संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ११२ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ११२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति प्राप्य परं योगमुपदेशमनुत्तमम् ।जीवन्मुक्तो बभूवासौ ततो देवगुरोः सुतः ॥१॥निर्ममो निरहंकारश्छिन्नग्रन्थिः प्रशान्तधीः ।कचो यथा स्थितो राम तथा तिष्ठाविकारवान् ॥२॥अहंकारमसद्विद्धि मैनमाश्रय मा त्यज ।असतः शशशृङ्गस्य किल त्यागग्रहौ कुतः ॥३॥असंभवत्यहंकारे क्व ते मरणजन्मनी ।नभःक्षेत्रे तथा व्युप्तं केन संगृह्यते फलम् ॥४॥निरंशं शान्तसंकल्पं सर्वभावात्मकं ततम् ।परमादप्यणोः सूक्ष्मं चिन्मात्रं त्वमनोमयम् ॥५॥यथाम्भसस्तरङ्गादि यथा हेम्नोऽङ्गदादि च ।तदेवातदिवाभासं तथाहंभावभावितः ॥६॥अबोधेन जगत्सर्वं मायामयमिव स्थितम् ।बोधेन सकलं ब्रह्मरूपं संपद्यतेऽनघ ॥७॥द्वित्वैकत्वमती त्यक्त्वा शेषस्थः सुखितो भव ।मा दुःखितो भव व्यर्थं त्वं मिथ्यापुरुषो यथा ॥८॥मायेयमतिदुष्पारा सांसारी गाढतां गता ।शरदा मिहिकेवाशु बोधेनायाति तानवम् ॥९॥श्रीराम उवाच ।परमामागतोऽस्म्यन्तस्तृप्तिं ज्ञानामृतेन ते ।अवग्रहभयाक्रान्तः स्वासारेणेव चातकः ॥१०॥अमृतेनेव सिक्तोऽहमन्तर्गच्छामि शीतताम् ।उपर्यपि समस्तानां तिष्ठाम्यतुलसंपदाम् ॥११॥न तृप्तिमनुगच्छामि वचांसि वदतस्तव ।ऐन्दवीनां मरीचीनां चकोरस्तृषितो यथा ॥१२॥तृप्तोऽपि भूयः पृच्छामि त्वां प्रश्नमिममीश्वर ।को नाम तृप्तोऽप्यग्रस्तं न पिबत्यमृतासवम् ॥१३॥किमुच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम् ।वस्त्ववस्तु कृतं जगद्वस्तुजातं वदाशु मे ॥१४॥श्रीवसिष्ठ उवाच ।मिथ्यापुरुषबोधाय श्रृणु राघव शोभनाम् ।इमामाख्यायिकां हासजननीं मदुदीरिताम् ॥१५॥अस्ति कश्चिन्महाबाहो मायायन्त्रमयः पुमान् ।बालपेलवधीमूढो गूढो मौर्ख्येण केवलम् ॥१६॥स एकान्ते क्वचिज्जातः शून्ये तत्रैव तिष्ठति ।केशोण्ड्रकमिव व्योम्नि मृगतृष्णेव वा मरौ ॥१७॥तस्मादन्यन्न तत्रास्ति यदस्ति च स एव तत् ।यच्चान्यत्तत्तदाभासं न च पश्यति दुर्मतिः ॥१८॥संकल्पस्तस्य संजातस्तत्र वृद्धिमुपेयुषः ।खस्याहं खमहं खं मे खं रक्षामीति निश्चलः ॥१९॥खं स्थापयित्वा रक्षामि वस्त्विष्टं स्वयमादरात् ।इति संचिन्तयन्व्योमरक्षार्थं सोऽकरोद्गृहम् ॥२०॥तस्य कोशे बबन्धास्थां रक्षितं खं मयेत्यसौ ।गृहाकाशेन संतुष्टस्ततः स रघुनन्दन ॥२१॥अथ कालेन तत्तस्य गृहं नाशमुपाययौ ।ऋत्वन्तरेणाब्द इव वातेनेव तरङ्गकः ॥२२॥हा गृहाकाश नष्टं त्वं हा क्व यातमसि क्षणात् ।हा हा भग्नमसि स्वच्छमित्येवैतच्छुशोच सः ॥२३॥इति शोकशतं कृत्वा पुनस्तत्रैव दुर्मतिः ।कूपं चक्रे खरक्षार्थं कूपाकाशपरोऽभवत् ॥२४॥ततो नाशं स कालेन नीतः कूपोऽपि तस्य वै ।कूपाकाशे गते शोकनिमग्नोऽसौ ततोऽभवत् ॥२५॥कूपाकाशप्रलापान्ते कुम्भं शीघ्रमथाकरोत् ।कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिमाययौ ॥२६॥कुम्भोऽपि तस्य कालेन नाशं नीतो रघूद्वह ।यामेव दिशमादत्ते दुर्भगः सा हि नश्यति ॥२७॥कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः ।कुण्डं तथैव तेनासौ कुण्डाकाशपरोऽभवत् ॥२८॥कुण्डमप्यस्य कालेन केनचिन्नाशमाययौ ।तेजसेव तमस्तेन कुण्डाकाशं शुशोच सः ॥२९॥कुण्डाकाशस्य शोकान्ते खरक्षार्थं चकार सः ।चतुःशालं महाशालं तदाकाशमयोऽभवत् ॥३०॥तदप्यस्य जहाराशु कालः कवलितप्रजः ।जीर्णपर्णं यथा वातस्ततः शोकपरोऽभवत् ॥३१॥स चतुःशालशोकान्ते खरक्षार्थं चकार ह ।कुसूलमम्बुदाकारं तदाकाशपरः स्थितः ॥३२॥तदप्यस्य जहाराशु कालो वात इवाम्बुदम् ।कुसूलनाशशोकेन तेनासौ पर्यतप्यत ॥३३॥एवं गृहचतुःशालकुम्भकुण्डकुसूलकैः ।तस्यापर्यवसानात्मा कालोऽयमतिवर्तते ॥३४॥एवं स्थितः स विवशो गगनं गुहायांगृह्णन्गृहेण गहनेन किलात्मबुद्ध्या ।दुःखान्तराद्धनतराद्धनदुःखजात-मायाति याति च गतागतिसङ्गमूढः ॥३५॥इत्यार्षे श्रीवासिष्ठमहा० वा० दे०मो०निर्वाणप्रकरणे पू०चू०मिथ्यापुरुषोपाख्याने आकाशरक्षणं नाम द्वादशोत्तरशततमः सर्गः ॥११२॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP