संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५४ Translation - भाषांतर श्रीभगवानुवाच ।भूय एव महाबाहो श्रृणु मे परमं वचः ।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥मात्रास्पर्शा हि कौन्तेय शीतोष्णसुखदुःखदाः ।आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ॥२॥ते तु नैकात्मनश्चान्ये क्वाऽतो दुःखं क्व वा सुखम् ।अनाद्यन्तेऽनवयवे कुतः पूरणखण्डने ॥३॥संस्थिता स्पर्शमात्राख्या मात्रास्पर्शभ्रमात्मकः ।समदुःखसुखो धीरः सोऽमृतत्वाय कल्पते ॥४॥सर्वत्वादात्मनश्चैते सुभेदाः संस्थिता इव ।असद्रूपास्त्वसद्रूपं कथं सोढुं न शक्यते ॥५॥मनागपि न विद्यन्ते सुखदुःखे तु सर्वशः ।सर्वत्वादात्मतत्त्वस्य सत्ता कथमनात्मनः ॥६॥नासतो विद्यते भावो नाभावो विद्यते सतः ।नास्त्येव सुखदुःखादि परमात्मास्ति सर्वगः ॥७॥सत्त्वासत्त्वमती त्यक्त्वा चैतयोर्जगदात्मनोः ।त्यक्त्वा न किंचिन्मध्ये च शेषे बद्धपदो भव ॥८॥न हृष्यति सुखैरात्मा दुःखैर्ग्लायति नोऽर्जुन ।दृश्यदृक्वेतनात्मापि शरीरान्तर्गतोऽपि सन् ॥९॥जडं चित्तादि दुःखस्य भाजनं देहतां गतम् ।न चैतस्मिन्क्षते क्षीणे किंचिदेवात्मनः क्षतम् ॥१०॥जडं देहादि दुःखादेर्यदिदं भोक्तृसंस्थितम् ।तन्मायाभ्रममेवाङ्ग विद्ध्यबोधवशोत्थितम् ॥११॥न किंचिदेव देहादि न च दुःखादि विद्यते ।आत्मनो यत्पृथग्भूतं किं केनातोऽनुभूयते ॥१२॥यदिदं कथयाम्यत्र तेनैवातो विनश्यति ।भ्रान्तिर्दुःखमबोधोत्था सम्यग्बोधेन भारत ॥१३॥यथा रज्ज्वामहिभयं बोधान्नश्यत्यबोधजम् ।तथा देहादिदुःखादि बोधान्नश्यत्यबोधजम् ॥१४॥विष्वग्विश्वमजं ब्रह्म न नश्यति न जायते ।इति सत्यं परं विद्धि बोधः परम एष सः ॥१५॥ब्रह्माम्बुधौ तरङ्गत्वं किंचिद्भूत्वा विलीयते ।ब्रह्मावर्ते स्फुरस्यद्य ब्रह्मैवासि निरामयम् ॥१६॥यावत्कालक्रियादेशास्त्वमहंसैनिका इव ।ब्रह्मणीव परिस्पन्दा नात्र स्तः सदसद्भ्रमौ ॥१७॥जहि मानं मदं शोकं भयमीहां सुखासुखे ।द्वैतमेतदसद्रूपमेकः सद्रूपवान्भव ॥१८॥पुरुषाक्षौहिणीनां च क्षयेणानुभवात्मना ।ब्रह्मणा बृहितं शुद्धं ब्रह्म ब्रह्ममयं कुरु ॥१९॥असंविदन्सुखं दुःखं लाभालाभौ जयाजयौ ।शुद्धं ब्रह्मैकतां गच्छ ब्रह्माब्धिस्त्वं हि भारत ॥२०॥लाभालाभसमो भूत्वा भूत्वा नूनं न किंचन ।खण्डवात इवास्पन्दी प्रकृतं कार्यमाचर ॥२१॥यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।यत्करिष्यसि कौन्तेय तदात्मेति स्थिरो भव ॥२२॥यन्मयो यो भवत्यन्तः स तदाप्नोत्यसंशयम् ।ब्रह्मसत्यमवाप्तुं त्वं ब्रह्मसत्यमयो भव ॥२३॥अनपेक्षफलं ब्रह्म भूत्वा ब्रह्मेति भावितम् ।क्रियते केवलं कर्म ब्रह्मज्ञेन यथागतम् ॥२४॥कर्मण्यकर्म यः पश्यत्यकर्मणि च कर्म यः ।स बुद्धिमान्मनुष्येषु स चोक्तः कृत्स्नकर्मकृत् ॥२५॥मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ॥२६॥कर्मासक्तिमनाश्रित्य तथा नाश्रित्य मूढताम् ।नैष्कर्म्यमप्यनाश्रित्य समस्तिष्ठ यथास्थितम् ॥२७॥त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥२८॥आसक्तिमाहुः कर्तृत्वमकर्तुरपि तद्भवेत् ।मौर्ख्ये स्थिते हि मनसि तस्मान्मौर्ख्यं परित्यजेत् ॥२९॥परं तत्त्वज्ञमाश्रित्य निरासक्तेर्महात्मनः ।सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित् ॥३०॥अकर्तृत्वादभोक्तृत्वमभोक्तृत्वात्समैकता ।समैकत्वादनन्तत्वं ततो ब्रह्मत्वमाततम् ॥३१॥नानातामलमुत्सृज्य परमात्मैकतां गतः ।कुर्वन्कार्यमकार्यं च नैव कर्ता त्वमर्जुन ॥३२॥यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥३३॥समः सौम्यः स्थिरः स्वस्थः शान्तः सवार्थनिस्पृहः ।यस्तिष्ठति स सव्यग्रोऽप्यलमव्यग्रतां गतः ॥३४॥निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।यथाप्राप्तानुवर्ती त्वं भव भूषितभूतलः ॥३५॥कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३६॥यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३७॥आपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत् ।तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी ॥३८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने आत्मज्ञानोपदेशो नाम चतुष्पञ्चाशः सर्गः ॥५४॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP