संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ६९ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ६९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६९ Translation - भाषांतर श्रीराम उवाच ।कुतः शतत्वमायातं रुद्राणां मुनिनायक ।ये गणास्ते तु ये रुद्रा उत नेति वदाशु मे ॥१॥श्रीवसिष्ठ उवाच ।स्वप्नानां भिक्षुणा दृष्टं शतं शतशरीरकम् ।सर्वमुद्देशतो ज्ञातं तत उक्तं न तन्मया ॥२॥य आकाराश्च ते स्वप्ने तत्तद्गणशतं स्मृतम् ।तदेतद्रुद्रशतकं रुद्रा अपि गणा विधौ ॥३॥श्रीराम उवाच ।एकस्माद्भगवंश्चित्तात्कथं चित्तशतं कृतम् ।तत्स्वप्नकृतरुद्रेण दीपाद्दीपशतं यथा ॥४॥श्रीवसिष्ठ उवाच ।निरावरणसद्भावा यद्यथा कल्पयन्ति हि ।तत्तथानुभवन्त्येव रसावरणसंविदः ॥५॥सर्वात्मनः सर्वगत्वाद्यद्यथा यत्र भाव्यते ।तथानुभूयते तत्र तत्तथा ज्ञतया धिया ॥६॥श्रीराम उवाच ।कपालमालाभरणो भस्मशाली दिगम्बरः ।श्मशाननिलयो ब्रह्मन्कामुकश्च किमीश्वरः ॥७॥श्रीवसिष्ठ उवाच ।महेश्वराणां सिद्धानां जीवन्मुक्तशरीरिणाम् ।न क्रियानियमोऽस्तीह स ह्यज्ञस्यैव कल्पितः ॥८॥अज्ञस्तु दितचित्तत्वात्क्रियानियमनं विना ।गच्छन्न्यायेन मात्स्येन परं दुःखं प्रयाति हि ॥९॥सुज्ञास्त्विष्टेष्वनिष्टेषु न निमज्जन्ति वस्तुषु ।यतेन्द्रियत्वाद्बुद्धत्वान्निर्वासनतया तथा ॥१०॥काकतालीयवद्रूढां क्रियां कुर्वन्ति ते सदा ।न कुर्वन्त्यपि वै किंचिन्नैषां क्वचिदपि ग्रहः ॥११॥काकतालीयतो विष्णुरेवंकर्मोदितः पुरा ।एवंकर्मा त्रिनयन एवंकर्माम्बुजोद्भवः ॥१२॥न निन्द्यमस्ति नानिन्द्यं नोपादेयं न हेयता ।न चात्मीयं न च परं कर्म ज्ञविषयं क्वचित् ॥१३॥अग्न्यादीनां यथौष्ण्यादि सर्गादौ रूढिमागतम् ।हरादीनां तथा कर्म द्विजातीनां च जातयः ॥१४॥सर्गे प्ररूढिमायाते संकेतवशतः पृथक् ।अनुभूतिफलाश्चर्याः कल्पिताः कल्पिताः स्वयम् ॥१५॥विदेहमुक्तविषयं तुर्यमौनमतो मया ।नोक्तं तव परं मौनं सदेहस्य रघूद्वह ॥१६॥खादप्यतितरामच्छमात्माकाशं चिदात्मकम् ।तत्ताप्राप्तिः परं श्रेयः सा कथं प्राप्यते श्रृणु ॥१७॥सम्यग्ज्ञानावबोधेन नित्यमेकसमाधिना ।संख्ययैवावबुद्धा ये ते स्मृताः सांख्ययोगिनः ॥१८॥प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः ।अनामयमनाद्यन्तं ते स्मृता योगयोगिनः ॥१९॥उपादेयं तु सर्वेषां शान्तं पदमकृत्रिमम् ।तत्केचित्संख्यया प्राप्ताः केचिद्योगेन देहतः ॥२०॥एकं सांख्यं च योगं च यः पश्यति स पश्यति ।यत्सांख्यैः प्राप्यते स्थानं परं योगैस्तदेव हि ॥२१॥यत्र प्राणमनोवृत्तिरत्यन्तं नोपलभ्यते ।वासनावागुरोत्क्रान्ता तद्विद्धि परमं पदम् ॥२२॥वासनां चित्तमेवाहुः कारणं तद्धि संसृतेः ।तदकारणतामेति विलीयोभयकर्मसु ॥२३॥मनः पश्यति वै देहं बालो वेतालकं यथा ।स्वात्मानं विलयं नीत्वा न भूयस्तं प्रपश्यति ॥२४॥मनो मुधैवाभ्युदितमसदेवानवेक्षणात् ।स्वप्ने स्वमरणाकारं प्रेक्ष्यमाणं न विद्यते ॥२५॥मनोभवस्तु संसारः क्व ममाहं क्व संततिः ।उपदेश्योपदेशादिबन्धमोक्षौ च तत्कुतः ॥२६॥एकतत्त्वघनाभ्यासः प्राणानां विलयस्तथा ।मनोविनिग्रहश्चेति मोक्षशब्दार्थसंग्रहः ॥२७॥श्रीराम उवाच ।यदि हि प्राणविलयो मुने मोक्षस्य कारणम् ।मृता एव विमुच्यन्ते तन्मन्ये सर्वजन्तवः ॥२८॥श्रीवसिष्ठ उवाच ।त्रिष्वेतेषु प्रयोगेषु मनःप्रशमनं वरम् ।साध्यं विद्धि तदेवाशु यथा भवति तच्छिवम् ॥२९॥यदा निर्वाणनं प्राणास्त्यजन्तीदं शरीरकम् ।तदानुभूय तन्मात्रैर्यान्ति व्योमनि संगमम् ॥३०॥वासनासात्मकान्येव विद्धि तन्मात्रकाणि वै ।तदात्मकैर्मनोवद्भिः प्राणैः श्लिष्यन्ति नेतरैः ॥३१॥सवासनास्तूत्पद्यन्ते प्राणा मुञ्चन्ति देहकम् ।तद्व्योमवायुसंश्लेषं यान्ति दुःखाय गन्धवत् ॥३२॥मनः साम्बुरिवाम्भोधौ न शाम्यति सवासनम् ।नामनस्काः संभवन्ति प्राणाः सूर्य इव त्विषः ॥३३॥न जहाति मनः प्राणान्विना ज्ञानेन कर्हिचित् ।तृणान्तरेणैव विना तृणाङ्गमिव तित्तिरिः ॥३४॥ज्ञानादवासनीभावं स्वनाशं प्राप्नुयान्मनः ।प्राणात्स्पदं च नादत्ते ततः शान्तिर्हि शिष्यते ॥३५॥ज्ञानात्सर्वपदार्थानामसत्त्वं समुदेत्यलम् ।ततोऽङ्ग वासनानाशाद्वियोगः प्राणचेतसोः ॥३६॥ततो न पश्यति मनः प्रशान्तं देहतां पुनः ।स्वनाशेन पदं प्राप्तं वासनैव मनो विदुः ॥३७॥चेतो हि वासनामात्रं तदभावे परं पदम् ।तत्त्वं संपद्यते ज्ञानं ज्ञानमाहुर्विचारणम् ॥३८॥इत्यस्याः संसृते राम पर्यन्तः संप्रवर्तते ।स्वयं विवेकमात्रेण रज्जुसर्पभ्रमाकृतेः ॥३९॥एकार्थाभ्यसनप्राणरोधचेतःपरिक्षयाः ।एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् ॥४०॥तालवृन्तस्य संस्पन्दे शान्ते शान्तो यथानिलः ।प्राणानिलपरिस्पन्दे शान्ते शान्तं तथा मनः ॥४१॥प्राणः शरीरविलये प्रयाति व्योमवायुताम् ।यथा वासितमेवेदं सर्वं पश्यति तत्र वा ॥४२॥यथा विदेहाः पश्यन्ति प्राणा व्योमनि देहकम् ।समनस्कास्तथाचारं सर्वं चानुभवन्ति ते ॥४३॥शान्ते वातपरिस्पन्दे यथा गन्धः प्रशाम्यति ।तथा शान्ते मनःस्पन्दे शाम्यन्ति प्राणवायवः ॥४४॥अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ।कुसुमामोदवन्मिश्रे तिलतैले इव स्थिते ॥४५॥मनसः स्पन्दनं प्राणः प्राणस्य स्पन्दनं मनः ।एतौ विहरतो नित्यमन्योन्यं रथसारथी ॥४६॥आधाराधेयवच्चैतावेकाभावे विनश्यतः ।कुरुतश्च स्वनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥४७॥एकतत्त्वघनाभ्यासाच्छान्तं शाम्यत्यलं मनः ।तल्लीनत्वात्स्वभावस्य तेन प्राणोऽपि शाम्यति ॥४८॥विचार्य यदनन्तात्मतत्त्वं तन्मयतां नय ।मनस्ततस्तल्लयेन तदेव भवति स्थिरम् ॥४९॥यदेवातितरां श्रेयोऽनुपलम्भोपलम्भयोः ।द्वयोरप्यसतोस्तत्र शेषे वापि स्थिरो भव ॥५०॥एकस्मिन्सुदृढे तत्त्वे तावद्भावं विभावयेत् ।भावोऽभावत्वमायाति स्वभ्यासाद्यावदाततम् ॥५१॥प्रत्याहारवतां चेतः स्वयं भोग्यक्षयादिव ।विलीयते सह प्राणैः परमेवावशिष्यते ॥५२॥यदेकतानं भवति चेतस्तद्भवति क्षणात् ।शान्ताशेषविशेषौघं चिराभ्यासस्वभावतः ॥५३॥अविद्येयं तु नास्तीति बुद्ध्वा युक्तियुतं धिया ।ज्ञानादेव परावाप्तिस्तदभ्यासस्ततः परम् ॥५४॥चित्ते शान्ते शाम्यतीयं संसारमृगतृष्णिका ।जरामुपगते मेघे मिहिका तन्मयी यथा ॥५५॥चित्तमात्रमविद्येति कुरु तेनैव तत्क्षयम् ।तद्रूपं राम चित्तात्मा नाभावो हि परं पदम् ॥५६॥मुहूर्तमेव निर्वाणं यदि चेतः परे पदे ।तत्तत्परिणतं विद्धि तत्रैवास्वादमागतम् ॥५७॥यदि सांख्येन विश्रान्तं चेतो योगेन वापि ते ।क्षणं तत्सत्त्वतां यातं न भूय इह जायते ॥५८॥चेतो विगलिताविद्यं सत्त्वशब्देन कथ्यते ।दग्धसंसारबीजं तन्न ददात्यन्तरं पुनः ॥५९॥कश्चिद्विगलिताविद्यः सत्त्वस्थः शान्तवासनः ।परं शून्योपमं सद्यो ज्योतिः पश्यति शाम्यति ॥६०॥विगलितात्मपदं विगलन्मनःसुभग सत्त्वमितीह हि कथ्यते ।न पुनरेति कलामलिनं पदंकनकतामिव ताम्रमुपागतम् ॥६१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० प्राणमनःसंयोगविचारणं नामैकोनसप्ततितमः सर्गः ॥६९॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP