संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०९ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ तां दयितां दृष्ट्वा विस्मयोत्फुल्ललोचनः ।शिखिध्वज उवाचेदमाश्चर्याकुलया गिरा ॥१॥का त्वमुत्पलपत्राक्षि कुतः प्राप्तासि सुन्दरि ।किमिहासि कियत्कालं किमर्थमिह तिष्ठसि ॥२॥अङ्गेन व्यवहारेण स्मितेनानुनयेन च ।मम जायाविलासेन तत्कलेवोपलक्ष्यसे ॥३॥चूडालोवाच ।एवमेव प्रभो विद्धि चूडालास्मि न संशयः ।अकृत्रिमेण देहेन लब्धोऽस्यद्य मया स्वयम् ॥४॥कुम्भादिदेहनिर्माणैस्त्वां बोधयितुमेव मे ।प्रपञ्चः शतशाखत्वमिह यातो वनान्तरे ॥५॥यदा राज्यं परित्यज्य मोहेन तपसे वनम् ।त्वमागास्तत्प्रभृत्येव त्वद्बोधायाहमुद्यता ॥६॥अनेन कुम्भदेहेन मयैव त्वं विबोधितः ।कुम्भादिदेहनिर्माणं त्वां बोधयितुमेव मे ॥७॥मायया न तु कुम्भादि किंचित्सत्यं महीपते ।अथो विदितवेद्यस्त्वं ध्यानेनैतदखण्डितम् ॥८॥सर्वं पश्यसि तत्त्वज्ञ ध्यानेनाश्ववलोकय ।अथ चूडालयेत्युक्तो बद्ध्वा परिकरं नृपः ॥९॥आत्मोदन्तं विशेषेण ध्यानेनामलमैक्षत ।अभिराज्यपरित्यागाच्चूडालादर्शनावधि ॥१०॥सर्वं मुहूर्तध्यानेन चात्मोदन्तं ददर्श सः ।आराज्यसंपरित्यागाद्वर्तमानक्षणक्रमम् ॥११॥सर्वमालोक्य भूपालो विरराम समाधितः ।समाधिविरतो हर्षविकासिनयनाम्बुजः ॥१२॥विसार्य तरसा बाहू पुलकोज्ज्वलतां गतौ ।गलदङ्गं घनस्नेहं मुञ्चद्बाष्पं स्फुरत्स्पृहम् ॥१३॥आलिलिङ्ग चिरं कान्तां नकुलो नकुलीमिव ।तयोरालिङ्गने तस्मिंस्तत्र भावो बभूव यः ॥१४॥न स वासुकिजिह्नाभिर्वक्तुं हर्षेण शक्यते ।दिविस्थाविव पङ्केन कृताविव मिलत्तनू ॥१५॥शैलाविव समुत्कीर्णौ श्लिष्टावास्तां चिरं प्रियौ ।मुहूर्तेन गलद्धर्मजलौ पुलकपीवरौ ॥१६॥बाहू विश्लथतामीषन्निन्यतुस्तौ शनैः प्रियौ ।अमृतापूर्णहृदयौ संशून्यहृदयोपमौ ॥१७॥उन्मुक्तभुजमास्तां तावलक्षस्थितलोचनम् ।घनानन्दक्षणं स्थित्वा तूष्णीं प्रणयपेशलम् ॥१८॥कान्तां चिबुकसंलग्नकरः प्रोवाच भूपतिः ।अत्यन्तमधुरस्निग्धः कान्तः स्वकुलयोषिताम् ॥१९॥पुण्यश्च रतिनिष्पन्दः स्वादुर्नामामृतादपि ।कियत्प्रमाणस्तन्वंग्या त्वया बालेन्दुमुग्धया ॥२०॥अनुभूतश्चिरं क्लेशो भर्तुरर्थेन दारुणः ।एवं दुरुत्तरात्तस्मात्संसारकुहरादहम् ॥२१॥उत्तारितो यया बुद्ध्या सा हि केनोपमीयते ।अरुन्धती शची गौरी गायत्री श्रीः सरस्वती ॥२२॥समस्ताः पेलवायन्ते तव तन्व्या गुणश्रिया ।धीः श्रीः कान्तिः क्षमा मैत्री करुणाद्यास्तु सुन्दरि ॥२३॥कान्तास्वाकारकान्तासु प्रथमेवाभिलक्ष्यसे ।परेणाध्यवसायेन त्वयाहमवबोधितः ॥२४॥केन प्रत्युपकारेण परितुष्यति ते मनः ।मोहादनादिगहनादनन्तगहनादपि ॥२५॥पतितं व्यवसायिन्यस्तारयन्ति कुलस्त्रियः ।शास्त्रार्थगुरुमन्त्रादि तथा नोत्तारणक्षमम् ॥२६॥यथैताः स्नेहशालिन्यो भर्तृणां कुलयोषितः ।सखा भ्राता सुहृद्भृत्यो गुरुर्मित्रं धने सुखम् ॥२७॥शास्त्रमायतनं दासः सर्वम भर्तुः कुलाङ्गनाः ।सर्वदा सर्वयत्नेन पूजनीयाः कुलाङ्गनाः ॥२८॥लोकद्वयसुखं सम्यक्सर्वं यासु प्रतिष्ठितम् ।निरिच्छायाः प्रयातायाः पारं संसारवारिधेः ॥२९॥कथमस्योपकारस्य करिष्ये ते प्रतिक्रियाः ।मन्ये कुलाङ्गनां लोके लोके सर्वास्त्वयाधुना ॥३०॥नारीसौजन्यचर्चासु व्यपदेश्या भविष्यसि ।त्वां निर्मितवतो धातुर्गुणजालातिशायिनीम् ॥३१॥मन्ये प्रकुपिता नूनमरुन्धत्यादिकाः स्त्रियः ।सती त्वं रूपसौजन्यगुणरत्नसमुद्गिके ॥३२॥एहि मे त्वद्गुणोत्कस्य पुनरालिङ्गनं कुरु ।श्रीवसिष्ठ उवाच ।इत्युक्त्वा मृगशावाक्षीं चूडालां तां शिखिध्वजः ॥३३॥आलिलिङ्ग पुनर्गाढं नकुलो नकुलीमिव ।चूडालोवाच ।देव शुष्कक्रियाजालपरे त्वय्याकुलात्मनि ॥३४॥भूयोभूयो भृशमहं त्वदर्थं दुःखिताभवम् ।तेन त्वदवबोधात्मा स्वार्थं एवोपपादितः ॥३५॥मया तदत्र किं देव करोषि मम गौरवम् ।शिखिध्वज उवाच ।त्वया यथा वरारोहे स्वार्थः संपाद्यते शुभः ॥३६॥तमिदानीं तथा सर्वाः साधयन्तु कुलाङ्गनाः ।चूडालोवाच ।बुध्यसे कान्त विश्रान्तो जगज्जालतटे विभो ॥३७॥अद्य तं प्राक्तनं किंचिन्मोहं समनुपश्यसि ।इदं करोमि नेदं तु प्राप्नोमीदमिति स्थितिम् ॥३८॥अन्तर्हससि तां कच्चिद्दशापेलवतां धियः ।तास्तुच्छतृष्णाकलनास्ताः संकल्पकुकल्पनाः ॥३९॥त्वयि नाद्यावलोक्यन्ते देव व्योम्नीव पर्वताः ।किं त्वमद्याङ्ग संपन्नः किंनिष्ठोऽसि किमीहसे ॥४०॥कथं पश्यसि पाश्चात्यं देहचेष्टाक्रमं विभो ।शिखिध्वज उवाच ।सुमनःपूर्णनीलाब्जमालासारविलोचने ॥४१॥त्वमेव यस्य यस्यान्तस्तत्तस्याहमुपास्थितः ।निरीहोऽस्मि निरंशोऽस्मि नभःस्वच्छोऽस्मि निस्पृहः ॥४२॥शान्तोऽहमर्थरूपोऽस्मि चिरायाहमहं स्थितः ।तां दशामुपयातोऽस्मि यतश्चित्तैकवर्त्मनि ॥४३॥प्रतिषेधन्ति सहसा न यां हरिहरादयः ।नकिंचिन्मात्रचिन्मात्रनिष्ठोऽस्मि स्वस्थ आस्थितः ॥४४॥भ्रमेणाहं विमुक्तोऽस्मि संसारेणालिलोचने ।न तुष्टोस्मि न खिन्नोऽस्मि नायमस्मि न चेतरत् ॥४५॥न स्थूलोऽस्मि न सूक्ष्मोऽस्मि सत्यमस्मि च सुन्दरि ।तेजोबिम्बात्प्रयातेन भित्तावपतितेन च ॥४६॥क्षयातिशयमुक्तेन प्रकाशेनास्मि वै समः ।शान्तोस्मि साम्यं नेतास्मि स्वस्थोस्मि विगताशयः ॥४७॥परिनिर्वाण एवास्मि सदृशोऽस्मि पतिव्रते ।यत्तदस्मि तदेवास्मि वक्तुं शक्रोमि नेतरत् ॥४८॥तरङ्गतरलापाङ्गे गुरुस्त्वं मे नमोऽस्तु ते ।प्रसादेन विशालाक्ष्यास्तीर्णोऽस्मि भवसागरात् ॥४९॥पुनर्मलं न गृह्णामि शतध्मातसुवर्णवत् ।शान्तः स्वस्थो मृदुर्यत्तो वीतरागो निरंशधीः ॥५०॥सर्वातीतः सर्वगश्च खमिवायमहं स्थितः ।चूडालोवाच ।एवं स्थिते महासत्त्व प्राणेश हृदयप्रिय ॥५१॥किमिदानीं प्रभो ब्रूहि रोचते ते महामते ।शिखिध्वज उवाच ।प्रतिषेधं न जानामि न जानाम्यभिवाञ्छितम् ॥५२॥यदाचरसि तन्वि त्वं कदाचिद्वेद्मि तत्तथा ।यद्यन्मतं ते सकलं तथास्त्वविकलं प्रिये ॥५३॥न किंचिदनुसंधातुं जानाम्यम्बरसुन्दरः ।यदेव किंचिज्जानासि तदेव कुरु सुन्दरि ॥५४॥तदेव धारयिष्यामि प्रतिबिम्बं यथा मणिः ।चेतसा गलितेष्टेन यथाप्राप्तमनिन्दितम् ॥५५॥न स्तौमि न च निन्दामि यदिच्छसि तदाचर ।चूडालोवाच ।यद्येवं तन्महाबाहो समाकर्णय मन्मतम् ॥५६॥आकर्ण्य जीवन्मुक्तात्मस्तदेवाहर्तुमर्हसि ।सर्वत्रैक्यावबोधेन मौर्ख्यक्षयभुवान्विताः ॥५७॥निरिच्छास्तावदाकाशविशदाः संस्थिता वयम् ।यादृगेषणमस्माकं तादृशं तदनेषणम् ॥५८॥यत्प्राणानैषणे कोऽत्र चिन्मात्रोऽभ्यसते हि कः ।तस्मादाद्यन्तमध्येषु ये वयं पुरुषोत्तम ॥५९॥शेषमेकं परित्यज्य त एवेमे स्थिता वयम् ।राज्येन सांप्रतेनेमं कालं नीत्वा क्रमेण वै ॥६०॥विदेहतां प्रयास्यामः प्रभो कालेन केनचित् ।शिखिध्वज उवाच ।वयमाद्यन्तमध्येषु कीदृशास्तरले वद ॥६१॥शेषमेकं परित्यज्य तिष्ठामः कथमेव वा ।चूडालोवाच ।वयमाद्यन्तमध्येषु राजानो राजसत्तम ॥६२॥मोहमेकं परित्यज्य भवामः पुनरेव ते ।स्व एव नगरे राजा भव त्वं स्वासने स्थितः ॥६३॥ललामो ननु कान्तानां महिषी ते भवाम्यहम् ।सनृपा मत्तवास्तव्या नृत्यन्नवनवाङ्गना ॥६४॥सपताका ध्वनत्तूर्या पुष्पप्रकरिणी पुरी ।लसद्वल्ल्या समञ्जर्या रणत्पुष्पालिमालया ।मधुमासलतालक्ष्म्या चिराद्भवतु सा समा ॥६५॥श्रीवसिष्ठ उवाच ।इति चूडालया प्रोक्तो विहस्य स शिखिध्वजः ।प्रोवाच मधुरं वाक्यमक्षुब्धं विगतज्वरः ॥६६॥एवं चेत्तद्विशालाक्षि स्वायत्ता नस्त्रिविष्टपे ।सिद्धभोगश्रियस्तासु निवसामि न किं प्रिये ॥६७॥चूडालोवाच ।न राजन्मम भोगेषु वाञ्छा नापि विभूतिषु ।स्वभावस्य वशादेव यथाप्राप्तेन मे स्थितिः ॥६८॥न सुखाय मम स्वर्गो न राज्यं नापि च क्रिया ।यथास्थितमविक्षुब्धं तिष्ठामि स्वस्थचेष्टिता ॥६९॥इदं सुखमिदं नेति मिथुने क्षयमागते ।सममेव पदे शान्ते तिष्ठामीह यथासुखम् ॥७०॥शिखिध्वज उवाच ।युक्तमुक्तं विशालाक्षि त्वयैतत्समया धिया ।को वार्थः किल राज्यस्य ग्रहे त्यागेऽपि वा भवेत् ॥७१॥सुखदुःखदशाचिन्तां त्यक्त्वा विगतमत्सरम् ।यथासंस्थानमेवेमौ तिष्ठावः स्वस्थतां गतौ ॥७२॥इति तत्र कथालापकथनेन तयोर्द्वयोः ।कान्तयोश्चिरदंपत्योर्वासरस्तनुतां ययौ ॥७३॥अथोत्थाय दिनाचारं यथाप्राप्तमनिन्दितौ ।सोत्कण्ठावप्यनुत्कण्ठौ चक्रतुः कार्यकोविदौ ॥७४॥स्वर्गसिद्धिमनादृत्य तस्थतुः पूर्णचेतसौ ।एकस्मिन्नेव शयने तैस्तैः प्रणयचेष्टितैः ।सा व्यतीयाय रजनी तयोर्जीवद्विमुक्तयोः ॥७५॥तद्भोगमोक्षसुखमुत्तमयोः स्वय स-माशंसतोः प्रणयवाक्यविलासगर्भम् ।उत्कण्ठतां प्रणयिनोर्धियमानयन्तीदीर्घा मुहूर्तवदसौ रजनी जगाम ॥७६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० चू० चूडालाप्रकटीकरणं नाम नवोत्तरशततमः सर्गः ॥१० ९॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP