संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ६७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ६७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६७ Translation - भाषांतर दशरथ उवाच ।मुनिनायक तं भिक्षुं गत्वा संबोधयन्त्वमी ।नरा मत्प्रहिताः शीघ्रं चानयन्तु कुटीगतम् ॥१॥श्रीवसिष्ठ उवाच ।राजंस्तस्य महाभिक्षोः स देहः प्राणवर्जितः ।क्लेदो वैवर्ण्यमायातो नासौ जीवितभाजनम् ॥२॥तस्य भिक्षोस्तु जीवोऽसौ भूत्वा पद्मजसारसः ।जीवन्मुक्तः स्थितो भूयो नासौ संसृतिभाजनम् ॥३॥तद्गृहे मासपर्यन्ते बलान्निष्कासितार्गलाः ।अन्तराले तु तिष्ठन्ति भृत्या भिक्षुदिदृक्षवः ॥४॥ततो नष्टाङ्गसंधानं कायं निष्काल्यते जले ।त्यक्ष्यन्त्यन्यं करिष्यन्ति भिक्षुमक्षुण्णमानसम् ॥५॥अनेनैवं सदेहेन भिक्षुर्मुक्तो व्यवस्थितः ।कथं प्रबोध्यते नष्टं तद्विहारे शरीरकम् ॥६॥एषा गुणमयी माया दुर्बोधेन दुरत्यया ।नित्यं सत्यावबोधेन सुखेनैवातिवाह्यते ॥७॥असत्येव कृतारम्भा हेम्नः कटकता यथा ।प्रतिभासविपर्यासमात्रकारणकोदया ॥८॥परमात्मनि वाचेयमित्थं मायानुमीयते ।तरङ्गालीव पयसि प्रेक्षामात्रविनाशिनी ॥९॥ज्ञो हि दृश्यतया दीर्घस्वप्नात्स्वप्नान्तरं व्रजेत् ।एवं जीवत्वमायाति विवेकात्सर्वमात्मदृक् ॥१०॥यो यस्य प्रतिभासः स्यादात्मैव स स्वबोधतः ।स एवोदेति संसारः करञ्जवनगुल्मदृक् ॥११॥प्रत्येकं भूतमुदितं कृतं संसारमण्डलम् ।भिक्षोः स्वप्नान्तर इव परां भङ्गिमिवाम्भसः ॥१२॥प्रस्तुतः पद्मजादेव जगत्स्वप्नो यथोदितः ।तथैवास्वच्छचित्तोत्थो रूढः सर्वजनं प्रति ॥१३॥पितामहवदाभाति सर्गः स्वप्नविलासवत् ।प्रत्येकमुदितस्तेन ब्रह्माण्डानीव कोटिशः ॥१४॥स्फुरन्यथा तथा वास्मिञ्जीवः पश्यति विभ्रमम् ।हृदयेऽयं समर्थं च स्वप्नवद्दीर्घमान्तरम् ॥१५॥चित्सत्तामात्रमासाद्य प्रतीतिच्युतमात्रतः ।जरामरणदुःखानां क्वचिद्भाजनतां गतः ॥१६॥पातालं ब्रह्मलोकं वा चित्तत्सुकृतशालिनी ।चित्तांशस्पन्दमात्रेण कृत्वा कृत्वेव संस्थिता ॥१७॥चित्स्पन्दरूपिणी जीवनामरूपं गतात्मनि ।अन्यत्र च विलुठति गत्वा संभ्रमहारिणी ॥१८॥चित्तेति परमात्मा न परमात्मा न वा न किम् ।जीवदेहादिनाम्नोऽस्य प्रतिबिम्बादिवार्हता ॥१९॥ब्रह्मण्येव परं ब्रह्म जगदृष्ट्यैव संस्थितम् ।शुद्धाकाशमिवाकाशे जले जलमिवामलम् ॥२०॥लोको ब्रह्मण एवायं जगद्रूपेषु तिष्ठति ।बिभेत्यन्यतया बोधात्प्रतिबिम्बादिवार्भकः ॥२१॥स्पन्देऽस्पन्दीकृते चेह स्वतः संज्ञा विलीयते ।साप्यलं परिणामेन लीयतेऽग्नौ घृतं यथा ॥२२॥चित्स्पन्द एव चित्स्पन्दे सर्वात्मनि विजृम्भितः ।स्पन्दास्पन्दौ जृम्भणादि कल्पितं नात्र वास्तवम् ॥२३॥न स्पन्दोऽस्तीह नास्पन्दो नैकता वापि न द्विता ।शुद्धं चिन्मात्रसर्वस्वं यथैवास्ति तथा स्थितम् ॥२४॥सारेण तु विचारेण सर्वशब्दार्थयोः समे ।चिन्मात्रमेव ज्ञातेयं नास्तीत्यपि न विद्यते ॥२५॥भेदवेदनयोदेति भेदः प्रकृतिलाञ्छनम् ।अभेदबोधादखिले गलिते शिष्यते परम् ॥२६॥नानातैवास्य बोधेन स बोधस्त्वनवेक्षणात् ।पृच्छकं चैवमस्त्येव तस्मान्निःशङ्कता परा ॥२७॥ततः स्वप्नो न जागर्तिर्न सुषुप्तिर्न तुर्यता ।न बन्धोस्ति न मोक्षोस्ति नान्यथाकल्पनात्मकम् ॥२८॥शान्तिरेका जगन्नाम्नी शान्तिरेवमवस्थिता ।अबोधोऽसत्य एवातः क्व द्रष्टृदृश्यदर्शनम् ॥२९॥स्पन्दोऽप्यस्पन्द एव स्यान्निःसंकल्पतया च ते ।न स्पन्दास्पन्दयोर्भिन्ना संकल्परहितैव चित् ॥३०॥द्वैतैक्यविकला रूपसंकल्पश्चिदभावनात् ।स च भावनमात्रेण गतो ब्रह्मैव शिष्यते। ॥३१॥चिच्चन्द्रबिम्बे संकल्पकलङ्कः स्फुरतीव यः ।नासौ कलङ्कस्तद्विद्धि चिद्धनस्य घनं वपुः ॥३२॥चिद्धनस्य न सन्नासन्स्थीयतां यत्तते पदे ।इत्यदोषमहाबोधसारसंग्रहणं कृतम् ॥३३॥चिच्चन्द्रबिम्बासंकल्पकलङ्कामृतविग्रहः ।त्वया भव्येन संस्पृष्टो भावाभावक्षयात्मना ॥३४॥भावाभावादिकलनां नीत्वा चिन्मयतां चितः ।समोल्लासविलासान्तः समाश्वस यथासुखम् ॥३५॥स्पन्दास्पन्दौ कल्पनाकल्पना वाचित्ताम्नायो विद्धि नामाब्धिनाम्ना ।सर्वाकारा निर्वृतिः शान्तिसत्तापूर्णापूर्णे ह्येकमेवास्थितेति ॥३६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० ब्रह्मैक्यप्रतिपादनं नाम सप्तषष्टितमः सर्गः ॥६७॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP