विजया चैव जयन्ती चापराजिता ।
सिद्धा रक्तालम्बुसा च उत्पला चेति देवताः ॥२०॥
सर्वासामेव मातॄणामष्टावेतास्तु नायिकाः ।
आसामनुगतास्त्वन्यास्तासामनुगताः पराः ॥२१॥
तासां मध्ये महार्हाणां मातॄणां मुनिनायक ।
अलम्बुसेति विख्याता माता मानद विद्यते ॥२२॥
वज्रास्थितुण्डश्चण्डाख्य इन्द्रनीलाचलोपमः ।
तस्यास्तु वाहनं काको वैष्णव्या गरुडो यथा ॥२३॥
इत्यष्टैश्वर्ययुक्तास्ता मातरो रौद्रचेष्टिताः ।
कदाचिन्मिलिता व्योम्नि सर्वाः केनापि हेतुना ॥२४॥
उत्सवं परमं चक्रुः परमार्थप्रकाशकम् ।
वामस्रोतोगता एतास्तुम्बुरुं रुद्रमाश्रिताः ॥२५॥
पूजयित्वा जगत्पूज्यौ देवौ तुम्बुरुभैरवौ ।
विचित्रार्थाः कथाश्चक्रुर्मदिरामदतोषिताः ॥२६॥
अथेयमाययौ तासां कथावसरतः कथा ।
अस्मानुमापतिर्देवः किं पश्यत्यवहेलया ॥२७॥
प्रभावं दर्शयामोऽस्य पुनर्नास्मांस्त्वसौ यथा ।
दृष्टमात्रमहाशक्तिः करिष्यत्यवधीरणम् ॥२८॥
इति निश्चित्य ता देव्यो विवर्णवदनाङ्गिकाम् ।
उमामेव वशीकृत्य प्रोक्षयामासुरादृताः ॥२९॥
माययापहृतां भर्तुरङ्गाद्रङ्गमुपागताम् ।
तामालोलकचां देव्यः शेपुरोदनतां गताम् ॥३०॥
पार्वतीप्रोक्षणदिने तस्मिंस्तत्र महोत्सवः ।
बभूव तासां सर्वासां नृत्यगेयमनोहरः ॥३१॥
अत्यानन्दमनुद्दामरवमेवाम्बरं बभौ ।
दीर्घावयवविक्षेपविकासिजघनोदराः ॥३२॥
अन्या जहसुरुद्दामतालक्ष्वेडाघनारवम् ।
लसदङ्गविकारं च ध्वनत्सगिरिकाननाः ॥३३॥
अन्या जगुर्ध्वनच्छैलग्रहमापानतोषिताः ।
वारीव रववद्रञ्जज्जगन्मण्डलकोटरे ॥३४॥
अन्याः पानं पपुः पुष्टचर्चिताङ्गशिरःखुरम् ।
लीलाघुरघुरारावरणदाकाशकोटरे ॥३५॥
पपुरुदगुरथोच्चैः सत्वरा जग्मुरूचु-
र्जहसुरपुरहौषुः पेतुरुच्चैर्ववल्गुः ।
ननृतुरनिशमादुः स्वादु मांसं च देव्य-
स्त्रिभुवनमपवृत्तं चक्ररुन्मत्तवृत्ताः ॥३६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भु० मातृव्यवहारवर्णनं नामाष्टादशः सर्गः ॥१८॥

N/A

References : N/A
Last Updated : September 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP