संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०० निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०० Translation - भाषांतर शिखिध्वज उवाच ।एवं चेत्तन्महाबुद्धे यादृशं कारणं परम् ।कार्यं तादृशमेवेदं जगदित्येव वेद्म्यहम् ॥१॥कुम्भ उवाच ।यत्र कारणता तस्य कार्यं तदुपपद्यते ।यन्न कारणमेवादौ तस्मात्कार्यं कुतो भवेत् ॥२॥नेहास्ति कारणं किंचिन्न च कार्यं कदाचन ।विद्यमानमिदं सर्वं सर्वं शान्तमजं जगत् ॥३॥जायते कारणात्कार्यं यत्तत्कारणवद्भवेत् ।यन्न जायत एवेह तस्मिन्सदृशता कुतः ॥४॥बीजमेव न यस्यास्ति तत्कथं वद जायते ।अप्रतर्क्यमनाख्यं च यत्तस्य क्वेव बीजता ॥५॥देशकालवशात्सर्वे हेतुमन्तः प्रमाणगाः ।अकर्तृब्रह्मविषयः प्रमा कारणयोः कथम् ॥६॥अकर्तृकर्मकरणे नास्ति कारणता शिवे ।तस्मात्तत्कारणं नास्ति जगच्छब्दार्थवेदनम् ॥७॥ब्रह्मैव त्वं स्वरूपं सद्यत्स्थितं धारयस्व तत् ।असम्यग्दर्शिविषयं तदेव जगदाचितम् ॥८॥चिन्मात्रमजरं शान्तं यदेकं तत्प्रमीयते ।तेनैवायं जगद्ब्रह्म सच्छान्तं बुद्ध्यते वपुः ॥९॥अन्यथैव च यो भावश्चेतसः पृथिवीपते ।स एव नाशः कथितः स्वानुभूतश्च पण्डितैः ॥१०॥चित्तं नाशस्वभावं तद्विद्धि नाशात्मकं नृप ।क्षणनाशो यतः कल्पचित्तशब्देन कथ्यते ॥११॥असंकल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।संकल्पः क्षीयते सिद्ध्यै स्वयमेवासदात्मकः ॥१२॥नाम्नैवाङ्गीकृताभावं यदि विश्वं हि कथ्यते ।विद्यमानं कथं तत्स्यान्ननु तामरसेक्षण ॥१३॥हस्तावुत्क्षिप्य यो ब्रूते शद्रोऽस्मीति भृशं गिरा ।कथं स विप्रो भवति विप्रत्वं त्वस्य कीदृशम् ॥१४॥विवृत्तधातुरत्युच्चैर्मृतोऽस्मीति विरौति यः ।मृतिमेवागतं विद्धि जीवनं तस्य संभ्रम ॥१५॥भ्रमाकृति यदस्तीह दृश्यतेऽलातचक्रवत् ।मृगतृष्णाद्विचन्द्रादिबालवेतालकादिवत् ॥१६॥तत्कथं किल नाम स्यात्सत्यं श्रमभरात्मकम् ।अज्ञानभ्रान्तिरेवान्तश्चित्तमित्येव कथ्यते ॥१७॥अज्ञानमुच्यते चित्तमसत्सदिव संस्थितम् ।असंवेदनमज्ञानं ज्ञानं संवेदनं भवेत् ॥१८॥अज्ञानसत्त्वसंवित्तेर्ज्ञानात्संवेदनात्क्षयः ।जलज्ञानं मुधा भ्रान्तिः साधो मरुमरीचिषु ॥१९॥नैतज्जलमिति ज्ञानात्संवित्तेः प्रविलीयते ।इदं चित्तमिति प्रौढं यदज्ञानमलं हृदि ॥२०॥नास्ति चित्तमिति ज्ञानात्तत्समूलं विनश्यति ।यथा रज्ज्वां भुजङ्गत्वमज्ञानभ्रमसंभवम् ॥२१॥न सर्पोऽयमिति ज्ञानाद्हृदि रूढात्प्रणश्यति ।तथात्मनि मनोभूतमज्ञानभ्रमसंभवम् ॥२२॥चित्तं नास्तीति विज्ञानाद्हृदि रूढाद्विनश्यति ।चित्तं मनोऽहमित्यन्तर्यावदज्ञानसंभवम् ॥२३॥न चित्तमस्ति नो चैवमहंकारादिसंयुतम् ।किंचिदेव जगत्यस्मिन्संविदेकान्तनिर्मला ॥२४॥तया संकल्पचित्तादि कृतमासीद्विमूढया ।अद्यासंकल्पतः सर्वं परित्यक्तं प्रबुद्धया ॥२५॥संकल्पेन यदा याति त्वसंकल्पेन गच्छति ।पवनेन महाबाहो ज्वालाजालमिवानले ॥२६॥आत्मतत्त्वैकघनया ततया ब्रह्मसत्तया ।जगत्सर्वमिति व्याप्तं समुद्र इव वारिणा ॥२७॥नाहमस्मि न चान्योस्ति न त्वं नैते न चित्तकम् ।नेन्द्रियाणि न चाकाशमात्मा त्वेकोऽस्ति निर्मलः ॥२८॥घटाद्याकाररूपेण स एवायं विलोक्यते ।इदं चित्तमयं चाहमिति कैव कुकल्पना ॥२९॥न जायते न म्रियते किंचिदस्मिञ्जगत्त्रये ।केवलोऽयं चिदुल्लासः सदसद्भावनात्मना ॥३०॥सर्वमात्मा परंब्रह्म सकृत्प्रकटमाततम् ।द्वित्वैकत्वे न विद्येते न भ्रान्तिर्न च संभ्रमः ॥३१॥सर्वेन्द्रियगणाकारे सन्नेवासि सखे ततः ।न दह्यसे महाबुद्धे न च क्वचन लिप्यसे ॥३२॥न ते विनश्यति सखे न च किंचिद्विवर्धते ।निर्मलाकाशरूपस्य कैवल्यानन्तरूपिणः ॥३३॥इच्छानिच्छात्मिके शक्ती येतरापि त्वमेव च ।न ह्यंशुव्यतिरेकेण शशाङ्क उपलभ्यते ॥३४॥अजमजरमनाद्यजस्वभावंसकृदमलं विलसत्सदैकरूपम् ।विगलितकलनं कलाख्यलीलंसदुदितमाद्यमजं तदात्मतत्त्वम् ॥३५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० शिखिध्वजपरमावबोधनं नाम शततमः सर्गः ॥१००॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP