संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।यन्मुक्तावलिता रत्नभूषिता भान्ति योषितः ।मदेन्दावुदिते क्षुब्धकामक्षीरार्णवोर्मयः ॥१॥सौवर्णाम्भोजकोशस्थलोलालिपटलश्रियम् ।धारयन्ति दृशः स्त्रीणां कपोलतलदोलिताः ॥२॥उद्यानवनखण्डेषु भूमौ कृतमदा मधौ ।हृद्याः सुमनसो भान्ति दासा इव मनोभुवः ॥३॥क्रव्यादगृध्रगोमायुकौलेयकवलाङ्गिकाः ।स्त्रियः समुपमीयन्ते चन्द्रचन्दनपङ्कजैः ॥४॥सौवर्णकलशाम्भोजकलिकामातुलुङ्गवत् ।दृश्यते स्त्रीस्तनश्रेणी रक्तपूतिसुगन्धिका ॥५॥रसायनेन्दुनिस्यन्दमधुबिम्बासवद्रवैः ।ओष्ठाभिधो मांसलवो लालाक्त उपमीयते ॥६॥अल्पाल्पाष्ठीवदाकारा भुजाक्रूरास्थिशङ्कवः ।महाबाहुलताशब्दैर्वर्ण्यन्ते कविभिः शुभैः ॥७॥कदलीस्तम्भसम्भारसुन्दरीभिस्तथा भृता ।कुचशोभोचितानन्दा तोरणालिर्विराजते ॥८॥आपातमन्दमधुरा मध्ये द्वन्द्वानुबन्धिनी ।शीघ्रावसानविरला लक्ष्मीरप्यभिवाञ्छ्यते ॥९॥समुपैति मतिर्दुःखं सुखं च शतशाखताम् ।दुःखशाखास्तु जायन्ते नानाकर्मफलाः श्रियः ॥१०॥बद्धजालघनाकाराः कारार्थमिव रज्जवः ।दच्छदःसदृशा वाचः प्रतानगहने स्थिताः ॥११॥संतता मोहमिहिका कार्यासारविसारिणी ।यमुना प्रावृषीवैति तिमिरश्यामला चिरम् ॥१२॥कटूकृतान्तःकरणो नानासुखविशारदः ।वर्धते हि गतस्नेहं जन्मप्रतिविषारसः ॥१३॥व्याधूतजर्जराकीर्णजनतापर्णराजयः ।स्वकर्मपवना वान्ति नानावकररेणवः ॥१४॥कालः कवलितानन्तजगत्पक्वफलोऽप्ययम् ।घस्मराचारजठरः कल्पैरपि न तृप्यति ॥१५॥मोहमारुतमापीय त्वचा विषमचारिणः ।स्फुरन्तीहाहयश्चित्राः शीतलाचलदीप्तयः ॥१६॥चिन्तापिशाचोपहता विवेकेन्दूदयं विना ।तमसेव निरालोका याति यौवनयामिनी ॥१७॥जिह्वा जर्जरतामेति प्राकृतानुनयज्वरैः ।पद्मकोटरकोणस्थमपि सूत्रं हिमैरिव ॥१८॥दुःखशोकमहाष्ठीलः कष्टकण्टकसंकटः ।सहस्रशाखतां याति दारिद्र्यदृढशाल्मलिः ॥१९॥अन्तःशून्योन्नतिध्वस्तचित्तचैत्यकृतालयः ।मायाबहुलयामिन्यां लोभोलूको विवल्गति ॥२०॥पूर्वं गृहीत्वा कर्णाभ्यां स्फुरन्ती परिनिश्चयम् ।जराजर्जरमार्जारी यौवनाखुं निकृन्तति ॥२१॥निःसारा क्रमशः क्रान्तधराधरसमुन्नतिः ।डिण्डीरपिण्डिकेवेयं सृष्टिरायाति पुष्टताम् ॥२२॥आभासपुष्पधवला जगत्पल्लवशालिनी ।सत्तालता विकसिता धर्मार्थफलधारिणी ॥२३॥सुराचलमहास्थूणं चन्द्रसूर्यगवाक्षकम् ।गगनाच्छादनं चारु ध्रियते त्रिजगद्गृहम् ॥२४॥संसारसरसि स्फारे चरन्ति घ्राणषट्पदाः ।शरीरपुष्करेष्वन्तश्चिद्रूपरसपायिनः ॥२५॥नभोमार्गमहानीलकुट्टिमैकान्तशालिनी ।भुवनौदररम्यान्तः स्फुरत्यादित्यदीपिका ॥२६॥आशातन्तुनिबद्धाङ्गी जागती जीर्णपक्षिणी ।स्ववासनाशलाकेऽन्तर्निबद्धेन्द्रियपञ्जरे ॥२७॥अनारतपतज्वालभूतपर्णपरम्परा ।स्पन्दते मरुताऽऽमृष्टा संसृतिव्रततिश्चिरम् ॥२८॥सृष्टेः कतिपयं कालं प्रहृष्टाः कुलशालिनः ।अधःकृतोग्रनरकपङ्काः शङ्कोज्झिताः क्षणम् ॥२९॥भुक्तेन्दुखण्डकणिकानीलनीरदशैवले ।स्वर्गमार्गसरस्यन्तः स्फुरन्ति सुरसा रसाः ॥३०॥नानाफलालिमलिना वासनाजालमालिता ।स्पन्दामोदमयी स्फीता क्रियाविकसिताब्जिनी ॥३१॥वराकी सृष्टिशफरी स्फुरन्ती भवपल्वले ।कृतान्तवृद्धगृध्रेण शठेन विनिगृह्यते ॥३२॥तरङ्गफेनमालेव सैवान्येव च भङ्गुरा ।श्वःश्वोऽपरेन्दुलेखेव समुदेति विचित्रता ॥३३॥भूरिभूतशराबाणि क्षणभङ्गानि कुर्वता ।इदं कालकुलालेन चक्रं संपरिवर्त्यते ॥३४॥असंख्यातानि कल्पानि संजातान्यचले पदे ।जगज्जङ्गलजालानि दग्धानि युगवह्निना ॥३५॥भावाभावैरपर्यन्तैः सुखदुःखदशाशतैः ।वैपरीत्यं प्रयात्येवमजस्त्रं जागती स्थितिः ॥३६॥क्षुब्धैर्युगपरावर्तैर्वासनाश्रृंखलोम्भिता ।महाशनिनिपातैश्च न भग्नाऽबुद्धधीरता ॥३७॥शतशो विद्रुतारिध्रैर्दनुपुत्रैरमिष्टुताम् ।भवभग्नतयामैन्द्रीं तनुं वहति वासना ॥३८॥विशत्यविरतं भूतसर्गपांसुपरम्परा ।नित्यं नियतिवात्येयं कालव्यालगलान्तरम् ॥३९॥पदार्थाम्भसि सर्वाणि फलफेनानि सर्वतः ।पतन्त्यविरतापातमभाववडवामुखे ॥४०॥स्फुरन्त्याकस्मिकोद्धूता विचित्रद्रव्यशक्तयः ।स्वभावमात्रसंपन्नाः स्पन्दश्रिय इवाम्भसः ॥४१॥भूतमौक्तिकसंपूर्णान्बृहतः सुबहूनपि ।जगत्कलभकानत्ति कृतान्तोद्रिक्तकेसरी ॥४२॥कुलशैलफला मेघपक्षपुञ्जाः फलामृजः ।जायन्ते च म्रियन्ते च ध्रियन्ते च जगत्खगाः ॥४३॥चिद्भित्तौ स्पन्दशुभ्रायां रङ्गैः पञ्चभिरिन्द्रियैः ।उन्मीलयति संसारचित्राणि विधिचित्रकृत् ॥४४॥अजस्रगत्वरीं सर्वपरिवर्तविधायिनीम् ।निमेषशतभागाङ्गीमसद्दुःसाधिताङ्कुराम् ॥४५॥सूक्ष्मां कालस्य कलनां स्वसमुत्थानकारिणीम् ।ध्यानेनैवान्ववेक्ष्यैताः स्थिताः स्थावरजातयः ॥४६॥रागद्वेषसमुत्थेन भावाभावमयेन च ।जरामरणरोगेण जीर्णा जङ्गमजातयः ॥४७॥सुदुष्कृतोत्तमध्यानचारिण्यो धरणीतले ।नियत्या नियतं कालं पीड्यन्ते कीटपङ्क्तयः ॥४८॥क्षणेनादृश्य एवेदं निगिरत्यखिलं सुखी ।सुदुर्लक्ष्यविलः कालव्यालो विपुलभोगवान् ॥४९॥कालेन किंचिदालक्ष्य स्वशरीराकुलीकृताः ।शीतवातातपप्रौढाः प्रोल्लसत्पुष्पदीप्तयः ॥५०॥फलप्रदाश्चरन्तीह शीलिनः श्वभ्रविग्रहाः ।पयःपटलविश्रान्तत्रैलोक्याम्भोजकोटरे ॥५१॥करोति घुंघुमं भूरि भूतभ्रमरपेटिका ।ब्रह्माण्डभैक्ष्यभाण्डेयं काली भगवती क्रिया ॥५२॥स्वयं दत्वैव दत्वैव भूतभिक्षां जिघृक्षति ।तिमिरालीककबरी इन्द्वर्कचपलेक्षणा ॥५३॥ब्रह्मोपेन्द्रमहेन्द्रादिधरागिरिवरादिका ।ब्रह्मतत्त्वैकपिटका लम्बमानपयोधरा ॥५४॥चिच्छक्तिमातृका स्थूला तरला घनचापला ।तारकाजालदशना संध्यारुणतरा धरा ॥५५॥समस्तपद्मिनीहस्ता शतक्रतुपुरानना ।सप्ताब्धिमुक्तालतिका नीलाम्बरपरीवृता ॥५६॥जम्बूद्वीपमहानाभिर्वनश्रीरोमराजिका ।भूत्वा भूत्वा विनश्यन्ती त्रिलोकीवृद्धकामिनी ॥५७॥असकृज्जायते नष्टा भूरिविभ्रमकारिणी ।मग्नमन्यैरथोन्मग्नं भीमे कालमहार्णवे ॥५८॥प्रतिकल्पक्षणं क्षीणैर्ब्रह्माण्डस्फुटबुद्बुदैः ।कालेऽगाधरसस्यन्दे स्थित्वा स्थित्वा पुनःपुनः ॥५९॥कल्पमात्रनिमेषेणोड्डीनाः कारणसारसाः ।उत्पत्त्योत्पत्त्य नाशिन्यः संतप्ताः सृष्टिविद्युतः ॥६०॥कालमेघे स्फुरन्त्येताश्चित्प्रकाशवनोद्यमाः ।प्रपतद्भूतविहगाः पतन्त्यविरतभ्रमाः ॥६१॥कालतालात्किलोत्तालाद्ब्रह्माण्डफलपालयः ।उन्मेषकृतवैरिञ्चसृष्टयो देवनायकाः ॥६२॥निमेषकृतसंहाराः सन्ति केचन कुत्रचित् ।निमेषोन्मेषसंक्षीणकल्पजालाः सहस्रशः ॥६३॥रुद्राः केचन विद्यन्ते तस्मिंश्चित्परमे पुनः ।तेऽपि यस्य निमेषेण भवन्ति न भवन्ति च ॥६४॥तादृशोऽप्यस्ति देवेशो ह्यनन्तेयं क्रियास्थितिः ।अनन्तसंकल्पमये शून्ये च ब्रह्मणः पदे ॥६५॥न संभवन्ति का नाम शक्तयश्चित्रपूरकाः ।एवमक्षीणसंकल्पलब्धार्थभरभासुरा ।जागती कल्पना येयं तदज्ञानविजृम्भितम् ॥६६॥याः संपदो यदुत संततमापदश्चयद्बाल्ययौवनजरामरणोपतापाः ।यन्मज्जनं च सुखदुःखपरम्पराभि-रज्ञानतीव्रतिमिरस्य विभूतयस्ताः ॥६७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पू० अज्ञानमाहात्म्यं नाम सप्तमः सर्गः ॥७॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP