संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ६ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।भूय एव महाबाहो श्रृणु मे परमं वचः ।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥भेदमभ्युपगम्यापि श्रृणु बुद्धिविवृद्धये ।भवेदल्पप्रबुद्धानामपि नो दुःखिता यथा ॥२॥यस्याज्ञानात्मनोऽज्ञस्य देह एवात्मभावना ।उदितेति रुषैवाक्षरिपवोऽभिभवन्ति तम् ॥३॥यस्य ज्ञानात्मनो ज्ञस्य सत्येवात्मनि संस्थितिः ।संतुष्ट्यैवाक्षसुहृदो न घ्नन्ति तमनिन्दितम् ॥४॥पदार्थे स्फुरतो यस्य न स्तुतिर्निन्दनादृते ।स देहं देहदुःखार्थमादत्ते केन हेतुना ॥५॥नात्मा शरीरसंबन्धी शरीरमपि नात्मनि ।मिथो विलक्षणावेतौ प्रकाशतमसी यथा ॥६॥सर्वैर्भावविकारैस्तु नित्योन्मुक्तस्त्वलेपकः ।नात्मास्तमेति भगवान्न चोदेति सदोदितः ॥७॥जडस्याज्ञस्य तुच्छस्य कृतघ्नस्य विनाशिनः ।शरीरकोपलस्यास्य यद्भवत्यस्तु तत्तथा ॥८॥आदत्ते तत्कथं नित्यं चिन्मयत्वं सदोदितम् ।ययोरेकपरिज्ञाने जडतैवाऽपरस्थिता ॥९॥तयोः कीदृग्विधा भूता समानसुखदुःखता ।यौ समौ समधर्माणौ न कदाचन तौ कथम् ॥१०॥यावप्यसक्तावन्योन्यं मिथः संनमितौ कथम् ।कथं स्थूलोऽणुरूपः स्यादणुः स्थूलः कथं भवेत् ॥११॥एकोदये द्वितीयस्य न सत्ता दिनरात्रयोः ।ज्ञानं नाज्ञानतामेति च्छाया नायाति तापताम् ॥१२॥सद्ब्रह्म नासद्भवति विचित्रास्वपि दृष्टिषु ।मनागपि न संश्लेषः सर्वगस्यापि देहिनः ॥१३॥देहेन देहगस्यापि कमलस्येव वारिणा ।मनागपि न संश्लेषो ब्रह्मणो देहसत्तया ॥१४॥तद्गतस्याप्यतद्वृत्तेरम्बरस्येव वायुतः ।जरा मरणमापच्च सुखदुःखे भवाभवौ ॥१५॥मनागपि न सन्तीह तस्मात्त्वं निर्वृतो भव ।स्थितो देहतयाप्युच्चैः पातोत्पातमयो भ्रमः ॥१६॥दृश्यते केवलं ब्रह्मण्यप्सु वीचिचयो यथा ।आत्मसत्तोपजीवित्वादात्मानुभवतीह हि ॥१७॥देहयन्त्रं पयःसत्तामात्रादूर्मिमिव स्थितम् ।आधारस्पन्दनेनाङ्ग यथा क्षोभो न वा भवः ॥१८॥सूर्यादेः प्रतिबिम्बस्य तथा देहेन देहिनः ।सम्यग्दृष्टे यथाभूते वस्तुन्येवाभिजायते ॥१९॥स्थितिर्देहमयो ज्ञानविभ्रमो लयमेति च ।देहदेहवतोर्ज्ञानाद्यथाभूतार्थयोः स्थितिः ॥२०॥सत्तासत्तात्मिकोदेति दीपाद्दीपपदार्थयोः ।असम्यग्दर्शिनो देहस्यावर्तपरिवर्तनैः ॥२१॥अन्तःशून्याः स्फुरन्तीह ते मोहार्जुनपादपाः ।अपर्यालोचितात्मार्था अपरामृष्टसंविदः ॥२२॥स्पन्दन्ते चेतितोन्मुक्तास्तृणवन्मूढबुद्धयः ।अनास्थादितचित्तत्वाज्जडाः सर्वे खवायुभिः ॥२३॥यत्र तत्रोदिताक्रान्ता रटन्ति प्रस्फुरन्ति च ।तृणकाष्ठादिकं सर्वमाहरन्ति त्यजन्ति च ॥२४॥सशब्दस्पर्शरूपाढ्यास्तरङ्गतरलाङ्गकाः ।जडाः सन्तः स्फुरद्रूपा भृशं स्फाररसासवाः ॥२५॥सविहारागमापाया महौघा इव दुर्धियः ।सर्वेषामेव चैतेषां स्थितैवैषा चिदव्यया ॥२६॥किंत्वबोधवशादस्याः परां कृपणतां गता ।श्वाससंततयो ह्यज्ञाल्लोहकारदृतेर्यथा ॥२७॥स्पन्दमात्रार्थमेवाशु दृश्यन्ते नार्थकारिणः ।तर्जनं गर्जनं मूढाद्धनुर्दण्डगुणादिव ॥२८॥श्रूयते मरणायैव चिद्बोधपरिवर्जितम् ।फलभोगोऽपि यो मूढात्तदरण्यतरोरिव ॥२९॥तस्मिन्विश्रमणं यत्तच्छिलाफलहके यथा ।तेन यत्संगमः स स्यात्स्थाणुना भुवि जङ्गले ॥३०॥तदर्थं यत्कृतं किंचित्तद्व्योम लकुटैर्हतम् ।तस्मिन्यदधमे दत्तं तत्त्यक्तं किं न कर्दमे ॥३१॥तेन सार्धं कथा यत्तत्कौलेयाह्वानमम्बरे ।अज्ञानमापदां निष्ठा का हि नापदजानतः ॥३२॥इयं संसारसरणिर्वहत्यज्ञप्रमादतः ।अज्ञस्योग्राणि दुःखानि सुखान्यपि दृढानि च ॥३३॥पुनःपुनर्निवर्तन्ते युगं प्रत्यचला इव ।शरीरधनदारादावास्थां समनुबध्नतः ॥३४॥इदं दुर्दुःखमज्ञस्य न कदाचन शाम्यति ।अनात्मनि शठे देहे आत्मभावमुपेयुषि ॥३५॥असद्बोधमयी माया कथं नामापि नश्यति ।दुर्भावस्वञ्चितधियो वस्तुन्यन्धस्य दुर्मतेः ॥३६॥अवस्तुनि सनेत्रस्य लुठतश्च पदे पदे ।विषमुत्पद्यते चन्द्रादामोदः कुसुमादिव ॥३७॥कण्टकश्चैति पयसो दूर्वाङ्कुर इव स्थलात् ।देहशाल्मलिभोगिन्यो मनोमातङ्गश्रृंखलाः ॥३८॥अज्ञस्याशाः प्रसूयन्ते सुकृष्टादिव शालयः ।नरकश्रीरिहाज्ञानं दुष्कृतव्यालवेष्टितम् ॥३९॥परिपालयति प्रीता मयूरी वारिदं यथा ।नेत्रलोलालिनीलोला स्फुरिताधरपल्लवा ॥४०॥मूर्खार्थमेव विकसत्यङ्गना विषवल्लरी ।अज्ञस्य हृदि सद्भूमावेव पेलवपल्लवा ॥४१॥विद्यते पतगच्छायो रागविद्रुमदुर्द्रुमः ।तरुच्छदलसद्धूमः शस्त्रजालरदोल्मुकः ॥४२॥ज्वलति द्वेषदावाग्निर्हृन्मरौ कायतापदः ।अज्ञमात्सर्यमनसि परापवदनच्छदा ॥४३॥ईर्ष्याकमलिनी चिन्ताषट्पदा विलसत्यलम् ।प्रतिजन्मप्रमृष्टोग्रदुःखकल्लोलविभ्रमम् ॥४४॥जडमेव समभ्येति पुनर्मरणवाडवः ।जन्म बाल्यं व्रजत्येतद्यौवनं युवता जराम् ॥४५॥जरा मरणमभ्येति मूढस्यैव पुनःपुनः ।जगज्जीर्णारघट्टेऽस्मिन्रज्ज्वा संसृतिरूपया ॥४६॥मज्जनोन्मज्जनैरज्ञो यन्त्रे कलशतां गतः ।यदेव गोष्पदापूरं ज्ञधियः पेलवं जगत् ॥४७॥तदेवापारपर्यन्तमगाधममहात्मनः ।धियोऽदृश इवाज्ञस्य दीर्घं जठरकोटरात् ॥४८॥न प्रयान्त्यपरं पारं विहङ्ग्यः पञ्जरादिव ।भावमात्रपरावृत्तवासनाभारनाभयः ॥४९॥स्पष्टीकर्तुं न शक्यन्ते जन्मचक्रस्य नेमयः ।अज्ञेनेन्द्रियगृध्रार्थं रागान्मृगयुणा तनुः ॥५०॥संसारारण्य आस्तीर्णा दूरादामिषपिण्डवत् ।भूतशैलमयी दृष्टिर्मृन्मांसलवमात्रिका ॥५१॥मोहात्संलक्ष्यते चित्रपदार्थानन्तरञ्जनः ।जयत्यनल्पसंकल्पकल्पनाकल्पपादपः ॥५२॥अज्ञानात्प्रसृता यस्माज्जगत्पर्णपरम्पराः ।यस्मिंस्तिष्ठन्ति राजन्ते विशन्ति विलसन्ति च ॥५३॥विचित्ररचनोपेता भूरिभोगिविहङ्गमाः ।यत्र जन्मानि पर्णानि कर्मजालं च कोरकम् ॥५४॥फलानि पुण्यपापानि मञ्जर्यो विभवश्रियः ।अज्ञानेन्दूदये नैता योषिदोषधयः स्फुटम् ॥५५॥संसारवनखण्डेऽस्मिन्परां शोभामुपागताः ।जन्मजालकलापूर्णस्तमःकालकृतोदयः ॥५६॥शून्योदितात्मा दोषेशो जयत्यज्ञानचन्द्रमाः ।अज्ञानेन्दोः प्रसादेन वासनामृतशालिना ॥५७॥तर्पिताशाचकोरेण चित्तरत्नरसैषिणा ।राजहंसविलासिन्यः प्रालेयशिशिराङ्गिकाः ॥५८॥भान्ति कान्ताकुमुद्वत्यो लोललोचनषट्पदाः ।धम्मिल्लतिमिरोल्लासा लसत्पाण्डुपयोधराः ॥५९॥रामारजन्यो राजन्ते तन्मौर्ख्येण विजृम्भितम् ॥६०॥आपातमात्रमधुरत्वमनर्थसत्त्व-माद्यन्तवत्त्वमखिलस्थितिभङ्गुरत्वम् ।अज्ञानशाखिन इति प्रसृतानि रामनानाकृतीनि विपुलानि फलानि तानि ॥६१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पू० मोहमाहात्म्यं नाम षष्ठः सर्गः ॥६॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP