संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०८ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।तां मायां शममानीय चूडाला समचिन्तयत् ।दिष्टया भोगेच्छया नायं ह्रियते वसुधाधिपः ॥१॥शान्तः समसमाभोग एवं शक्रसमागमे ।असंरम्भमहेलं च कृतवान्व्यावहारिकम् ॥२॥भूय एव प्रपञ्चेन विमृशाम्येव सादरम् ।रागद्वेषप्रधानेन केनचिद्बुद्धिहारिणा ॥३॥इति संचिन्त्य सा रात्राविन्दावभ्युदिते वने ।गृहीतमङ्गनारूपं कान्ता मदनिका सती ॥४॥वाते वहति फुल्लाढ्ये मधुरामोदमांसले ।संध्याजप्यपरे नद्यास्तीरसंस्थे शिखिध्वजे ॥५॥संतानकलतागेहं नीरन्ध्रैः पुष्पगुच्छकैः ।शुद्धान्तं वनदेवीनां प्रविवेश मदान्विता ॥६॥तत्र संकल्पिते पुष्पशयने माल्यमालिता ।कण्ठे संकल्पितं कान्तं खिङ्गमादाय संस्थिता ॥७॥आगत्यान्विष्य कुञ्जात्स प्रददर्श शिखिध्वजः ।लतागेहे मदनिकां कण्ठे खिङ्गं मनोहरम् ॥८॥कुन्तलावलितस्कन्धं समालब्धं च चन्दनैः ।शयनावृतिनिक्षेपपर्याकुलितशेखरम् ॥९॥हेमाभे द्विगुणाकारबालाबाहूपधानके ।संसक्तश्रवणापाङ्गकपोलतलकुन्तलम् ॥१०॥मिथुनं तद्ददर्शाथ मिथः प्रहसिताननम् ।अन्योन्यवदनासक्तं छन्नं कल्पलतांशुकैः ॥११॥आलोलमाल्यशयनं मदनातुरमाकुलम् ।अङ्गलग्नच्छलेनात्मरागमन्योन्यमर्पयत् ॥१२॥अभ्युन्मुखं समानन्दमुद्दाममदमन्थरम् ।परस्पराहतं पुष्पैर्वक्षोभ्यां पीडितस्तनम् ॥१३॥तदालोक्याविकारेण चेतसालं तुतोष सः ।अहो सुखं स्थितौ खिङ्गावित्याह स शिखिध्वजः ॥१४॥तिष्ठताङ्ग यथाकामं सुखं खिङ्गौ यथास्थितम् ।विघ्नं माकरवं भीतावित्युक्त्वा निर्जगाम सः ॥१५॥ततो मुहूर्तमात्रेण प्रपञ्चं तमुपेक्ष्य सा ।निर्ययौ दर्शयन्ती स्वं रतिफुल्लाकुलं वपुः ॥१६॥उपविष्टं ददर्शैनं नृपं हेमशिलातले ।समाधिसंस्थमेकान्ते मनाग्विकसितेक्षणम् ॥१७॥तं प्रदेशमुपागम्य लज्जावनमितानना ।तूष्णीमासीत्क्षणं खिन्ना म्लाना मदनिकाङ्गना ॥१८॥क्षणाच्छिखिध्वजो ध्यानाद्विरतस्तामुवाच ह ।अत्यन्तमधुरं वाक्यमिदमक्षुब्धया धिया ॥१९॥तन्वि किं शीघ्रमेव त्वं विघ्नितानन्दमागता ।आनन्दायैव भूतानि यतन्ते यानि कानिचित् ॥२०॥भूयस्तोषय तं गच्छ कान्तं प्रणयवृत्तिभिः ।परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये ॥२१॥अहमेतेन चार्थेन नोद्वेगं यामि मानिनि ।यद्यदिष्टतमं लोके तत्तदेव विजानता ॥२२॥अहं कुम्भश्च तन्वङ्गि वीतरागाविहेतरा ।दुर्वासःशापजा बाला त्वं यदिच्छसि तत्कुरु ॥२३॥मदनिकोवाच ।एवमेष महाभाग स्त्रीस्वभावो हि चञ्चलः ।कामो ह्यष्टगुणः स्त्रीणां न कोपं कर्तुमर्हसि ॥२४॥अबलाहमनेनास्मि रात्रौ गहनकानने ।त्वयि संध्याजपपरे किं करोमि वराकिका ॥२५॥अबला वा कुमारी वा जारं न रतिरोधनम् ।करोति परिखिङ्गेन नाङ्गे स्वे विनिवेशितम् ॥२६॥स्त्रियः सुन्दरतां याताः पुरपुंसामसङ्गमे ।मन्युर्निषेध आक्रन्दः सतीत्वं किं करिष्यति ॥२७॥अबला स्त्री तथा बाला मूढाहमपराधिनी ।क्षन्तुमर्हसि नाथ त्वं क्षमावन्तो हि साधवः ॥२८॥शिखिध्वज उवाच ।मन्युर्मम न बालेऽन्तर्विद्यते ख इव द्रुमः ।केवलं साधुनिन्द्यत्वान्नेच्छामि त्वामहं वधूम् ॥२९॥सुहृत्त्वेन वनान्तेषु पूर्ववत्सुखमङ्गने ।वीतरागतया नित्यं सममेव रमावहे ॥३०॥श्रीवसिष्ठ उवाच ।एवं समतया तत्र स्थिते तस्मिञ्छिखिध्वजे ।चूडाला चिन्तयामास तत्सत्त्वेनोदिताशया ॥३१॥अहो वत परं साम्यं भगवानयमागतः ।वीतरागतयाऽक्रोधो जीवन्मुक्तोऽवतिष्ठते ॥३२॥नैनं हरन्ति ते भोगा न महत्योऽपि सिद्धयः ।न सुखानि न दुःखानि नापदो न च संपदः ॥३३॥चिन्तिताः सकला एकं प्रयान्त्येनमनिन्दिताः ।मन्ये महर्द्धयः कान्ता नारायणमिवापरम् ॥३४॥आत्मवृत्तान्तमखिलं तमेनं स्मारयाम्यहम् ।कुम्भरूपमिदं त्यक्त्वा चूडालैव भवाम्यहम् ॥३५॥इति संचिन्त्य चूडाला चूडालावपुरक्षता ।दर्शयामास तत्राशु त्यक्त्वा मदनिकावपुः ॥३३॥तस्मान्मदनिकादेहाच्चूडाला निर्गतेव सा ।बभावस्य पुरो युक्ता निर्गतेव समुद्गकात् ॥३७॥तां ददर्शानवद्याङ्गीं पुनः प्रणयपेशलाम् ।कान्तां मदनिकामेव चूडालां दयितां स्थिताम् ॥३८॥समुदितामिव माधवपद्मिनी-मुपगतामिव भूमितलाच्छ्रियम् ।प्रकटितामिव रत्नसमुद्गका-त्परिददर्श निजां दयितां नृपः ॥३९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० चूडालास्वरूपदर्शनं नामाष्टोत्तरशततमः सर्गः ॥१०८॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP