संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ८४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ८४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८४ Translation - भाषांतर श्रीवसिष्ठ उवाच । ततः शिखिध्वजो राजा तत्त्वज्ञानपदं विना ।आजगाम परं मोहं तमोन्धत्वमिवाप्रजाः ॥१॥दुःखाग्निदीपितमना मनागपि विभूतिषु ।तास्वभीष्टोपनीतासु न रेमेऽग्निशिखास्विव ॥२ ॥एकान्तेषु दिगन्तेषु निर्झरेषु गुहासु च ।आजगाम रतिं जन्तुर्मुक्तेषुर्व्याधतो यथा ॥३॥राघव त्वमिवाशेषाः सान्त्वानुनयबोधनैः ।प्रार्थितः कार्यते भृत्यैर्महीपो दिवसक्रियाः ॥४॥नित्यमुद्दामवैराग्यः परिव्राडिव शान्तधीः ।खिद्यते च महाभोगान्स भोक्तुं च श्रियं स्थितः ॥५॥ददावतितरां दानं गोभूमिकनकादिकम् ।देवेभ्यो ब्राह्मणेभ्यश्च स्वजनेभ्यश्च मानद ॥६॥चचार च तपः कर्तुं कृच्छ्रचान्द्रायणादिकम् ।परिबभ्राम तीर्थानि वनान्यायतनानि च ॥७॥स तथापि विशोकत्वं न मनागपि लब्धवान् ।अनिधानां खनन्भूमिं निधानार्थी निधिं यथा ॥८॥रात्रिंदिवं महानेष शुष्यत्येव कृशानुना ।चिन्तया चिन्तयामास संसारव्याधिभेषजम् ॥९॥चिन्तापरवशो दीनो राज्यं स्वस्य विषोपमम् ।महाविभवमप्यग्रे नापश्यत्खिन्नया धिया ॥१०॥अथैकदैकान्तगतां चूडालामङ्कमागताम् ।इदं मधुरया वाचा समुवाच शिखिध्वजः ॥११॥शिखिध्वज उवाच ।भुक्तं राज्यं चिरं कालं भुक्ता विभवभूमयः ।अधुनास्मि विरागेण युक्तो गच्छामि काननम् ॥१२॥न सुखानि न दुःखानि नापदो न च संपदः ।क्रोडीकुर्वन्ति तन्वङ्गि मुनिं वननिवासिनम् ॥१३॥न देशभङ्गसंमोहो न संग्रामे जनक्षयः ।राज्यादप्यधिकं मन्ये सुखं वननिवासिनाम् ॥१४॥स्तबकस्तनधारिण्यो रक्तपल्लवपाणयः ।मञ्जरीजालहारिण्यो लोलशुभ्राम्बुदांशुकाः ॥१५॥स्वपरागाङ्गरागिण्यः कृतकौसुममण्डनाः ।आसेव्यकाञ्चनशिलानितम्बतटशोभिताः ॥१६॥तरङ्गमौक्तिकप्रोतसरिन्मुक्तालतावृताः ।लतावयस्यावलिता मुग्धमुग्धमृगात्मजाः ॥१७॥स्वभावोद्दामसौगन्ध्या वितीर्णफलभोजनाः ।षट्पदश्रेणिनयनाः पुष्पापूरलताङ्गिकाः ॥१८॥आस्वाद्यस्यन्दतां याताः शीतलामलगात्रिकाः ।रमयन्ति त्वमिव मां वनवीथ्यो वरानने ॥१९॥यथा विविक्तमेकान्ते मनो भवति निर्वृतम् ।न तथा शशिबिम्बेषु न च ब्रह्मेन्द्रसद्मसु ॥२०॥अस्मिन्सन्मन्त्रणे तन्वि न विघ्नं कर्तुमर्हसि ।भर्तुर्विघटयन्तीच्छां न स्वप्नेऽपि कुलस्त्रियः ॥२१॥चूडालोवाच ।प्राप्तकालं कृतं कार्यं राजते नाथ नेतरत् ।वसन्ते राजते पुष्पं फलं शरदि राजते ॥२२॥जराजरठदेहानां युक्तो वनसमाश्रयः ।न यूनां त्वादृशामेव तेनैतन्मे न रोचते ॥२३॥यौवनेन महाराज न यावद्वयमुज्झिताः ।पुष्पौघेणेव तरवस्तावच्छोभामहे गृहे ॥२४॥पुष्पधाना पुष्पमितजरसा सह काननम् ।समं गृहाद्गमिष्यामो हंसा इव सरोवरात् ॥२५॥अप्राप्तकालं नृपतेः प्रजापालनमुज्झतः ।राजन्यस्यैव रन्ध्रस्य महदेनो भविष्यति ॥२६॥अप्राप्तकारिणं भूपं रोधयन्ति च वै प्रजाः ।रोधयन्ति ह्यकार्येभ्यः प्रभुं भृत्याः परस्परम् ॥२७॥शिखिध्वज उवाच ।अलमुत्पलपत्राक्षि विघ्नेनाभिमतस्य मे ।विद्धि मां गतमेवेतो दूरमेकान्तकाननम् ॥२८॥बाला त्वमनवद्याङ्गि नागन्तव्यं वनं त्वया ।पुंसामपि हि मृद्वङ्गि दुर्विगाह्यो वनाश्रयः ॥२९॥समर्था न वनावासे योषितः कठिना अपि ।कानने पुष्पमञ्जर्यः सोढुं शस्त्रालिमक्षमाः ॥३०॥भवत्या पालयन्त्येह राज्ये स्थातव्यमुत्तमे ।कुटुम्बभारोद्वहनं पत्यौ याते व्रतं स्त्रियः ॥३१॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा दयितां राजा तामिन्दुवदनां वशी ।उत्तस्थौ स्नातुमखिलं दिनकार्यं चकार च ॥३२॥अथोज्झितप्रजाचेष्टो रविरस्ताचलं ययौ ।शिखिध्वजो वनमिव समस्तजनदुर्गमम् ॥३३॥संहृत्य विततं रूपं तमेवानुययौ प्रभा ।नाथं भवननिष्क्रान्तं चूडालेवानुरागिणी ॥३४॥आययौ यामिनी श्यामा भुवनं भस्मधूसरम् ।धृतव्योमापगं शर्वं संश्लेषा यमुनेव सा ॥३५॥दिक्षु संध्याब्ददन्तासु स्थितासु कृतमण्डलम् ।तमालबालकाङ्कासु ज्योत्स्नाहासोदयाङ्कितम् ॥३६॥गच्छतोरपरं पारं दंपत्योर्मैरव पदम् ।देवोद्यानमयं रन्तुं दिनश्रीदिननाथयोः ॥३७॥आगच्छतोरिदं पारं ह्यघतीक्ष्णकरोज्झितम् ।निशानिशानायकयोर्दंपत्योर्मैरवं पुनः ॥३८॥तारागणोऽथ ददृशे विकीर्णो व्योमकुट्टिमे ।मुक्तो मङ्गललाजानां दिग्वधूभिरिवाञ्जलिः ॥३९॥चन्द्रानना तमःश्यामा श्रान्ता कुसुमहासिनी ।यामिनी यौवनं प्राप सरोजमुकुलस्तनी ॥४०॥कृतसंध्यासमाचारः सहचूडालयेष्टया ।सुष्वाप शयने भूयो मैनाक इव सागरे ॥४१॥अथार्धरात्रसमये देशे निःशब्दतां गते ।घननिद्राशिलाकोशनिलीने सकले जने ॥४२॥स तस्यां संप्रसुप्तायां शयने कोमलांशुके ।भृशं निद्राविमूढायां भ्रमर्यामिव पङ्कजे ॥४३॥तत्याज दयितां सुप्तामङ्काद्राजा शिखिध्वजः ।स्वैरं स्वैरं मुखं राहोर्दिशं चान्द्रप्रभामिव ॥४४॥उत्तस्थौ शयनाल्लीनवधूकार्धाञ्चलांशुकात् ।सलक्ष्मीकान्तिलोलोर्मेर्हरिः क्षीरार्णवादिव ॥४५॥वीरक्रमार्थं यामीति तत्रैवानुचरव्रजम् ।योजयित्वा जगामासौ पुरान्निर्गत्य पूर्णधीः ॥४६॥राज्यलक्ष्मि नमस्तुभ्यमित्युक्त्वा मण्डलाद्गतः ।विवेशोग्रामरण्यानीमेको नद इवार्णवम् ॥४७॥घनान्धकारगुल्माढ्या क्षुद्रभूतौघकर्कशा ।सारण्यानी निशा सार्धं समं तेनातिवाहिता ॥४८॥प्रातः शून्यामरण्यानीं स नीत्वा विततं दिनम् ।सममर्केण कस्यांचिद्विशश्राम वनावनौ ॥४९॥भानावदृश्यतां याते तत्र स्नानादिपूर्वकम् ।किंचित्फलादिकं भुक्त्वा तां निनाय तमस्विनीम् ॥५०॥पुनः प्रातः पुराण्युच्चैर्मण्डलानि गिरीन्नदीः ।जवादुल्लङ्घयामास राजा द्वादशशर्वरीः ॥५१॥ततो मन्दरशैलस्य तटस्थं जनदुर्गमम् ।प्राप काननमत्यन्तदूरस्थजनतापुरम् ॥५२॥रटत्प्रणालसलिलवापीवलितपादपम् ।शीर्णवेद्यालयज्ञातभूतपूर्वद्विजाश्रमम् ॥५३॥क्षुद्रप्राणिविनिर्मुक्तसिद्धसेव्यलतालयम् ।आपूर्णपादपलतं प्राणवृत्तिक्ररैः फलैः ॥५४॥तत्रैकस्मिन्समे शुद्धे स्थले सलिलमालिते ।शीतले शाद्वलश्यामे स्निग्धे सफलपादपे ॥५५॥समञ्जरीभिर्वल्लीभिः स चकारोटजालयम् ।प्रावृट्कालः सविद्युद्भिर्नीलाभ्रैरिव पञ्जरम् ॥५६॥मसृणं वैणवं दण्डं फलभोजनभाजनम् ।अर्घपात्रं पुष्पभाण्डमक्षमालां कमण्डलुम् ॥५७॥कन्थां शीतापनोदाय बृसीं चैव मृगाजिनम् ।आनीयायोजयत्तस्मिन्मठिकामन्दिरे नृप ॥५८॥यत्किंचिदन्यद्वा वस्तु योग्यं तापसकर्मणि ।तत्तत्र स्थापयामास जगतीव क्रमं विधिः ॥५९॥संध्यापूर्वं जपं प्रातः प्रहरे स तदाकरोत् ।पुष्पोच्चयं द्वितीये तु स्नानं देवार्चनं ततः ॥६०॥पश्चाद्वनफलं किंचिद्वनकन्दं विसादि च ।भुक्त्वा जप्यपरो भूत्वा निनायैको निशां वशी ॥६१॥इति दिवसमखेदं मन्दरोपान्तकच्छेविरचित उटजेऽन्तर्मालवेशो निनाय ।नवनृपतिविलासं तं न सस्मार कं वास्फुरति हृदि विवेके राज्यलक्ष्म्यो हरन्ति ॥६२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० शिखिध्वजप्रव्रज्या नाम चतुरशीतितमः सर्गः ॥८४॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP