संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०६ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ततः कतिपयेष्वेव दिवसेषु गतेषु सा ।इदं प्रोवाच भर्तारं कुम्भरूपधरा सती ॥१॥राजन्राजीवपत्राक्ष ममेदं वचनं श्रृणु ।निशायां प्रत्यहं तावत्स्थित एवाहमङ्गना ॥२॥तदिच्छाम्यङ्गनाधर्मं निपुणीकर्तुमीदृशम् ।भर्त्रे कस्मैचिदात्मानं विवाहेन ददाम्यहम् ॥३॥तद्भवानेव मे भर्ता रोचते भुवनत्रये ।गृहाण मां विवाहेन भार्यात्वे निशि सर्वदा ॥४॥अयत्नोपनतं साधो प्रियेण सुहृदा सह ।स्त्रीसुखं भोक्तुमिच्छामि मा मे विघ्नकरो भव ॥५॥क्रमप्रवृत्तमासृष्टेः सुखं साध्यं मनोरमम् ।प्रकृतं कुर्वतः कार्यं दोषः क इव जायते ॥६॥इच्छानिच्छे फले त्यक्त्वा समन्तात्सर्ववस्तुषु ।वयं न सेच्छा नानिच्छाः कुर्मस्तेनेदमीप्सितम् ॥७॥शिखिध्वज उवाच ।कृतेनानेन कार्येण न शुभं नाशुभं सखे ।पश्यामि तन्महाबुद्धे यथेच्छसि तथा कुरु ॥८॥समतां संप्रयातेन चेतसेदं जगत्त्रयम् ।स्वरूपमेव पश्यामि यथेच्छसि तदाचर ॥९॥कुम्भ उवाच ।यद्येवं तन्महीपाल लग्नमद्यैव शोभनम् ।राकेयं श्रावणस्यास्य ह्यः सर्वं गणितं मया ॥१०॥रात्रावद्योदिते चन्द्रे परिपूर्णकलामले ।जन्यत्रो नौ महाबाहो द्वयोरेव भविष्यति ॥११॥महेन्द्राद्रिशिरःश्रृङ्गसानावद्य मनोरमे ।रत्नदीपप्रकाशाढ्ये मणिकन्दरमन्दिरे ॥१२॥पुष्पभारानतोत्तुङ्गवृक्षराजिविराजिते ।वनपुष्पलतालास्यनारीनृत्यमनोहरे ॥१३॥निशि व्योमगतास्तारा भर्त्रा पूर्णेन्दुना सह ।आवयोः परिपश्यन्तु कर्णान्तायतलोचन ॥१४॥उत्तिष्ठात्मविवाहार्थं कुर्वः काननकोटरात् ।राजेश्चन्दनपुष्पादिसंभारं रत्नसंयुतम् ॥१५॥इत्युक्त्वा कुम्भ उत्थाय सह तेन महीभृता ।कुसुमावचयं चक्रे तथा रत्नादिसंचयम् ॥१६॥ततो मुहूर्तमात्रेण रत्नसानौ समे शुभे ।समालम्भनपुष्पाणां ताभ्यां वै राशयः कृताः ॥१७॥हाराम्बरमणीन्द्रादिराशयस्त्वपरेऽजिरे ।सौभाग्यस्येव कामेन कोशाः कालेन संभृताः ॥१८॥तथा जन्यत्रसंभारं कृत्वा काञ्चनकन्दरे ।ययतुस्तौ महामित्रे स्नातुं मन्दाकिनीं नदीम् ॥१९॥तत्रैनं स्नापयामास महाराजं महादरात् ।गजकुम्भोपमस्कन्धं कुम्भो मङ्गलपूर्वकम् ॥२०॥भविष्यद्दयितारूपां भविष्यद्दयितोऽङ्गनाम् ।चूडालां स्नापयामास कुम्भरूपधरां प्रियाम् ॥२१॥पूजयामासतुः स्नातौ तत्र देवपितृन्मुनीन् ।यथा क्रियाफलेऽनिच्छौ क्रियात्यागे तथैव तौ॥२२॥नित्यज्ञानरसातृप्तौ व्यवस्थायां जगत्स्थितेः ।चक्राते भोजनं भव्यं तावन्योन्यसमीहितम् ॥२३॥कल्पवृक्षदुकूलानि परिधाय सितानि तौ ।फलानि भुक्त्वा जन्यत्रस्थानमाययतुः क्रमात् ॥२४॥एतावताथ कालेन तयोर्जन्यत्रसोत्कयोः ।प्रियं कर्तुमिवास्ताद्रिं द्रागित्येवाविशद्रविः ॥२५॥अथ संध्याक्रमे वृत्ते कृते जप्याघमर्षणे ।विवाहदर्शनायैव ताराजाले खमागते ॥२६॥मिथुनैकसखीयामा कुमुदोत्करहासिनी ।प्रालेयजालप्रकरं विकिरन्ती समाययौ ॥२७॥रत्नदीपान्बहून्सानौ कुम्भः सम्यगयोजयत् ।ज्योतींषीन्द्वर्कयुक्तानि पद्मोद्भव इवाम्बरे ॥२८॥भूषयामास राजानं स्त्रीत्वं गच्छन्निशागमे ।चन्दनागुरुकर्पूरपूरैर्मृगजकुङ्कुमैः ॥२९॥हारकेयूरकटकैस्तथा कल्पलतांशुकैः ।स्रगुद्दामावतंसैश्च माल्यैश्च विविधोचितैः ॥३०॥तथा कल्पलतागुच्छैर्मन्दारैः पारिजातकैः ।संतानैर्बहुरत्नैश्च मौलिना चेन्दुरूपिणा ॥३१॥एतावताथ कालेन वधूत्वं कुम्भ आययौ ।घनस्तनभराक्रान्तो बभूवाशु विलासवान् ॥३२॥इदं संचिन्तयामास संपन्नोऽयमहं वधूः ।कामायात्मा मया देयः कार्यं कालोचितं किल ॥३३॥इयमस्मि वधूः कान्ता भर्ता त्वं मे पुरःस्थितः ।गृहाण काम मामेहि कालोऽयं तव हृच्छयः ॥३४॥इति संचिन्त्य भर्तारमग्रस्थगहनस्थितम् ।उदयन्तमिवादित्यं रतिः काममिवाभ्यगात् ॥३५॥अहं मदनिका नाम भार्यास्मि तव मानद ।पादयोस्ते प्रणामोऽयं सस्नेहं क्रियते मया ॥३६॥इत्युक्त्वा सानवद्याङ्गी लज्जावनमितानना ।लोलालकेन शिरसा प्रणनाम लसत्पतिम् ॥३७॥उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः ।क्रमेणाग्निं च संज्वाल्य मत्पाणिग्रहणं कुरु ॥३८॥राजसेऽतितरां राजन्मां करोषि स्मरातुराम् ।रतेर्विवाहे मदनमभिभूयाधितिष्ठसि ॥३९॥इन्दोरिवांशुजालानि राजन्माल्यानि तानि ते ।मेरुगङ्गाप्रवाहाभां धत्ते हारस्तवोरसि ॥४०॥मन्दारकुसुमप्रोतैः कुन्तलैर्नृप राजसे ।कनकाब्जमिवोल्लोलैर्भृङ्गैः खचितकेसरैः ॥४१॥रत्नांशुजालैः कुसुमैः श्रिया स्थैर्येण तेजसा ।रत्नस्थानं विभो मेरुमभिभूयावतिष्ठसे ॥४२॥एवमादि वदन्तौ तौ भविष्यन्नवदम्पती ।प्रच्छन्नपूर्वदाम्पत्यौ मिथस्तुष्टौ बभूवतुः ॥४३॥महाराज्ञीं मदनिकां महाराजः शिखिध्वजः ।काञ्चनोपलपर्यङ्के निविष्टो भूषयत्स्वयम् ॥४४॥अवतंसैस्तथा माल्यैर्मणिरत्नविभूषणैः ।वस्त्रैर्विलेपनैः पुष्पै रुचिरस्थानकार्पितैः ॥४५॥सा बभौ भूषिता तन्वी मदनी मददायिनी ।गिरिजेव विवाहोत्का कामकान्तेव कामिनी ॥४६॥महाराजो महाराज्ञीं भूषयित्वेदमाह ताम् ।राजसे मृगशावाक्षि लक्ष्मीरिव नवोदिता ॥४७॥शक्रेण सह यच्छच्या यल्लक्ष्म्या हरिणा सह ।यद्गौर्याः शंभुना सार्धं तत्ते भवतु मङ्गलम् ॥४८॥पद्मकोशाङ्कुरहृदा लोलनीलोत्पलेक्षणा ।आमोदशुभझांकारा स्वास्थिता पद्मिनीव सा ॥४९॥सुरक्तपल्लवकरा स्तनस्तबकधारिणी ।त्वमनेकफला मन्ये कामकल्पतरोर्लता ॥५०॥हिमशीतावदाताङ्गी ज्योत्स्नाप्रसरहासिनी ।पूर्णेन्दुश्रीरिवोद्युक्ता हृष्टैवाह्लादयस्यलम् ॥५१॥तदुत्तिष्ठ वरारोहे वेदीं वैवाहिकीं स्वयम् ।श्रीवसिष्ठ उवाच ।तत्र पुष्पलताजालैः काण्डं प्रति शिलाङ्कितैः ॥५२॥मुक्ताकुसुमजालानां प्रकरैः स्तबकोपमैः ।चतुर्दिक्कं चतुर्भिश्च नालिकेरमहाफलैः ॥५३॥पूर्णकुम्भैस्तथा गङ्गावारिपूर्णैः प्रकल्पितैः ।ज्वालयामासतुस्तस्या मध्ये चन्दनदारुभिः ॥५४॥ज्वलनं ज्वालितज्वालं दक्षिणस्थं प्रदक्षिणम् ।पूर्वाभिमुखमेवाग्नेरग्रे पल्लवविष्टरे ॥५५॥नियोज्य दंपती कान्तौ तयोर्विविशतुः स्वयम् ।स हुत्वा तिललाजानि पावकाय शिखिध्वजः ॥५६॥उत्थायोत्थाय कान्तां स पाणिभ्यां स्वयमाददे ।अन्योन्यं शोभमानौ तौ भवाविव वने शिवौ ॥५७॥चक्रतुर्दंपती तस्य पावकस्य प्रदक्षिणम् ।स्वदायं ज्ञानसर्वस्वं हृदयं प्रेम चापलम् ॥५८॥ददतुस्तौ मिथोऽन्योन्यस्मितकान्तमुखश्रियौ ।प्रदक्षिणत्रयं कृत्वा लाजांस्त्यक्त्वाथ वह्नये ॥५९॥भार्यावरौ समं तुष्टौ करौ तत्यजतुः क्रमात् ।स्मयमानमुखौ कान्तौ चन्द्राविव नवोदितौ ॥६०॥पूर्वोपरचिते पुष्पतल्पे विविशतुर्नवे ।एतस्मिन्नन्तरे चन्द्रश्चतुर्भागं नभस्तलात् ॥६१॥शनैराक्रमयामास शोभां द्रष्टुमिवानयोः ।तस्मिंश्च ललनाछिद्रं द्रष्टुं दृष्टिरिवाभितः ॥६२॥लोलः संचरयामास करानिन्दुर्लतागृहे ।तैस्तैर्नवकथालापैरिन्दावभ्युदिते त्वथ ॥६३॥तावासांचक्रतुः कान्तौ दंपती सुमुहूर्तकम् ।अथोत्थाय ज्वलद्रत्नदीपां काञ्चनकन्दराम् ॥६४॥स्वयं पूर्वोपरचितां गुप्तां विविशतुः प्रियौ ।ददर्शतुर्नवं तत्र तल्पं कुसुमकल्पितम् ॥६५॥परितो व्याप्तमुत्कीर्णैर्हेमपङ्कजराशिभिः ।मन्दारादिभिरन्यैश्च पुष्पैर्ग्लानिविवर्जितैः ॥६६॥उच्चकैः सुप्रमाणेन निर्मितैः कुसुमैः समैः ।दीर्घेन्दुबिम्बप्रतिमैस्तुषारस्थलशीतलैः ॥६७॥क्षीरोदजलधाराभं ज्योत्स्नासंपिण्डसुन्दरम् ।प्रतिबिम्बमनङ्गस्य नतं भित्ताविव स्थितम् ॥६८॥सुगन्धमुन्नतं कान्तं चिरादन्यतयोत्थितम् ।मिथुनं पुष्पराशौ तन्न्यषीदत्परितोऽमले ।तस्मिन्समसमाभोगे क्षीरोदे मन्दरो यथा ॥६९॥तैस्तैर्मिथः प्रणयपेशलवाग्विलासै-स्तत्कालकार्यसुभगैः प्रणयोपचारैः ।सत्कान्तयोर्नवनवेन तयोः सुखेनदीर्घा मुहूर्त इव सा रजनी जगाम ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० लीलाविवाहो नाम षडुत्तरशततमः सर्गः ॥१०६॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP