संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५९ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एतां दृष्टिमवष्टभ्य राघवाऽघविनाशिनीम् ।तिष्ठ निःसङ्गसंन्यासब्रह्मार्पणमयात्मकः ॥१॥यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।यश्च सर्वमयो नित्यमात्मानं विद्धि तं परम् ॥२॥दूरस्थमप्यदूरस्थं सर्वगं तत्स्थमेव च ।तत्स्थः सत्तामवाप्नोषि तदेवास्यस्तसंशयः ॥३॥यत्संवेद्यविनिर्मुक्तं संवेदनमनिर्मितम् ।चेत्यमुक्तं चिदाभासं तद्विद्धि परमं पदम् ॥४॥सा परा परमा काष्ठा सा दृशां दृगनुत्तमा ।सा महिम्नां च महिमा गुरूणां सा तथा गुरुः ॥५॥स आत्मा तच्च विज्ञानं स शून्यं ब्रह्म तत्परम् ।तच्छ्रेयः स शिवः शान्तः सा विद्या सा परा स्थितिः ॥६॥योऽयमन्तश्चितेरात्मा सर्वानुभवरूपकः ।यत्र स्वदन्ते सर्वाणि स्वात्मद्रव्याणि सत्तया ॥७॥स जगत्तिलतैलात्मा स जगद्गृहदीपकः ।स जगत्पादपरसः स जगत्पशुपालकः ॥८॥स तन्तुर्भूतमुक्तानां परिप्रोतहृदम्बरः ।स भूतमरिचौघानां परमा तीक्ष्णता तथा ॥९॥स पदार्थे पदार्थत्वं स तत्त्वं यदनुत्तमम् ।स सतो वस्तुनः सत्त्वमसत्त्वं वा सतः स्वतः ॥१०॥यः स्ववित्तिविचित्रेण स्वयमात्मैव लभ्यते ।सर्व एव जगद्भावा अविचारेण चारवः ॥११॥अविद्यमानाः सद्भावा विचारविशरारवः ।अहमादौ जगज्जाले मिथ्याभ्रमभरात्मनि ॥१२॥को नु भूत्वाऽनुबध्नामि वृत्तिं कथमवाप धीः ।आद्यमध्यान्तमानानि संकल्पकलनान्यहम् ॥१३॥ब्रह्माकाशमनाद्यन्तं केवेयत्ता ममात्मनः ।इति निश्चयवानन्तः सम्यग्व्यवहृतिर्बहिः ॥१४॥उदयास्तमयोन्मुक्तस्थितिरन्तः स सर्वदा ।नास्तमेति न चोदेति मनः समसमस्थितम् ॥१५॥यस्य खस्येव शून्यत्वं स महात्मेह तद्वपुः ।भावाद्वैतपदारूढः सुषुप्तपरया धिया ॥१६॥व्यवहार्यपि संक्षोभं नैत्यादर्शनरो यथा ।आदर्शपुरुषस्येव व्यवहारवतोऽपि च ॥१७॥न यस्य हृदयोल्लेखो मनागपि स मुक्तिभाक् ।अविभागमिवादर्शे चिन्मणौ प्रतिबिम्बति ॥१८॥चितेः परमनैर्मल्याद्व्यवहारो यथा गतः ।चिच्चमत्कृतिरेवेयं जगदित्यवभासते ॥१९॥नेहास्त्यैक्यं न च द्वित्वं ममादेशोऽपि तन्मयः ।वाच्यवाचकशिष्येहागुरुवाक्यैश्चमत्कृतैः ॥२०॥आत्मनात्मनि शान्तैव चिच्चमत्कुरुते चिति ।चित्प्रस्पन्दो हि संसारस्तदस्पन्दः परं पदम् ॥२१॥चित्स्पन्दशमनेनेयं परिशाम्यति संसृतिः ।महाचित्ते नतेऽर्थौऽशभावा यो भावनाक्षयः ॥२२॥असन्नपि स्वभावं तत्संवित्स्पन्द उदाहृतम् ।शून्यत्वमजडं यत्तत्परमाहुश्चितेर्वपुः ॥२३॥तत्त्वेन भावनायत्ता संसृतिः सानुभूयते ।अभावनामात्रलयात्सा च निःसाररूपिणी ॥२४॥केवलं केवलीभावात्तद्रूपा सैव शिष्यते ।चित्स्पन्दमेव संसारचक्रप्रवहणं विदुः ॥२५॥मातृमानप्रमेयादि कटकादीव हेमनि ।पृथगस्ति न च स्पन्दश्चितेर्या संसृतिर्भवेत् ॥२६॥चित्तमेव चितिस्पन्दस्तदबोधो हि संसृतिः ।अबोधमात्रे चित्स्पन्दः कटकत्वमिवोत्थितम् ॥२७॥बोधमात्रविलीनेऽस्मिञ्छुद्धा चिद्राम शिष्यते ।स्वभावबोधमात्रेण क्षीयते भोगवासना ॥२८॥भोगाभावनमेवेह परमं ज्ञत्वलक्षणम् ।इतो नाभिमताः सर्वे ज्ञस्य भोगाः स्वभावतः ॥२९॥भवन्ति कोऽतितृप्तो हि दुरन्नं किल वाञ्छति ।एतदेव परं विद्धि ज्ञत्वस्यापरलक्षणम् ॥३०॥स्वभावेनैव भोगानां यत्किलानभिवाञ्छनम् ।चित्तत्स्पन्दैव सर्वात्मरूपिण्यस्तीति निश्चयः ॥३१॥योऽन्तः प्ररूढः स्वभ्यासो ज्ञत्वशब्देन स स्मृतः ।यो न भुङ्क्ते भुज्यमानानपि भोगान्स बुद्धिमान् ।लोकानुरोधसिद्ध्यर्थं स हन्ति लगुडैर्नभः ॥३२॥विना कृत्रिमया बुद्ध्या न सिद्धिरवगम्यते ॥३३॥क्वचिदात्मावलोके च स्वाङ्गावदलनैरपि ।चिच्चेत्यं चेत्यकोटिस्था तावत्पश्यति विभ्रमम् ॥३४॥इदं यावदबोधात्मा स्पन्दते स्पन्दरूपिणी ।सम्यग्बोधोदयोन्तः स्यात्स्पन्दास्पन्ददशाक्रमः ॥३५॥क्वापि याति च संशान्तदीपवत्साभिधानकः ।चितः प्रशान्तरूपाया दीपिकायाः स्वभावतः ॥३६॥स्पन्दास्पन्दमयी नेह कथैवास्ति मनागपि ।यदस्पन्दस्य मरुतो न सन्नासन्न मध्यगम् ॥३७॥रूपं तदेवासंवित्तिस्पन्दायाः प्रशमं चितेः ।अभिन्नः स्याच्चितः स्पन्दः शुद्धचित्स्फाररूपधृक् ॥३८॥न बन्धाय न मोक्षाय स्थित आत्मनि केवलम् ।चिच्चेन्निरर्थसंवित्तिनिर्वाणे न च विन्दते ॥३९॥तद्बन्धमोक्षपक्षादेर्नामापीह न विद्यते ।मोक्षोऽस्त्वित्येव बोधोऽन्तः पूर्णता क्षयकारणम् ॥४०॥समास्त्वित्यपि बन्धस्ते श्रेयोऽसंवेदनं परम् ।यदनाभासमजडं तद्विद्धि परमं पदम् ॥४१॥चितः स्वरूपं संस्थानमचेत्योन्मुखतात्मकम् ।यः संकल्पनशब्दार्थरूपः स्पन्दो महाचितः ॥४२॥बन्धमोक्षादिकार्होऽसौ प्रेक्ष्यमाणः प्रणश्यति ।प्रेक्षणादेव संशान्ते त्वहंभावे निरास्पदे ॥४३॥न विद्मः केन किं कस्य बध्यते वाथ मुच्यते ।संकल्प एव रचिते बुधश्चेदविभागवान् ॥४४॥तदसंकल्पमस्पन्दं सर्वं जातमवारितम् ।स्पन्दे स्पन्दमये वाते तन्मयत्वात्सदा चिता ॥४५॥संक्षीणे न च संसारो निस्पन्दे चिद्धने स्थिते ।चित्तेज एव चित्स्पन्द इति बुद्धे निरन्तरम् ॥४६॥व्यतिरिक्तश्चितः स्पन्दो न किंचिदवशिष्यते ।अस्मिन्दृश्यमये दीर्घस्वप्ने स्वप्नान्तरं व्रजन् ।न ज्ञो मोहमुपादत्ते सर्वगत्वात्स्वसंविदः ॥४७॥यत्रोदेति प्रसभमनिशं सर्गसंवित्तिसत्तायस्मिन्नेते सकलकलनाकारपङ्का गलन्ति ।उद्यन्त्येते स्वदनसुभगं यत्र सर्वोपलम्भाध्यानेनैव तमवगमय प्रत्यगात्मानमन्तः ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० प्रत्यगात्मावबोधो नामैकोनषष्टितमः सर्गः ॥५९॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP